________________ उद्देसिय 846 - अभिधानराजेन्द्रः - भाग 2 उद्देसिय ते / एकै कस्मिश्च उद्दिष्टादिक भेदे चतुष्क को वक्ष्यमाणश्चतुः संख्यो भेदो भवति। त्रयश्चतुर्भिर्गुणिता द्वादशततो विभागोद्देशिकं द्वादशधा। संप्रत्योघोद्देशिकस्य पूर्वस्थापिततया मुक्तस्य प्रथमतः संभवमाह।। जीवामु कहंवि उमे, निययं भिक्खाविता कइदमोहे। दिहु नत्थि अदिन्नं भु-अह अकयं न य फलेइ॥ इह भिक्षानन्तरं केचिद् गृहस्था एवं चिन्तयन्ति। कथमपि महता कष्टन जीविता अवमदुर्भिक्षे ततो नियतं प्रतिदिवसं भिक्षां दद्यो यतो हुनिश्चितं हन्दीति स्वसंबोधनेनास्त्येतत्यदुत भवान्तरे अदत्तमिह जन्मनि भुज्यते नापीह भवे अकृतं शुभं कर्म परलोके फलति / तस्मात्परलोकाय कतिपयभिक्षाप्रदानेन शुभं कर्मोपार्जनीयमित्यर्थीद्देशिकसंभवः। . संप्रत्योघौद्देशिकस्वरूपं कथयतिसा उ अविसेसियम्मेव, भत्तम्मि तंडुले छुहइ। पासंडीण गिहीण व, जो एहि इयस्स भिक्खट्ठा।। सा तु गृहनाथिका योषित्प्रतिदिवसं यावत्प्रमाणं भक्तं पच्यते तावत्प्रमाण एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य भिक्षार्थं भिक्षादानार्थमविशेषितमेव / स्वार्थमेतावदेतावच भिक्षादानार्थमित्येवं विभागरहितमेवतन्दुलानधिकतरान् प्रक्षिपति एतदप्यौद्देशिकम् / अत्र परस्य पूर्वपक्षमाशङ्क्योत्तरमाह - छउमत्थो उद्देसं, कहं वियाणाइ चोइए य भणइ / उवउत्तो गुरु एवं, गिहत्थसहाइनेहाए॥ छदास्थः केवली कथमोघौद्देशिकं पूर्वोक्तस्वरूपं विजानाति न ह्येवं छद्मस्थेन ज्ञातुं शक्यते यथा स्वार्थमारभ्यमाणे पाके भिक्षा-दानाय कतिपयतन्दुलप्रक्षेप आसीदिति। एवं नोदिते प्रेरणे कृते गुरुर्भणति। एवं वक्ष्यमाणप्रकारेण गृहस्थशब्दादिचेष्टायामुपयुक्तो दत्तावधानो जानानीति / एतदेव भावयति। देना उ ताउ पंच वि, रेहा उ करेइ देइव गणंती। देहइ उमा य इओ, अवणेहय एत्तिया भिक्खा। यदि नाम भिक्षादानसंकल्पतः प्रथमत एवाधिकतन्दुलप्रक्षेपः कृतो भवेत्तर्हि प्राय एवं गृहस्थानांचेष्टाविशेषा भवेयुः यथा दत्तास्ताः पञ्चापि भिक्षाः / इयमत्र भावना। कोऽपि गृहे भिक्षार्थं प्रविष्टाय साधवे तत्स्वामी निजभार्यया भिक्षांदापयतिसाच साधौ शृण्वति एवेत्थं प्रत्युत्तरं ददाति। यथा ताः प्रतिदिवसं संकल्पिताः पञ्चापि भिक्षा अन्यभिक्षाचरेभ्यो दत्ता इति। यद्वा भिक्षां ददन्ती दत्तभिक्षापरिगणनाय भित्त्यादिषु रेखां करोति / अथवा प्रथमेयं भिक्षा द्वितीयेयं भिक्षेत्येवं गणनाय ददाति यदि वा काचित् कस्या अपि सन्मुखमेवं भणति यथा अस्मदद्दिष्टभक्तसत्कपिटकादेर्मध्याद्देहि माइत इति। अथवा प्रथमतः साधौविवक्षितगृहे भिक्षार्थ प्रविष्ट काचित् कस्याः संमुखमेवमाह अपनय पृथक् कुरु विवक्षितात्स्थानादेतावती भिक्षां भिक्षाचरेभ्यो दानायेति / तत एवमुल्लापश्रवणरेखाकर्षणादिदर्शनेनैव छद्मस्थेनाप्यौदेशिकं ज्ञातुं शक्यते ज्ञात्वा च परिहियते। ततो न कश्चिद्दोषः अत्र चायं वृद्धसंप्रदायः। संकल्पि-तासु दत्तासु पृथगुद्धृतासुवा शेषमशनादिकं कल्प्यमवसेयमिति इह उपयुक्तः सन्शुद्धमशुद्धं वा आहारं ज्ञातुं शक्नोति। तानुपयुक्तस्ततो गोचरविषयां समान्यत उपयुक्ततां प्रतिपादयति।। सवाइएसु साहू मुच्छंन कारेज गोयरगओ य। एसणजुत्तो होजा, गोणीवच्छो गवत्तेव्व // इह साधुर्गोचरींगतो भिक्षार्थं प्रविष्टः सन् शब्दादिषु शब्दरूपर-सादिषु मूछ न कुर्यात् किंत्वेषणायुक्त उद्गमादिदोषगवेषणाभियुक्तो भवेत् यथा गोवत्सो (गव्वत्ति) गोभक्त इव। गोवत्सदृष्टान्तमेव गाथाद्वयेन भावयति। ऊसवमंडणवग्गा, न पाणियं वच्छए न वा वारो। वणियागमअवरहे, वच्छगरडणं खरंटणया।। पंचविह विसयसोक्खे,खणी बहू समहियं गिहं तं तु। न गणेइ गोणिवच्चा, मुच्छियगढिओगवत्तम्मि / / गुणालयं नाम नगरं तत्र सागरदत्तो नाम श्रेष्ठी तस्य भार्या श्रीमती नाम श्रेष्ठिना च पूर्वतरं जीर्णमन्दिरं भङ्त्वा प्रधानतरं मन्दिरं कारयामासे। तस्य चत्वारस्तनयास्तद्यथा गुणचन्द्रो गुणसेनो गुणधूडो गुणशेखरश्च / एतेषां च तनयानां क्रमेण चतस्र इमा वध्वस्तया प्रियंङ्गुलतिका प्रियंगुरुचिका प्रियंगुसुन्दरी प्रियंगुसा-रिकाचा कालेनचगच्छता श्रेष्ठिनो भार्यामरणमुपजगाम / ततः श्रेष्ठिना प्रियंगुलतिकैव सर्वगृहसंभारे समारोपिता गृहे च सवत्सा गौर्विद्यतेतत्र गौर्दिवसे बहिर्गत्वा चरतिवत्सस्तु गृह एव बद्धोऽवतिष्ठते / तस्मै चारि पानीयं च चतस्रोऽपि वध्वो यथायोगं प्रयच्छन्ति। अन्यदा चगुणचन्द्रप्रियंगुलतिकापुत्रस्य गुणसागरस्य विवाह दिवस उपतस्थे / ततस्ताः सर्वा अपि वध्वस्तस्मिन् दिने सविशेषमाभरणविभूषिताः स्वपरमण्डनादिकरणव्यापृता अभूवन्। ततो वत्सस्तासां विस्मृतिं गतो न काचिदपि तस्मै पानीयादि ढौकितवती। ततोमध्याह्ने श्रेष्ठी यत्र प्रदेशे क्त्सोवर्तते तत्र कथमपिसमायातः वत्सोऽपि च श्रेष्ठिनप्रायान्तं पश्यन्नारटितुमारब्धवान्ततो जज्ञे श्रेष्ठिना यथाद्यापि वत्सो बुभुक्षितस्तिष्ठतीति। ततः कुपितेन तेन ताः सर्वा अपि पुत्रवध्वो निर्भत्सयामासिरे ततस्त्वरितं प्रियंगुलतिका अन्या च यथायोगं चारि पानीयं च गृहीत्वा वत्साभिमुखं चचाल वत्सश्च ताभिः सुरसुन्दरीभिरिव समलंकृतमपितादृशंगृहं नावलोकते नापिताः सरागदृष्ट्या परिभावयति / किं तु तामेव चारिं पानीयं वा समानीयमानं सम्यक्परिभावयति। सूत्र सुगमं नवरं (पंच विहेत्यादि) पञ्चविधविषयसौख्यस्य खनय इव खनयो या यध्वस्ताभिः समधिकमतिशयेन रमणीयतया अधिकतरं तद्गृहं न गणयति न दृष्ट्वा परिभावयति नापि ता वधूरेवं साधुरपि भिक्षार्थमटन रमणी नावलोकयेत् नापि गीतादिषु चित्तं बध्नीयात्-किंतु भिक्षामात्रानयनादानाधुपयुक्तो भवेत्। तथा च सति जानातिशुद्धमशुद्ध वा भक्तादिकम् तथाचाह। गमणागमणुक्खेवे, भासियसोयाइइंदियाउत्तो। एसणमणेसणे वा, तह जाणइ तम्मणो समणो॥ गमनं साधोभिक्षादानार्थं भिक्षानयनाय दात्र्या वजनम् आगमनं भिक्षा गृहीत्वा साधोरभिमुखं चलनम् / उत्क्षेपो भाजनादीनामूर्द्धमुत्पाटनमुपलक्षणमेतत्तेन निक्षेपपरिग्रहस्ततो गमनादिपदानां समाहरो द्वन्द्वस्तस्मिन् / तथा भाषितेषु जल्पितेषु देहि भिक्षामस्मै साधवे इत्यादिरूपेषु श्रोत्रादिभिरिन्द्रियैरुपयुक्तस्तथा वत्स इव तन्मनाः स्वयोग्यभक्तपानाय परिभावनमनाः सन् श्रमण एषणामनेषणां वा सम्यग्जानाति ततो न कश्चिद्दोषः / उक्तमोघौद्देशिकम्। संप्रति विभागौद्देशिकं विभणिषुः प्रथमतस्तावत्तस्य संभवमाह / / महईए संखडाए, उव्वरिय कूरवंजणाईयं / पउरं दठूण गिही, भणइ इमं देहपुन्नट्ठा / इह संखडि नाम विवाहादिक प्रकरणं संखण्ड्यन्ते व्यापा