________________ छट्ठाण 1347 - अभिधानराजेन्द्रः - भाग 3 छट्ठाण क्रमेणभिधाय पुनरप्येकं संख्येयभागाधिकं संयमस्थानं वाध्यन, इदं च द्वितीयं संख्येयभागाधिकं स्थानं, ततोऽनेन क्रमेण तृतीयं वाच्यम्। अमूनि चैवं संख्येयभागाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, तदस्तेनैव चक्रमेण भूयोऽपि संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकमेकं स्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तथैव वाच्यानि, ततैः पुनरप्येकं संख्येयगुणाधिकं स्थानं वाच्यम्, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येक संख्येयगुणाधिकं स्थानम्, अमून्यप्येवं संख्येयगुणाधिकानि संयमस्थानानि वाच्यानि यावत्कण्डकमात्राणि भवन्ति / ततस्तेनैव क्रमेण पुनः संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगुणाधिकस्थानं वाच्यम्, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव भूयोऽपि वाच्यानि, ततः पुनरप्येकमसंख्येयगुणाधिकं संयमस्थानं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येकमसंख्येगुणाधिकं वाच्यम्, अमूनि चैवमसंख्येयगुणाधिकानि संयमस्थानानि तावद् वाच्यानि, यावत्कण्डकमात्राणि, ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गैनन्तगुणाधिकं संयमस्थानं वाच्यम्, ततो भूयोऽपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागुक्तानि तावन्ति तथैव वाच्यानि, ततो भूयोऽप्येकमनन्तगुणाधिक स्थानम्, ततः पुनरपि मूलादारभ्य तावन्ति स्थानानि तथैव वाच्यानि, ततः पुनरप्येकमनन्तगुणाधिकं स्थानम्, एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चवृद्ध्यात्मकानिसंयमस्थानानि मूलादारभ्य तथैव वाच्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तत्र प्राप्यते, षटस्थानकस्य परिसमाप्तत्वात् / इत्थंभूतान्यसंख्येयानि कण्डकानि समुदितानि एक षट्स्थानकं भवति / अस्माच षट्स्थानकादूर्ध्वमुक्तक्रमेणैव द्वितीयक षट्स्थानकं तिष्ठति / एवमेव च तृतीयम् / एवं षट्स्थानकान्यपि ताववाच्यानि यावदसंख्येयलोका-काशप्रदेशप्रमाणिनि भवन्ति / उक्तं च-"छट्ठाणगअवसाने, अन्नं छट्ठाणयं पुणो अन्नं / एवमसंखा लोगा, छट्ठाणाणं मुणेयव्वा" ||1|| अस्मिँश्च षट्स्थानके यादृशोऽनन्ततमो भागोऽसंख्येयतमः संख्येयतमो गृह्यते, यादृशस्तुसंख्येयोऽसंख्येयोन ततो वा गुणकारः सन्निरूप्यते, तत्र यदपेक्षयाऽसंख्येयानन्तगुणवृद्धता, तस्य सर्वजीवसंख्याप्रमाणेन राशिना भागो ह्रियते, हृते च भागे यल्लब्ध सोऽनन्ततमो भागः, तेनाधिकमुत्तरं संयमस्थानम, किमुक्तं भवति? प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसंख्याप्रमाणेन राशिना भागे हृते सति ये लभ्यन्ते तावत्प्रमाणैर्निविभागैर्भागर्द्वितीयभागसंयमस्थाने निर्विभागा भागा अधिकाः प्राप्यन्ते, द्वितीयसंयमस्थानस्य ये विभागास्तेषां सर्वजीवसंख्याप्रमाणेन राशिना भागे हते सति यावन्तो लभ्यन्ते तावत्प्रमाणैर्निर्विभागभागैरधिकास्तृतीये संयमस्थाने निर्विभागाभागाः प्राप्यन्ते, एवं यद्यसंयमस्थानमनन्तभागं वृद्धमुपलभ्यतेतत् पाश्चात्यस्य संयमस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते तावत्प्रमाणेन अनन्ततमेन भागेनाधिक्यमवगन्तव्यम् / असंख्येयभागाधिकानि पुनरप्येवं पाश्चात्यस्य 2 संयमस्थानस्य सत्कानां निर्विभागभागानामसंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागेहृते सति यद् यल्लभ्यते स सोऽसंख्येयतमो भागस्ततस्तेनासंख्येयतमेन भागेनाधिकान्यसंख्येयभागाधिकानि स्थानानि वेदितव्यानि। संख्येयभागाधिकानि त्वेवम् - पाश्चात्यस्यासंयमस्थानस्योत्कृष्टन संख्येयेन भागे हृते सतिथल्लभ्यते स संख्येयतमो भागः, ततस्तेन तेन संख्येयतमेन भागेनाधिकानि स्थानानि वेदितव्यानि। संख्येयगुणवृद्धानि पुनरेवम् - पाश्चात्यस्य संयमस्थानस्य ये ये निर्विभागा भागास्ते ते उत्कृष्टेन संख्येयमानेन राशिना गुण्यन्ते, गुणिते चसति यावन्तो भवन्ति तावत्प्रमाणानि संख्येयगुणाधिकानि स्थानानि द्रष्टव्यानि / एवमसंख्येयगुणवृद्धान्यनन्तगुणवृद्धानि च भावनीयानि, नवरमसंख्येयगुणवृद्धौ पाश्चात्यस्य 2 संयमस्थानस्य निर्विभागा भागा असंख्येयलोकाकाशप्रदेशप्रमाणेनासंख्येयेन गुणयन्ते, अनन्तगुणवृद्धौ तु सर्वजीवप्रमाणेनानन्तकेनेति / अयं च षट्स्थानकविचारः स्थापना विना मन्दबुद्धिभिः सम्यगववोद्धंन शक्यते, साच स्थापना कर्मप्रकृतिपटेभ्यः प्रतिपत्तव्या, विस्तरभयात्तु नेह प्रदर्श्यते, केवलं कियन्तमपि स्थापनाशून्यार्थ स्थापनाप्रकारं प्रकाशयामः / तथाहि-प्रथमं तावत् तिर्यक्षडक्तौ चत्वारो बिन्दवः स्थाप्यन्ते, तेषां च कण्डकमिति संज्ञा, सर्वेषामपि चैतेषामन्योन्यमनन्तभागवृद्ध्या वृद्धिरवसेया। ततस्तेषामग्रतोऽसंख्यातभागवृद्धिसंज्ञक एककः स्थाप्यते, ततो भूयोऽपि चत्वारो बिन्दवः, तत एकक इत्यादितावदवसेयं यावदिशतिर्बिन्दवः, चत्वारश्चैकका जाताः, तदनु संख्यातभागवृद्धिसंज्ञको द्विकः स्थाप्यते / ततः पुनरपि विंशतिः बिन्दवः, चत्वारश्चैककाः, ततो द्वितीयो द्विकः / एवं विंशतेर्विशतो बिन्दूनामन्तराऽन्तरा चतुर्णां चतुमिककानामवसाने तृतीयचतुर्थावपि द्विको क्रमेण स्थाप्यौ। तदनु भूयोऽपि चतुर्थद्विकस्यागे विंशतिबिन्दवः, चत्वारश्चैककाः। एवं च जातं बिन्दूनां शतम्, एककानां विशतिश्चत्वारश्च द्विकाः / अत्रान्तरे चतुर्णा बिन्दूनामग्रतः संख्यातवृद्धिसंज्ञिकप्रशमस्त्रिकः संस्थाप्येते, ततः पुनरपि बिन्दूनां शतादेककानां विशतेर्द्विकानां चतुष्टयात्तु परतो द्वितीयस्त्रिकः स्थाप्यते / एवं बिन्दूनां शते 2, एककानां विंशतौ, द्विकानां चतुष्टये चतुष्टयेऽतिक्रान्ते तृतीयचतुर्थावपि त्रिको स्थाप्यौ, तदनु चतुर्थत्रिकस्याप्यग्रे बिन्दूनां शतमेककानां विंशतिर्द्विकानां चतुष्टयं स्थाप्यते, ततो जातानि पञ्च शतानि बिन्दूनां, शतमेककानां विंशतिर्द्विकानां चत्वारश्च त्रिकाः / अत्रान्तरे चतुर्णा बिन्दुनामग्रतोऽसंख्यातगुणवृद्धिसंज्ञिकः प्रथमचतुष्कः स्थाप्यते, ततो भूयोऽपि पञ्च शतानि बिन्दूनां शतमेककानां विंशतिदिकाना चत्वारश्च त्रिकाः प्रागिव स्थाप्यन्ते। ततो द्वितीयश्च-तुष्कः स्थाप्यः / एवं बिन्दूनां श्यातपञ्चके एककानां शते द्विकानां विंशतौ त्रिकाणां चतुष्टये चतुष्टये चान्तिकान्ते तृतीयचतुर्थावपि चतुष्को क्रमेण स्थाप्यौ। ततश्चतुर्थचतुष्कस्याग्रे पञ्चमचतुष्कयोग्यं दलिकं स्थापयित्वा अनन्तगुणवृद्धिसंज्ञिकः प्रथमः पञ्चकोन्यस्यते। एवमनेनैवानन्तरोक्तेन क्रमेण द्वितीयतृतीयचतुर्था अपि पञ्चका न्यसनीयाः / ततश्चतुर्थपञ्चकस्याने पञ्चमपञ्चकयोग्यं दलिकं लिख्यते, नव पञ्चकाः स्थाप्यन्ते। ते आद्यन्तयोः प्रत्येकं बिन्दुचतुष्टयेन प्रथमंषट्स्थानं समाप्यते, यदा पुनः प्रथमानन्तरं द्वितीयं षट्स्थानकं स्थापयितुमिष्यते, तदा तदपेक्षया प्रथमं पृथक्