________________ चेइयवंदण 1267- अभिधानराजेन्द्रः - भाग 3 चेइयवंदण गरूपः / गदिष्यति च-"नवकरजहन्न" इत्यादि / / 4 / / उक्तरूपा च गृहस्थश्च कियद्भेदा वन्दना कार्येति तद्भेदानभिधाय चैत्यवादनाद्वारम्(तिहा उ वंदण यत्ति) त्रिधा जघन्यादिभेदात्त्रिभेदा। केत्याह-वन्दनेति। "भामा सत्यभामे ति" न्यायात चैत्यवन्दना पूर्वोक्तशब्दार्था / प्रतिपादयिष्यते च-"नवकारेण जहण्णा" इत्यादि / तुशब्दो विशेषणार्थः / तेन ग्रन्थान्तरप्रसिद्धजघन्यादिभेदान्नवधाऽपि, एवमवग्रहोऽपि शास्त्रान्तरोक्तो द्वादशधाऽवसातव्यः / एतच्चोपरिष्टाद् दर्शयिष्यते / / 5 / / चैत्यवन्दना च प्रायः प्रणिपातपूर्वा निरूपितेति तत्स्वरूपनिरूपकं षष्ठं प्रणिपातद्धारम्-(पणिवाय त्ति) प्रणिपातः प्रमाणः, स चात्रोत्-कृष्टतः पञ्चाङ्गो ज्ञातव्यः, नाऽष्टाङ्गः / तस्य प्रवचनेऽप्रसिद्धत्वात्। अध्येष्यन्तिच-“पणिवाओ पंचगो" इत्यादि।।६।। कृतप्रणिपातैश्च प्रथमतो नमस्कारा भणनीयाः, अतः सप्तम नमस्कारद्वारम् (नमुक्कार त्ति) नमस्कारो जिनगुणोत्कीर्तनपरा वचनपद्धत्तयो, मङ्गलवृत्तानीतियावत्। ते चात्रोत्कृष्टतः पुरुषानाश्रित्याष्टोत्तरं शतं ज्ञेयम्। निरूपयिष्यति च-"सुमहत्थनमुक्कार" इत्यादि।।७।। नमस्काराश्च वर्णात्मका इति वर्णसंख्याद्वारमष्टमम्-वर्णेत्यदि। यद्वासर्वमप्यनुष्ठानमही-नातिरिक्ताक्षरं करणीयं, विपरीते दोषसंभवात्। तथा चागमः“अहिए कुणालकइणो, हीणे विजाहराइदिट्ठता। बालाउराण भोयण-भेसजविवजओ उभए।।१।।" अहीनाद्यक्षरत्वं च वर्णसंख्यापरिज्ञाने सति भवतीत्यष्टभ वर्णसंख्याद्वारम् (वण्णा सोलसयसीयाल त्ति) वण्र्णा अक्षराणि, ते च सामान्यतोऽत्र चैत्यवन्दनाधिकारे नमस्कारक्षमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता धुवं भणनीयाश्च षोडशशतानि सप्तचत्वारिंशदधिकानि ज्ञातव्याः। तथाहि"अडसहि६८ अट्ठवीसा 28, नवनउअरायं च 166 दुसयसगनउया 287 // दोणुणतीस 226 दुसट्टा 260, दुसोल 216 अडनउयसअ 168 दुवन्नसय 152 // 1 // इअनवकार 1 खमासमण३ इरिय 3 सक्कत्थवाइदमेसु 8 // पणिहाणेसुय 6, अडरुतवण्णसोलसयसीयाला // 2 // " यदिह नवकारादिवर्णपरिसंख्यानं तत्तदादिमूलत्वात्सर्वधर्मस्येति / ज्ञापनार्थम् / एवं पदादिष्वपि वाच्यम्। इगसीयसयं तु पया, सगनउई संपयाउ पण दंडा। वारसऽहिगार चउर्व-दणिज्ज सरणिज्ज चतुहजिणा।।। वर्णश्च पदानि स्युरिति वर्णद्वारानन्तरं नवमं पदद्वारम् “इगसीय" इत्यादि। एकाशीत्यधिकं शतं पदान्यत्रौघतो नमस्कारदिस्था-नसप्तके ज्ञातव्यानि। तुर्विशेषणे। विशेषश्चायम्- यद्यपि “क्षमाश्रमण, जे य अईया | सिद्धा" इत्यादिगतान्यतिरिक्तान्यपि पदान्यप्यत्र सन्ति तथाऽपि पूर्वबहुश्रुतैः संपदादिकं किमपि कारणान्तरमधिकृत्यैव पदानि स्वस्वभाष्यादिषुक्तानीति तन्मार्गानुगामितयाऽस्माभिरप्यौतावन्त्येव तान्युक्तानि, नाधिकानीति। तथा चोक्तं लघुमाष्ये - “नव बत्तीस तितीसा, ति चत्त अडवीस सोल वीस पया। गंगलहरिया राक-थयाइसुंएणसीइसयं // 1 // " एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यम् || द्वियादिभिश्च पदैः संपादा भवन्तीति दशमं संपद्वारम् -(सगनउइसंपयाइउ त्ति) सप्तनवतिसंपयोऽयविश्रामस्थानानि साङ्गत्येन पद्यते परिच्छिद्यतेऽर्थो याभिरिति व्युत्पत्तेः, संगतार्थपदपद्धतय इत्यर्थः / ताश्चैव सप्तसु स्थानेपूच्यन्तै - "अहट्ट नवट्टय अ-ट्टवीस सोलस य वीस वीसामा। मंगल इरिआ सक-त्थयाइदंडेसु सगनउई"||१|| तुशब्दो नामस्तवादिषु प्रायो विशेषार्थपरिच्छेदार्थः, परिच्छेदाभावेऽपि संगतपदत्वेन-"पायसमा ऊसासा" इतिवचनाच सामान्येन संपदो विश्रामस्थानानि ज्ञेयानीति विशेषयति / / 10 / / संपदश्च दण्डादिका अत एकादशं दण्डकद्वारम् (पणदंड त्ति) यथोक्तमुद्राभिरस्खलित भण्डमानतवाद् दण्डा इव दण्डाः, सरला इत्यर्थः / ते चात्रं पञ्च शक्रस्तवादयः / प्रतिपादयिष्यति च-“पण दंडा सक्कत्थय" इत्यादि / यदव वन्दनाया एव दण्डकाः परिज्ञापिताः नान्येषां, तदस्या एवात्र मुख्यतया प्रस्तुतत्वादिति। एवमधिकार्यादिष्वपि वाच्यम्॥११॥ दण्डेषु चैकद्वयादिका अर्थाधिकाराः सन्तीति तत्संख्याख्यापकं द्वादशमधिकारद्वारम- (वारसऽहिगार त्ति) अधिकारा भावार्हदाहालम्बनविशेष - स्थानानि, तेच द्वादश दण्डकपञ्चके भवन्ति। अभिधास्यति च-"दो इग दो पंच य" इत्यादि / / 12 / / अधिकाराश्चाधिकार्यविनाभाविनः, आधेयाभावे आधारव्यपदेशाभावात्, घृताद्यभावेघृतघटादिव्यपदेशाभाववत्। अतोऽधिकारिण आलम्बनापरपर्याया अत्र ज्ञेयाः। ते च द्विधा, वन्दनीयस्मरणीयभेदात्। तत्र प्रथमं सामान्यतः सकलबन्दनीयप्रतिपादकं त्रयोदश वन्दनीयद्वारम्-(चउवंदणिज त्ति) चत्वारो वक्ष्यमाणा जिनादयोऽत्र वन्दनीयाः प्रमाणार्चाद्यर्हाः / निरूपयिष्यति च"चउवंदणिजं जिणमुणिसुयसिद्ध त्ति" // 13 // अधिकारप्रस्तावादेव चतुर्दशंस्मरणीयद्वारम्-(सरणिज्ज त्ति) स्मरणीयाः क्षुद्रोपद्रवविद्रावणादितद्गुणानुचिन्तनादिनोपबृंहणीयाः; सूचनीया इति यावत् / यद्वास्मरणीयाः प्रमादादिना विस्मृतं तत्करणीयं तत् सङ्घादिकार्य च ज्ञापनीयाः। अथवा-सारणीवाः प्रभावनादौ। तत्र हि ते कार्ये प्रवर्तनीयाः; तेचावाधिकारितया सम्यग्दृष्टयो देवा ज्ञातव्याः, तेषामेव स्मरणाद्यर्हत्वात्। अर्हदादीनां तु वन्दनीयत्वेन प्रागुक्तत्वात् स्मारणादिकर्तृत्वाच / भणिष्यति च-"इह सुरा य सरणिज्ज ति" ||14|| एवं च सामान्ये नाधिकारिण उक्ता इति विशेषतस्तदभिधानार्थ पञ्चदशं जिनद्वारम्- (चतुह जिण त्ति) अथवा जिनादयोऽत्र वन्दनीया इत्युक्तम् जिनाः कतिविधा इति तद्भेदोद्भावकं पञ्चदशं जिनद्वारम्-(चउह जिण त्ति) जिना दुरिरागाद्यन्तरवैरिवारजेतारः, ते च चतुर्दा वक्ष्यमाणनामजिनादिभेदेन चतुःप्रकाराः / वक्ष्यति च-"चउह जिणा नाम" इत्यादि / / 15 / चउरो थुई निमित्त-ऽट्ठ वार हेऊ य सोल आगारा। गुणवीस दोस उस्स-गमाण थुत्तं च सगवेलाः।। जिनादयः स्तुत्यादिभिः स्तूयन्ते इति जिनद्वारानन्तरं षोडशं स्तुतिद्वारम् / सजा०। (ताः कति दीयन्तेऽत्र विचा