________________ उवओग ८९०-अभिधानराजेन्द्रः - भाग 2 उवओग तुर्द्धत्येवं यो द्वादशविधोपयोगः श्रुतेऽभिहितो यच्च ज्ञानं पञ्चविधं दर्शनं चतुर्विधं प्रोक्तं तदेतत्सर्वमपि केवलज्ञानदर्शनयोरेकत्ये कुत उपपद्यतेन कुतश्चिदिति। अपिचभणियमिहेव य केवल-नाणुवउत्ता मुणंति सव्वंति। पासंति सवओत्तिय, केवल दिट्ठीहिणंताहिं।। इहैव पुरतो भणितं केवलज्ञानोपयुक्ताः सिद्धा सर्वे (मुणंति) जानन्ति तथा पश्यन्ति च सर्वतः केवलदर्शनदृष्टिभिरनन्ताभिर्यद्वक्ष्यति "केवलनाणुवउत्ता, जाणंती सव्वभावगुणभावे। पासंति सव्वओ खलु, केवलदिट्ठीहिणताहिमिति" तस्मान्नैतयोरेकत्वमितिभावः / पुनरपि परः प्राह। आह परोभावम्मि, उवउत्ता दसणे य नाणे य। भणियंतो जुगवंतो, नणु भणियमिणं पितं सुणसु / / आह परो नन्वपृथाभावेऽपि केवलज्ञानदर्शनयोर्न दोषा यतः "असरीरा जीवघणा उवउत्तादसणेय नाणेय' इत्यत्रदर्शनेच ज्ञानेच युगपदुपयुक्ता इति भणितं ततो युगपदेव केवलज्ञानदर्शनोपयोगः सिद्धः / सुरिराह। ननु यदि भणितेनार्थसिद्धिस्तव त_दमपि भणितं वर्तत्ते तच्छृणु किंपुनस्तदित्याह || नाणम्मि दंसणम्मिय, वत्तेगयरम्भि उवउत्ता। सव्वस्स केवलिस्स, जुगवदो नत्थि उवओगा।। एतदिहैव व्यक्तं पुरस्तावक्ष्यति ततोऽस्यां गाथायां भद्रबाहुस्वामिभिर्व्यक्तऽपि युगपदुपयोगे निषिद्धे किमिति तद्योगपद्याभिमानोऽद्यापि न त्यज्यत इति भावः / अत्र परस्य व्याख्यान्तरकल्पनामाशङ्कच परिहरन्नाह - अह सव्वस्सेव न केवलिस्स दो किं तु कस्सइ हवेज। सो य जिणो सिद्धो वा, तं च न सिद्धाहिगाराउ।। अथैवं व्याख्यायते परेण सर्वस्यैव केवलिनोनयुगपवावुपयोगौ किंतु कस्यापि द्वौ भवेतां कस्यचिदेकः स च के वलिजिनसिद्धो वा भवेद्भवस्थकेवली वा भवेदित्यर्थः / ततश्च भवस्थकेवलिनोऽद्यापि सकर्मकत्वादेकदा एक एवोपयोगः / सिद्धके वलिनस्तु सर्वथा कर्ममलकलङ्कविप्रमुक्तत्वात् युगपद्वावुपयोगीभवत इतिपर-स्याकूतं तच न युक्तमिह सिद्धाधिकारादिदमुक्तं भवति 'सव्वस्स केवलिस्स" इत्यादिना सिद्धाधिकारे सिद्धस्यैव भद्रबाहुस्वामिभिर्युगपवावुपयोगी निषिद्धावतो न किंचित्त्वत्कृता व्याख्यान्तरकल्पनेह भवतीति भावः। सूरिः समाधानान्तरमाहअह पुव्वद्धणेव, सिद्धमेक्कोत्ति किं च विइएणं / एत्तो वि य पच्छद्धे, निगमइ सव्वपडिसेहो। अथवा 'नाणम्मि दंसणम्मि य वत्तेगयरम्मि उवउत्ता'' इत्यनेन पूर्वार्द्धनैवेकदा एक उपयोगः सिद्धस्ततः किं द्वितीयेन पश्चार्द्धनो-क्तेन उक्तं चेदत (एतोवियत्ति) इत एव 'सव्यस्स केवलिस्स" इत्यादि | पश्चा?पन्यासात्सर्वप्रतिषेधो गम्यते। यथा सर्वस्य केयलिनोऽपि युगपद् / द्वावुपयोगौ न स्तः किंपृच्छा केवलिन इति॥ पुनः परवचनमाश क्य | परिहारमाहतो कहमिहेव भणियं, उवउत्ता दंसणे य नाणे य। समुदायविसयमेयं, उभयनिसेहो यपत्तेयं / / यदि न युगपदुपयोग इष्यते तत आचार्यः कथमिहैव भणिष्यति तथापीहैव भणिष्यतीत्यर्थः। किंतदित्याह (उवउत्ता दसणे यत्ति) दर्शन ज्ञाने च युगपदुपयुक्ता इह किल भणिता इति परस्याभिप्रायः। अयं च मिथ्याभिमानोपहृतसदोधात्वात्कदभिप्राय एवेति दर्शयति (समुदायवयणमेयत्ति) समुदायविषयमेवेदं नतु युगपदुपयोगप्रतिपादनपरमित्यर्थः / अनन्तास्तर्हि सिद्धास्तत्समुदायेऽत्र केऽपि ज्ञाने उपयुक्ताः केचिद्दर्शन इत्ययमर्थः / प्रत्येकविवक्षायां पुनः "पत्तेआवरणत्ता'' मित्याद्यभिहितयुक्तेयुगपदुभयोपयोगनिषेध एव मन्तव्य इति पुनरपि प्रेर्यपरिहारौ प्राहजम्हाअपज्जत्ताई, केवल तेणोभओवओगो ति। भण्णइ नायं नियमो, संतं तेणोवओगोत्ति॥ साद्यपर्यवसितत्वाद्यस्मादपर्यन्ते अविनाशिनी सदावस्थितकेवलदर्शने तेन तस्माद्युगपदुपयोग इष्यते अस्माभिः / इदं हि यद्गोधस्वभावसदावस्थितं च तस्योपयोगेनापि सदा भवितव्यमेव अन्यथोपलशकलकल्पत्वेन बोधस्वभावत्वानुपपत्तेः सदोपयोगे च द्वयोर्युगपदुपयोगः सिद्ध एवेति परस्याभिप्रायः। आचार्य आह / भण्यते अत्रोत्तरम्। नायं नियमः सर्वदा यल्लब्धिमारित्य स विद्यमानकेवलज्ञानं केवलदर्शनंचतेन तयोरुपयोगेनापि सर्वदा भवितव्यमिति कुतः पुनर्नायं नियम इत्याहठिइकालं जह से दसणनाणाणमणुवओगे वि। दिहमवत्थाणं तह, न होइ किं केवलाणं पि।। यथा केवलज्ञानदर्शनाभ्यां शेषाणि यानि दर्शनज्ञानानि तेषां निज 2 च्छित्तिकालं यावदनुपयोगाभावेऽपि सत्वस्यावस्थानं दृष्टं तया केवलज्ञानदर्शनयोरेपि निजस्थितिकालं यावदनुपयोगे पि सर्वस्यावस्थानं किमिति न भवति भवति चेत्तर्हि सतो ज्ञानस्य दर्शनस्योपयोगेन भवितव्यमिति अनेकान्तिकमेव / इयमत्र भावना / शेषज्ञानदर्शनानां प्रज्ञापनायां कायस्थितौ दीर्घस्थितिकाल उक्तस्तद्यथा। "मइनाणीणं भंते ! मइनाणित्ति कालओ केचिरं होइ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्केसेणं छावर्द्धिसागारौवमाइं साइरेगाइएवं सुयनाणीवि ओहिनाणीवि एवं चेव नवरं जहन्नेणं एक समय मणपज्जवनाणी जहन्नेणं एक समयं / उक्कोसेणं देसूणं पुवको डिं' यदा विभङ्ग ज्ञानसम्यत्तवलाभे समयमेकमवधिज्ञानं भूत्वा प्रतिपतति तदा अवधिज्ञानस्य जघन्यतः समय स्थितिकालो मन्तव्यः / मनः पर्यायज्ञानस्य तुत्पत्त्यनन्तरं तद्वतो मरणादिति "चक्खुदंसणी जहन्नणं अंतोमुहुर्त उक्कोसेणं सागरोवमसहस्सं साइरेगं अचक्युदंसणी अणाइए वा अपञ्जवसिए अणाइए वा पज्जवसिए ओहिदंसणीजहा ओहिनाणि त्ति' तदेवमेतेषां निजनिजस्थितिकालं यावत्सत्वमुक्तम् / उपयोगस्त्वान्तौ हूर्तिकत्वान्तावन्तं कालं भवत्यतः सतोऽवश्यमुपयोगेन भवितव्यमिति कथं नानैकान्तिकम्। अथलब्धित एवैतान्येतावन्तं कालं भवन्ति नतु बोधात्मनेति चेत्तदिदं हन्त केवलज्ञानदर्शनयोरपि समानं तयोरपि लब्धित एवापर्यन्तत्वादुपयोगतस्तु सामानिकत्वादिति पुनरप्यतिस्वाग्रहग्रस्तत्वात्परः प्राहनणु सनिधणता समयं, मिच्छावरणक्खउत्ति व जिणस्स। इयरेयरावरणया, अहवा निकारणावरणं / / एगयराणुवउत्ते, तदसव्वण्णुदस्सित्तणमेव। भण्णइ छउमत्थस्स वि, समाणमेगंतरे सव्वं / / ननु यदि एकस्मिन्समये के वलज्ञानोपयोगोन्यस्मिस्तु समये केवलदर्शनोपयोग इष्यते तोव क्रमोपयोगित्वे केवलोपयो गित्वे केवलज्ञानदर्शनयोः सनिधनत्वं प्रतिसमयं सान्तत्वं प्राप्नोति।