SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ उद्देसिय 948- अमिधानराजेन्द्रः - भाग 2 उद्देसिय द्यन्ते प्राणिनोऽस्यामिति संखडिरिति व्युत्पत्तेस्तस्यां संखड्यां यदुद्वरितं कूरव्यञ्जनादिकं शाल्योदनदध्यादिकं प्रचुरं तद्दृष्ट्वा गृही भणति स्वकुटुम्बतृप्तिकारकमेतत् यथा इदं देहि पुण्यार्थ भिक्षाचरेभ्यः / तत्र यदा तथैव ददाति तदा तदुद्दिष्ट यदा तु तद्देयं करम्बादिकं करोति तदा तत्कृतं यदा तु मादेकादिचूर्णिप्रायोऽपि गुडपाकदानादिना मोदकादि करोति तदा तत्कर्म / एवं विभागौद्देशिकस्य संभवस्तथा चाह। भाष्यकृत "तसियम्मेवं संभवइ पुव्वमुद्दिट्ट संभवति"। संप्रति तदेव विभागौद्देशिकं विना तत्रोदरिते प्रच्छुरे करम्बदावेवं पूर्वोक्तेन प्रकारेण विभागौद्देशिकं पूर्वमुद्दिष्टं संभवति / संप्रति तदेव विभागौद्देशिकं विभागतो भेदेन शिष्यगणहितार्थ ग्रन्थकारो भणति। उद्देसियं समुद्दे-सियं च आएसियं समाएसं। एवं कडे य कम्मे, एक्कक्के चउट्विहो भेओ।। विभागौद्देशिकं चतुर्दा / तद्यथा औद्देशिकं समुद्देशिकमादेशं समादेशं च / एवं कृते च कर्मणि एकैकस्मिन् चतुष्कश्चतुः संख्यो भेदो दृष्टः सर्वसंख्यया द्वादशधा विभागौद्देशिकम् / संप्रत्यौद्देशिकादिकं व्याचिख्यासुराहजावंतिय मुद्देस, पासंडीणं भवे समुद्देसं। समणाणं आएसं, निग्गंथाणं समाएसं // 250 / / इह यदुद्दिष्ट कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिप्य–न्ति पाषण्डिनो गृहस्था वा तेभ्यः सर्वेभ्योऽपि दातव्यमिति संकल्पितं भवति तदा तदौद्देशिकमुच्यते / / पाषण्डिनां देयत्वेन कल्पितं समुद्देशं श्रमणानामादेशनिर्ग्रन्थानां समादेशम्। संप्रत्यमीषामेव द्वादशानां भेदानामवान्तरभेदानाह। छिन्नमछिन्नं दुविहं, दवे खेत्ते य कालभावे य॥ निप्पाइयनिप्पन्न, नायव्वं जं जहिं कमइ।। उद्दिष्टमौद्देशादिकं प्रत्येकं द्विधा तद्यथा छिन्नमच्छिन्नं च / छिन्नं नियमितमच्छिन्नमनियमितम् पुनरपि छिन्नमच्छिन्नंचचतु तद्यथा द्रव्ये क्षेत्रे काले भावेच। एवं यथा उद्दिष्टमौदेशिकं प्रत्येकमष्टधातथा निष्पादितं निष्पन्नमिति निष्पादितेन गृहिणा स्वार्थ कृतेन निष्पन्नं यत्करम्बादि मोदकादि वा तन्निष्पादितं निष्पन्नमित्युच्यते।ततो यन्निष्पादितं निष्पन्नं यत्र कृते कर्मणि वा क्रामति घटते यथा यदि करम्बादि तर्हि कृते, अथ मोदकादि तर्हि कर्मणि / तत्प्रत्येकमौद्देशिकादिभेदभिन्नं छिन्नमच्छिन्नं वेत्यादिनर प्रकारेणाष्टधा ज्ञातव्यम्। संप्रत्यमुमेव गाथार्थं व्याचिख्यासुः प्रथमतो द्रव्याद्यच्छिन्नं व्याख्याति॥ भत्तुवरितं खलु संखडिए, तद्विवसमन्नदिवसे वा। अंतो बहिं च सव्वं, सव्वदिणं देइ अच्छिन्नं / / यत्संड्या भक्तमुद्वरितं तदिह प्रायः संखड्या भक्तमुरितं प्राप्यते इति संखडिग्रहणमन्यथात्वन्यत्रापि यथासंभवं द्रष्टव्यम्। (तदिव-समिति) व्यत्ययोऽप्यासामिति प्राकृतलक्षणवशात्सप्तम्यर्थे प्रथमा ततोऽयमर्थः यस्मिन् दिवसे संखडिस्तस्मिन्नेव दिवसे यद्वाऽन्यस्मिन् दिवसे गृहनायको भार्यया दापयति यथा यदन्तर्गृहस्य यच बहिरनेन क्षेत्राच्छिन्नमुक्तं तत्सर्व समस्तमनेन द्रव्याच्छिन्नमुक्तं सर्वदिनं सकलमपि दिनं यावदुपलक्षणमेतत्तेन कर्मरूपं मोदकादि प्रभूतान्यपि दिनानि यावदिति दृष्टव्यम्। अनेन कालाच्छिन्नमुक्तं अच्छिन्नमनवरतं तद्देहि / भावाच्छिन्नं तु स्वयमभ्यूह्यं तचैवं यदि तव रोचते यदि वा न रोचते तथाऽप्यवश्य दातव्यमिति // संप्रति द्रव्यांदिच्छिन्नमाह। देह इमं मा सेसं, अंतो बाहिं गयं व एगयरं। जाव अमुगत्ति वेला, अमुर्ग वेलं व आरब्भ / / इदं शाल्योदनादिकमुद्वरितं देहि मा शेष कोद्रवकूरादि अनेन द्रव्यच्छिन्नमुक्तं तदपि च शाल्योदनादिकमन्तर्व्यवस्थितं वा एकतरं न शेषम् / अनेन क्षेत्रच्छिन्नमुक्तम् / तथा अमुकस्या वेलाया आरभ्य यावदमुका वेला यथा प्रहारादारभ्य यावत्प्रहरद्वयं तावद्देहि / अनेन कालच्छिन्नमुक्तम् / भावच्छिन्नं तु स्वयमभ्यूह्यम् / तच्चैवं यावत्ते रोचते तावद्देहि मा स्वरुचिमतिक्रम्यापि / संप्रत्युद्दिष्ट मधि-कृत्य कल्प्याकल्प्यविधिमाह। दव्वाइच्छिन्नं पि हु, जइ भणइ कोवि मा देह। नो कप्पइ छिन्नं पिहु, अच्छिन्नकडं परिहरंति / / इह यद्रव्यक्षेत्रादिभिः पृथग्निर्धारितं तदतिरिच्य शेषं समस्तमपि कल्पते / तस्य दानार्थ संकल्प्य स्थापितत्वाभावात् / केवलं द्रव्यादिच्छिन्नमपि दृष्ट्वा द्रव्यक्षेत्रादिभिः पृथनिर्धारितमपि हुनिश्चितं यदि गृहस्वामी आरत एव देयस्य वस्तुनो नियतादवधेरगिपि भणति। यथा मा इत ऊर्द्ध कस्मायपि देहीति / यथा प्रहरद्वयं यावत् पूर्व किञ्चिदातुं निरोपितं ततो दानपरिणामाभावादगेव निषेधति / मा इत ऊर्द्ध दद्यादिति तच्छिन्नमपि कल्पते / तस्य संप्रत्यात्मसत्तापि कृतत्वाद्यत्पुनरच्छिन्नकृतमच्छिन्नमनिर्धारितं कृतं वर्तते तत्परिहरन्ति अकल्प्यत्वादित्थमेव भगवदाज्ञाविज़म्भणात् / यदा त्वच्छिन्नमपि पश्चाद्दानपरिणामाभावादगिव आत्मार्थीकृतं भवति तदा तत्कल्पते / / संप्रति संप्रदानविभागमधिकृत्य कल्प्यविधिमाह / / अमुगाणं ति वि दिजउ, अमुकाणं न एत्थ उ विभासा। जत्थ नईणविसिट्ठो, निद्देसो तं परिहरंति॥ अमुकेभ्यो दद्यान्मा अमुकेभ्य इत्येवं संप्रदानविषये संकल्पे कृते विभाषा द्रष्टव्या कदाचित् कल्पते कदाचिन्न / तत्र यदा कल्पते तदादेयं तदाह (जत्थेत्यादि) यत्र देयवस्तुनि यतीनामप्यविशेषेण निर्देशो भवति यथा ये केचन गृहस्था अगृहस्था वा भिक्षाचरा यदि वा ये केचित्पाषण्डिनो यद्वा ये केचनं, श्रमणास्तेभ्यो दातव्यमिति तत्परिहरन्ति / यत्र तु यतीनामेव विशेषेण निर्देशो यथा यतिभ्यो दातव्यमिति तत्परिहरन्त्येव नात्र कश्चित्संदेह इति तत्र पृथग्विशेषेण नोक्तम् / यदि पुनर्गृहस्येभ्य एव दीयतां यदि वा चरकादिभ्य एव पाषण्डिभ्यो न शेषेभ्यस्तदा कल्पते। अपिच // संदिस्सते जो सुणइ, कप्पए तस्स सेसए ठवणा। संकलियसाहणं वा, करेति असुएइमा थेरा।। यन्नाद्याप्यौद्देशिकं जातं वर्तते के वलं तदानीमेवोद्दिश्यमानं वर्तते यथा इदं देहि मा शेषमित्यादिश्यमानमर्थिभ्यो दानाय वचनेन संकल्पमानं यः साधुः शृणोति तस्य तत्कल्पते तदैव दोषाभावात्तदपि च उद्दिष्टौद्देशिकादि द्रष्टव्यं न कृतं कर्म च / 'यत उक्तं मूलटीकायाम् अत्र चायं विधिः "संदिस्संतं जो सुणइ, साहुद्देसुद्देसयं / पडुच न य कडं, कमाइ तं कप्पए'' तदैव दोषाभावादिति यस्तु संदिश्यमानं न शृणोति तस्य न कल्पते कुत इत्याह (ठवणत्ति) स्थापनादोषात्। स च निर्गतः सन्नन्येभ्यः साधुभ्यो निवेदयति / तथा चाह (संकलितयेत्यादि) अश्रुते शेषसाधुभिरनाकर्णित इयं पूर्वपुरुषाची मर्यादा यदुत संकलिया एक संघाट कोऽन्यस्मै कथयति सोऽप्यन्यस्मै इत्येवं रूपया
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy