________________ उवओग 888 - अभिधानराजेन्द्रः - भाग 2 उवओग गे पण्णत्ते तं जहा सागारोवओगे य अणागारोवओगे य॥ कतिविधः कतिप्रकारः सूत्रे एकारो मागधभाषालक्षणवशात् णमिति वाक्यालंकृतौ भदन्त परमकल्याणयोगिन् उपयोग उपयोजनमुपयोगो भावे घञ् यद्वा उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः पुनाम्नि करणे घञ् प्रत्ययो बोध-रूपो जीवस्य तत्त्वभूतो व्यापारः प्रज्ञप्तः प्रतिपादितः भगवानाह गोयमेत्यादि / आकारप्रतिनियतो ग्रहणपरिणामः "आगारोअविसेसो'' इति वचनात् सह आकारेण वर्तत इति साकारः सचासा-वुपयोगश्च साकारोपयोगः। किमुक्तं भवति। सचेतने अचेतने वा वस्तुनि उपयुञ्जान आत्मा यदा सपर्यायमेव वस्तुपरिच्छनत्ति तदास उपयोगः साकार उच्यते इति।स चकालतः छद्मस्थानामन्तर्मुहूर्त कालं केवलिनामेक सामायिकः तथा न विद्यते यथोक्तरूप आकारो यत्र सोऽनाकारः स चासावुपयोगश्चानाकारोपयोगः। यत्तु वस्तुनः सामान्यरूपतया परिच्छेदः सोऽनाकारोपयोगः स्कन्धावारोपयोगवदित्यर्थः / असावपि छद्मस्थानामान्तौ हुर्त्तिकः परमनाकारोपयोगकालात्साकारोप-योगकालः संख्येयगुणः प्रतिपत्तव्यः पर्यायपरिच्छेदकतया चिरकाललगनात् छद्मस्थानां तथास्वाभाव्यात्। केवलिनांत्वनाकारोपयोग एकसामायिकः चशब्दौस्वगतानेकभेदसूचकौ। तत्र साकारोपयोगभेदानभिधित्सुरिदमाह // सागारोवआगेणं भंते ! कतिविहे पण्णत्ते ? गोयमा ! अट्ठविहे पण्णत्ते, तंजहा आभिनिवोहियनाणसागरोवओगे सुयनाणसागरोवओगे, ओहिनाणमणपञ्जवसागरोवओगे केवलनाण- | सागारोवओगे य / मतिअन्नाणसागारोवओगे सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे य / / अर्थाभिमुखो नियतः प्रतिस्वरूपको बोधो बोधविशेषोऽभिनि-बोधः। अभिनिबोध एव आभिनियोधिकम् / अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् विनेयादिभ्य इत्यनेनस्वार्थे इकण् प्रत्ययः / अनिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनात्तत्र नपुंसकता यथा विनय एव वैनयिकमित्त्यत्र / अथवा अभिनिबुध्यते अस्मादस्मिन वेति अभिनिबोधस्तदाचरणकर्म-क्षयोपशमस्तेन निर्वृत्तमाभिनिबोधिकं तच्च तज्ज्ञानं चाभिनिबोधिकज्ञानम्। इन्द्रियमनोनिमित्तोयोग्यप्रदेशावस्थित वस्तुविषयः स्फुटप्रतिलाभो बोधविशेष इत्यर्थः। सचासौसाकारोपयोगश्च आभिनिबोधिकज्ञानसाकारोपयोगः। एवं सर्वत्रापि समासः कर्तव्यः। तथा श्रवणं श्रुतं वाच्यवाचक भावपुरस्सरीकरणशब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेष एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामशब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तागमविशेष इत्यर्थः। श्रुतं चतज्ज्ञानंच श्रुतज्ञानं ततो भूयः साकारोपयोगशब्देन विशे-षणसमासः तथाऽवशब्दोऽधः शब्दार्थः / अत्र अधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः / यद्वा अवधिः मर्यादारूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरुपा तदुपलक्षितं ज्ञानमप्यवधिः / अवधिश्वासौ ज्ञानं चावधिज्ञानम् / तथा परि सर्वतोभावे अवनं अवः तुदादिभ्योऽन् क्वचिदित्यधिकारे अकितौ चेत्यकारप्रत्ययः अवनं गमनमिति पर्यायः / परि अवः पर्यवः मनसि मनसोवा पर्यवो मनः पर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः / पाठान्तरं पर्यय इति तत्र पर्ययणं पर्ययः मनसि मनसो वा पर्ययः मनःपर्ययः। सर्वतस्तत्परिच्छेद इत्यर्थः। स चासौ ज्ञानं मनःपर्ययज्ञानं मनः पर्यवज्ञानं वा। अथवा मनः पर्यायेति पाठान्तरं तत्र मनांसि पर्येति सर्वात्मना परिच्छिनत्ति मनः पर्यायं कर्मण्यण् / मनःपर्याय च तत् ज्ञान मनः पर्यायज्ञानं यदि वा मनसः पर्याया मनःपर्यायाः / पर्याया धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तर तेषु तेषां वा संबंन्धिज्ञानं मनःपर्यायज्ञानमिदं चार्द्धतृतीयद्वीपसमुद्रान्तवर्तिसंज्ञिमनोगतद्रव्यालम्बनम्। तथा केवलमेकं मत्यादिज्ञाननिरपेक्षत्वात् 'नट्ठम्मि उ छाउमथिए नाणे" इति वचनात् शुद्धं वा के वलं तदावरणं मलकलङ्कविगमात्। सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः संपूर्णोत्पत्तेः / असाधारणं वा केवलमनन्यतः सदृशत्यात् / अनन्तं वा केवलं ज्ञेयानन्तत्वात्। केवलंचतत् ज्ञानं तथा मतिश्रुतावधय एव यदा मिथ्यात्वकलुषिता भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशाल्लभन्ते / उक्तंच / आद्यं त्रयमज्ञानमपि भवति मिथ्याम्वसंयुक्तमिति। विभङ्ग इति विपरीतो भङ्गः परिच्छित्ति-प्रकारो यस्य तद्विभङ्ग तच तत् ज्ञानं च विभङ्ग ज्ञानं सर्वत्रापि च साकारोपयोगशब्देन विशेषणसमासः॥ // अनाकारोपयोगभेदानभिधित्सुराह / / अणागारोवओगेणं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते, तंजहा चक्खुदंसण अणागारोव ओगे, अचक्खुदंसण-- अणागारोवओगे, ओहिदंसणअणागारोवओगे केवलदसणअणागारोवओगे। तत्र चक्षुषा चक्षुरिन्द्रियेण दर्शनं रूपसामान्यग्रहणं च चक्षुर्दर्शनं तच तत् अनाकारोपयोगः। अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषये सामान्यग्रहणमचक्षुर्दर्शनम्। ततोऽनाकारोपयोगशब्देन विशेषणसमासः / एवमुत्तरत्रापि अवधिरेवरूपदर्शनं सामान्यग्रहणमवधिदर्शनं केवलमिव सकलजगगाविसमस्तवस्तुसामान्यपरिच्छेदरूपं दर्शन केवलदर्शनम्। अथ मनः पर्यायदर्शनमपि कस्मान भवति येन पञ्चमोऽनाकारोपयोगोन भवतीति चेदुच्यते मनःपर्यायविषयं हि ज्ञानं मनसा पर्यायानेव विविक्तान् गृह्णन् क्वचिदुपजायते पर्यायाश्च विशेषा विशेषालम्बन च ज्ञानं ज्ञानमेवन दर्शनमिति मनःपर्यायदर्शनाभावस्तदभावाच पञ्चमानाकारोपयोगासम्भव इति (एवं जीवाणमित्यादि) एवं निर्विशेषेणोपयोगवत् जीवानामनुपयोगो द्विविधः प्रज्ञप्तो भणितव्यस्तत्रापि साकारोपयोगोऽष्टविधोऽनाकारोपयोगश्चतुर्विधः / एतदुक्तं भवति / यथा प्राक् जीवपदरहितमुपयोगसूत्रं सामान्यत उक्तं तथा जीवपदसहितमपि भणितव्यं तद्यथा "जीवाणं भंते! कतिविहे उवओगे पण्णत्ते ? गोयमा ! दुविहे उवओगे पत्तत्ते तंजहा सागारावओगेय अणागारोवओगेय जीवाण भंते ! कतिविहे उवओगे पण्णत्ते ? गोयमा ! दविहे उवओगे अट्टविहे पण्णते तंजहा इत्यादि" तदेवं सामन्यतो जीवानामुपयोगश्चिन्तितः। प्रज्ञा 28 पद / भ० / प्रव० / / उपयोगः साकारानाकारद्वयात्मकः प्रमाणमितरथाअप्रमाणम् / / उपयोगः परस्परसव्यपेक्षसामान्यविशेषग्रहणप्रवृत्तदर्शज्ञानस्वरूपद्वयात्मकः प्रमाण दर्शनाज्ञानैकान्तरूपस्वप्रमाणमिति दर्शयितुं प्रकरणमारभमाणो द्रव्यार्थिकपर्यायार्थिभिर्मत प्रत्येकदर्शनज्ञानस्वरूपप्रतिपादकगाथामाहाचार्यः / जं सामण्णग्गहणं, दंसणमेयं विसेसियं णाणं। दोण्हं विणयाण एसो, पाडेक्कं अत्थपञ्जाओ।। द्रव्यास्तिकस्य सामान्यमेव वस्तु तदेव गृह्यते अनेनेति ग्रहण