________________ चेइय 1236- अभिधानराजेन्द्रः-भाग 3 चेइय नोक्तमतामहं श्वो नेष्यामि / ततोऽसौ स्वनगरी गत्वा तद्रूपां प्रतिमा / कारयित्वा रचित्वा तामादाय तत्रैव रात्रावायातः, स्वकीवदप्रतिमा देवतानिर्मितप्रतिमास्थाने विमुच्यतो सुवर्णगुलिकां च गृहीत्वाऽऽगतः। प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमत्रपुरीषगन्धेन विमदान स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतुप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपमातो दशभिर्महाबलेः राजभिः सहोजयिनी प्रति प्रस्थितः / अन्तरा पिपासावाधितसैन्यस्विपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोञ्जयिन्या बहिःप्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरनारूढ़ चण्डप्रद्योतं / प्रजिहिर्ष मणडल्या भ्रमन्तं चरणतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् दासीपतिरिति लबाटपट्टे मयूरपिच्छेनाङ्कितवानिति / प्रति०। प्रश्न० 4 आश्र० द्वार / दिगद्वयोर्निग्रहे स्थनाङ्गालापको द्वितीयस्थाने प्रथमोद्देशके यथा-"दो दिसाओ अभिगिज्झ कप्पइ णिगंथाण वा णिग्गंथीण वापव्वाक्त्तिए पाईण चेव उदीणं चेव एवं मुमवित्तए सिक्खावित्तए उवट्ठावित्तए संभंजित्तए संवसित्तए सझाचं उद्दिसित्तए सझायं पदिसित्तए संझायं अणुजाणितए आलोइत्तए पडिक्कमित्तए णिदित्तए गरहित्तए विउवित्तए विमोहित्तए अकरणयाए अन्भुद्वित्तए अहारिहं पायच्छित्तं तवोकम्म पडिवजितए, दो दिसाओ अभिगिज्झ कप्पइ णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसंलेहणाझूसिधाण भत्तपाणपडिआइक्खियाणं पाओवगयाणं कालं अणवकखमाणाणं विहरित्तए तंपाईणं चेव उदीए चेव त्ति' / प्रति०। स्था० अत्र हि दिगद्वयाभिमुखीकरणमहेश्चैत्यानां भुग्नाभिमुखीकरणायैवेति तद्विनय- 1 सर्वकर्मपूर्वाङ्कत्वाद् गृहस्थस्याधिकारिणो लोकोपचारतद्विनयात्मकपूजायाः प्रधानवस्तूचितमेवेति तात्पर्यम्। प्रति० उक्तंच-"पुय्वाभिमुहो ठिचा, दिजा अहवा पडिच्छिजा।जाए जिणादओवा, जिणिंदवरचेइयाई वा' / / 1 / / प्रतिका व्यवहारलापको यथा आलोचनासूत्रे-"जत्थेव सम भावियाई पासेजा० जाव पडिक्कमिज्जा, णो चेव सम्मं भावियाइं वहिआ गामस्स० जाव सन्निवेसस्स पाईणाभिमुहे वा उदीणाभिमुहे वा करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वदिजाएवइआ मे अवराहा एवइक्खुत्तो अहं अवरद्धो अरहताण सिद्धाणं अंतिए आलोइज्जा पडिक्कमेजा निदिज्जा पायच्छित्तं पडिवञ्जिज ति वेमि / ' प्रति / अथाऽग्रेतनस्याप्यभावे यत्रैव सम्यग्भावितानि जिनवचनवासितान्तःकरणानि दैवतानिपश्यति, तत्र गत्वा तेषामन्तिके आलोचयेत, दैवतानि हि भृगुकच्छगुणशिलादौ भगवत्समवत्तरे एकाशे विधीयमानानि शोधिकरणानि दृष्ट्वा विशोधिदानसमर्थानि भवन्ति, महाविदेहेषु गत्वा तीर्थङ्करानापृच्छय वाचाऽष्टमेनाकम्प्य पुरत आलोचयेत् / तासामपि देवतानामभावेऽर्हत्प्रतिमानां पुरतः स्वप्रापितदानपरिज्ञाकुशलमालोचयति, ततः स्वयमेव प्रतिपाद्यते प्रायश्चितम्, तासामप्यभावे ग्रामादेर्वहिः प्राचीनादिदिगभिमुखः, करतलाभ्यां परिगृहीतं तथा शिरसाऽवर्तो यस्य तम्। अलुक्समासः / अज्जलिं कृत्वा एवं वदेत्एतावन्ते मेऽपराधाः, एतावत् कृत्वाऽहमपराद्धः / एवमर्हता सिद्धानामन्तिके आलोचयेत् / प्रायश्चित्तदानविधिं विद्वानालोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं, स च तथा प्रतिपद्यमानः शुद्ध एव, सूत्रोक्तविधिना प्रवृत्तेः / यदपि च विराधितं तत्रापि शुद्धः, प्रायश्चित्त प्रत्तिपत्तेरिति / अत्र'"सम्म भाविआई "इति विशेषणेनैव देवतानां चैत्यानां च "अहं च भोयरायस्स' इत्यत्र 'पुत्र्याम्' इवाक्षेपात् विशेषणद्धयानुरोधेनावृत्तिं कृत्वा व्याख्येन् / सम्यग्भावितप्रतिमापुरस्कारश्च मनःशुद्धेर्विशेषायैव दिग्द्वपरिग्रह इवेति न्यायोपेतमेव। यधुच्यते कुमतिभिःसम्यग्भावितपदेनाविरतसम्यग्दृष्टरेव पारिशेष्येण ग्रहान्न प्रतिमास्पर्श इति। तदस्पृशास्पर्शस्य भूषणत्वान्न दूषणम्, आलोचनादानार्हस्य गीतार्थे संभवेऽध्यात्मशुद्ध प्रतिमाश्रयणस्यैव शास्त्रार्थत्वात्। अर्हसिध्दपुरकारस्य कथमिदमुत्सर्गतामवलम्बतामिति चेत्, सद्भावाभ्यामत्रापि विशेष विभावय / एतेन पर्यन्तोक्तत्वाजघन्य प्रतिमाश्रयणमित्यपि दुर्वचनं निरस्तम्, ततोऽप्यग्रेऽर्हत्सिद्धपुरस्कारस्योक्तेरिति किमिति पल्लवितेन // 64|| (18) द्रौपद्यधिकारः। प्रतिमापूजायां द्रौपदीभद्रासार्थ __ वाहीसिद्धार्थराजानामुदाहरणानितीर्थेशप्रतिमार्चनं कृतवती सूर्याभवरक्तितो, यत् कृष्णा परदर्पमाथि सुदिदं षष्ठाङ्गविस्फूर्जितम्। सचक्रे खलु या न नारदमृषिं मत्वाऽव्रतासंयतं, मूढानामुपमुजायते कथमसौ न श्राविकेति भ्रमः? ||681 / / कृष्णा द्रौपदी, सूर्याभवत् राजप्रश्नीयो पाङ्गाभिहितव्यतिकरसूर्याभदेववत्, भक्तितो भक्त्या, तीर्थशानां भगवतां, प्रतिमार्चनं प्रतिमापूजनं, कृतवती, तदिदंतदेव तदर्थाभिधायकम्, नपरं, षष्ठाङ्गस्य ज्ञाताधर्मकथाध्ययनाङ्ग स्य, विस्फूर्जितं सम्यख्याख्यानविलसितं, परेषां कुवादिनां, दर्पमहङ्कारं मआतीत्येवंशीलम्, ते हि वदन्तिपञ्चमगुणस्थानवृत्त्या पूजा कृतेतिसूत्रे कुत्राऽपि व्यक्ताक्षरं नोपलभ्यते, गते प्रसिद्ध षष्ठाङ्ग एव च तदक्षरोपलब्धेरिति कथं नोत्तानदृशो दर्पप्रतिघातः / ननु द्रोपद्याऽर्हत्प्रतिमापूजा कृतेति षष्ठाङ्गेऽभिहितमिति वयमपि नापहमः, तस्याः पञ्चमगुणस्थानं नास्तीत्येवं तु ब्रूम इति चेत्, अत्राह-या तं नारदमृपि व्रतासंयतं मत्वा न सच्चक्रे न सत्कृतवमी, असौ श्राविका नेति भ्रमः कथमुपजायते?, प युक्तोऽयं भ्रमः / एवमापद्याचाम्लान्तरितषष्ठादिकरणमपि श्राविकात्वमेवार्थापयतीति द्रष्टव्यम्। अत्रालापका ज्ञातावृत्तौ--"तएणं सा दोवई रायवरकन्नगा जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छत्ता मज्जणघरं अणुपविसइ, अणुपविसइत्ता एहाया कयवलिकम्मा कयकोउयमंगलपायच्छिता सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिया मज्जघराओ पडिनिक्खमइ, पडिनिक्खमइत्ता जेणेव जिणघरे तेणेव उवागच्छइ, उवागच्छाइत्ता जिणघरं अणुपविसइ, जिणपडिमाणं आलोए पणामं करेइ, करेइत्ता वंदइ, नमसइ, नमसइत्ता लोमहत्थेणं परामुसति, परामुसइत्ता एवं जहा सूरियाभो जिणपडिमाओ अञ्चेति तहेव भाणियव्व जावधूवं महति, महतित्ता वामं जाणुं अंचेइ, दाहिणं जाणुंधरणितलंसि साहहु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ, निवेसेइत्ता ईसिं पच्चुन्नमइ, करयल जाव कटु एवं वयासिणमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ, णमंसइ, नमंसइत्ता जिणघराओ पडिनिक्खमइ, जेणेव अंतेउरे तेणेव उवागच्छइ"। ज्ञा०१६ अ० अत्र यावत्करणात् अर्थतो दृश्यं, लोमहस्तकेन जिनप्रतिमाः प्रमार्टि, सुरभिगन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्वा पप