________________ चंदमंडल १०७६-अभिधानराजेन्द्रः भाग-३ चंदमंडल पंचसत्तावीसं जोअणसए णव य एगट्ठिभाए जोअणस्स एगट्ठिभाग च सत्तहा छेत्ता छ चुण्णिआभाए आयामविक्खभेणं तिण्णि अ जोअणसयसहस्साइं अट्ठारससहस्साइं पंचासीइ च जोअणाई परिक्खेवेणं // "बाहिराण” इत्यादि / बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः / पृच्छति प्रश्रालापाकस्तथैव उत्तरसूत्रे गौतम ! एकयोजनलक्षं पञ्चसप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा षट्चूर्णिकाभागान् आयामविष्कम्भाभ्याम्। अत्रोपपत्तिपूर्वराशेसप्तति योजनान्येकं पञ्चाशत चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एक भागमपनीय कर्तव्या त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीति योजनानि परिक्षेपेण सर्वबाह्यमण्डलपरिधे: द्वे शते त्रिंशदधिके योजनानामपनयने यथोक्त मानम् / अथ तृतीयम्बाहिरतच्चे णं भंते ! चंदमंडले पण्णत्ते / गोयमा ! एगं जोअणसहयसहस्सं पंचदसुत्तरे जोअणसए एगुणवीसं च एगसद्विभाए जोअणसए एगट्ठिभागं च सत्तहा छेत्ता पंच चुणिआभाए आयामविक्खंभेणं तिण्णि अ जोअणसयसहस्साइं सत्तरसहस्साइं अट्ठ य पणपण्णि जोअणसए परिक्खेवेणं / / "वाहिरतचे णं" इत्यादि / बाह्यतृतीयं भदन्त ! चन्द्रमण्डल यावच्छन्दात् सर्व प्रश्रसूत्रं ज्ञेयम् उत्तरसूत्रे गौतम ! एकं योजन-लक्षं पञ्चदशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभाग सप्तधा छित्त्वा पञ्च चूर्णिकाभागान् आयामविष्कम्भाभ्याम् / अत्र संगतिस्तु द्वितीयमण्डलराशे: द्वासप्ततियोजनादिक राशिमपनीय कार्यात्रीणि योजनलक्षाणि सप्तदशसहस्राणि अष्ट च पञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपेण उपपत्तिस्तु पूर्वराशेट्टै शते त्रिंशदधिकेऽपनीय काया। अथ चतुर्थादिमण्डलेष्वतिदेशमाहएवं खलु एएणं उवाएणं पविसमाणे चंदे० जावा संकममाणे 2 वावत्तरि 2 जोअणाई एमावणं च एगट्ठिभाए जोअणस्स एगट्ठिभाग च सत्तहा छेत्ता एगं चुण्णिआभागा एगमेगे मंडले विक्खंभवुदि णिवु द्वेमाणे 2 दो दो तीसाइं जोअणसयाई परिरयवुड्डि णिवुड्डेमाणे 2 सव्वमंतरं मंडलं उवसकमित्ता चारं चरई॥ "एवं खलु" इत्यादि पूर्ववत् / प्रविशश्चन्द्रो यावत्पदात् “तयाणंतराओ मंडलाओ तयणंतरं मंडलमिति" ग्राह्यम् / संक्रामन् 2 द्वासप्तप्तिं 2 योजनानि एक पञ्चाशतमेकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकषष्टिभागं च सप्तधा छित्त्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धि निबर्द्धयन् 2 हायपन् हापयन्नित्यर्थ: / द्वे द्वे त्रिंशदधिक योजनशते परिरयवृद्धिं निवर्द्धयन् 2 हापयन् हापहन्नित्यर्थः / सर्वाभ्यन्तरमण्डलमुसंक्रम्य चारं चरति। अथ मुहूर्तगतिप्ररूपणा जया णं भंते ! चंदे सव्वन्भंतरं मंडलं उवसंकमित्ता चाइंचरइ, तया णं एगमेगेणं मुहूत्तेणं केवइअं खेत्तं गच्छइ / गोयमा ! पंचजोअणसहस्साई तेवत्तरिं च जोअणाई सत्तत्तरिं च चोआले भागसए गच्छए मंडलं तेरसहिं सहस्सेहिं सत्तहिं अ पणवीसे छेत्ता॥ "जया ण'' इत्यादि पूर्ववत् / भदन्त ! चन्द्रः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चार चरति / तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति / भगवानाह-गौतम ! पञ्चयोजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चत्वारिंशदधिकानि भागशतानि गच्छति / कस्य सत्का भागा इत्याह-मण्डलं प्रक्रमात् सर्वाभ्यन्तरं त्रयोदशभिः सहस्रः सप्तभिश्च शतैः पञ्चविंशत्यधिकभागः स्थित्वा विभज्यैतत् पञ्चसहस्रयोजनादिकं गति परिमाणमानेतव्यं तथाहि-प्रथमत: सर्वाभ्यन्तरमण्डलं परिधि योजन 315086 रूपो द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम् 66634666 अस्य राशे: त्रयोदशभिः सहयैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि पञ्चयोजनसहस्राणि त्रिसप्तत्यधिकानि अंशाश्च सप्ततिशतानि चतुश्चत्वारिंशदधिका:-५०७३ ननु यदि मण्डलपरिधि: त्रयोदशसहस्रादिकेन रा-७७४४ शिना भाज्यस्तर्हि किमित्यकविंशत्यधिकाभ्यां द्वाभ्यां 13725 शताभ्यां मण्डलपरिधिर्गुण्यते उच्यते चन्द्रस्य मण्डलपूरणकालाद् द्वाषष्टिमुहूर्ता एकस्य च मुहूर्तस्य सत्कास्त्रयोविंशतिरेकविंशत्यधिकशतद्वयभागा: / अस्य च भावना चन्द्रस्य मुहूर्तभागगत्यवसरे विधास्यते मुहूर्तानां सवर्णनार्थमेकविशंत्यधिकशतद्वयेन गुणने त्रयोविंशत्यशप्रक्षेपेच जातम् 13725 अत: समभागानयनार्थ मण्डलस्याप्येक विंशत्यधिकशतद्वयेन गुणनं संगतमेवेति / अयं भाव:-यथा सूर्य: षष्ट्या मुहूर्तमण्डलं समापयति शीघ्रगतित्वात् लघुविमानगामित्वाच्च / तथा चन्द्रो द्वाषष्ट्या मुहूर्त स्त्रयोविंशत्यधिकशतद्वयभागैर्मण्डलं पूरयति / मन्दगतित्वाद् गुरुविमानगामित्वाच तेन मण्डलपूर्तिकालेन मण्डलपरिधिभक्तः सन् मुहूर्तगतिं प्रयच्छतीति सर्वसंमतमाह एकविंशत्यधिकशतद्वयभागकरणे किं बीजमिति चेदुच्यतेमण्डलकालानयने अस्यैव छेदराशे: समानयनात् मण्डलकालनिरूपणार्थभिदं त्रैराशिकं यदि सप्तदशशतै: अष्टषष्ट्यधिकै: सकलयुगवर्तिभिः अर्द्धमण्डलैरष्टादशशतानि त्रिंशदधिकानि रात्रिन्दिवाना लभ्यन्ते ततो द्वाभ्यामर्धमण्डलाभ्यामेकेन मण्डलेनेति भावः / कति रात्रिन्दि वानिलभ्यन्ते।राशित्रयस्थाना–१७६८।१८३० / 2 / अत्रान्त्येन राशिना द्विकलक्ष्ज्ञर्णन मध्यस्य राशे: 1830 रूपस्य गुणेन जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि 3660 तेषामाद्येन राशिना 1768 रूपेण भागे हृते लब्धे द्वे द्वे रात्रिन्दिये। शेषं तिष्ठतिचतुर्विशत्यधिकं शतम् 124 तत एकस्मिन् त्रिंशन्मुहूर्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि 3720 तेषां सप्तदशभिः शतैः अष्टषष्ट्यधिकैर्भागे हृते लब्धौ द्वौ मुहूर्ती शेषाः 184 अथ छेद्यछेदकराश्योरष्टकेनापवर्तने जाते छेद्यो राशिस्त्रयोर्विशति: छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति / (जं०) ज्यो०। अथाऽस्य दृष्टिपथप्राप्ततामाहतया णं इहगयस्स मणसस्स सीआलीसाए जो अणस्य