________________ उईरिजमाण 707 अभिधानराजेन्द्रः। भाग 2 णामप्यायुषां स्वभूमिकानुसारेणातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति / तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणं जघन्यस्थिती वर्तमानो नैरयिकः स हि शेषनारकापेक्षया अतिशयेन सुखी शेषाणां च तिर्यग्मनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानो नैरयिकः। स हि शेषनारकः स्वस्वयोग्यतानुसारेण परमसुखिनो यथासंख्यंतिर्यड्मनुष्यदेवा जघन्याप्रदेशोदीरणास्वामिनो वेदितव्याः / इति उदयोदीरणयोः स्वामित्वेन भेदो नास्ति। उई ( दी) रिजमाण त्रि० ( उदीर्यमाण ) उद्-ईर-य-शानच् / उदीरणानामनुदये प्राप्तं चिरेणागामिना कालेन यद्वेदितव्यं कर्म दलिकं तस्य विशिष्टाऽध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चाऽसंख्येयसमयवर्तिनी तया च पुनरुदीरणया उदीरणाप्रथमसमय एव / भ० 1 श० उ० / उदयमुपनीयमाने, प्रज्ञा० 23 पद / " उदीरिजमाणो उदीरए" भ०१श०१ उ०। उई (दी) रिय त्रि०(उदीरित) उत्प्राबल्येनेरितो जनितः / कृते, "ससद्दफासाफरुसाउदीरिया" अकिंकृते, आचा०। “महागुरूणिस्स यराउदीरिता" उत्प्राबल्येनेरितः कथितः। प्रतिपादिते, 'धीरे धम्मे उदीरिए' आचा०७ अ०३ चू०। उत्प्राबल्येन प्रेरिते, राइयाणं वेइयाणं चालियाणं घट्टियाणं खांभियाणं उदीरियाणं केरिसएसद्दे भवति। राज०। / जी०। उदयमुपनीते, प्रज्ञा०२३ पद। भ०। उदीरितास्तु स्वभावतोऽनुदितान् पुद्गलान् उदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् | वेदयते इति तत्वम्। भ०१श०१ उ०। उई (दी)रेंत त्रि० (उदीरयत्) वस्त्वन्तरं प्रेरयति, स्था०७ ठा०। उउपुं०(ऋतु)ऋतु किच! “उत्वादौ 8/1 / 3 / " ऋतु इत्यादिषु शब्देष्वादेत उद्भवति प्रा०।ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः इति मनूक्ते स्त्रीणां शोणितदर्शनयोग्यगर्भ-धारणसमर्थे काले,। वाच० / नि० चू० / लोकरूढ्या षष्ट्यहोरात्रप्रमाणद्विमासात्मके कालविशेषे, व्य०१ उ०जी० स्था०।भाजी०। “दो मासा उऊ'। भ०६श०७ उ०। अनु० स्था०।ज्ञा०। औ०। जं०।तेचषट् “तत्थ खलु इमे छ उऊपण्णत्ता तंजहा पाउसे 1 वरिसारते 2 सरहे 3 हेमन्ते 4 वसन्ते 5 गिम्हे 6 / ता सव्वे विणं पडिचंदे उऊदुवे दुवे मासानि च उप्पण्णेणं आदाएणं गणिज्जमाणसातिरेगाई एगूणसट्टि एगूणसट्ठि रातिदिनाई रातिदियग्गेणं आहितेत्ति" | तत्राऽस्मिन् मनुष्य-लोके प्रतिसूर्यायनं प्रतिचन्द्रायनं चखल्विमेषट्ऋतवः प्रज्ञप्तास्तद्यथा-प्रावृट्, वर्षारात्रः शरदो, हेमन्तो, वसन्तो, ग्रीष्मः / इह लोके अन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा प्रावृट् शरद्, हेमन्तः शिशिरो, वसन्तो ग्रीष्मश्चेति / जिनमते तु यथोक्ताभिधाना एव ऋतवः / तथाचोक्तम् " पाउस वासारत्तो, सरओ हेमंत वसंत गिम्हो या एए खलु छ प्पि उऊ, / जिणवरदिट्ठा मए सिट्ठा" चं० प्र०१२ पाहु सू०प्र०। स्था०।जं०। ऋतुपरिमाणविचारः। एतो उउपरिमाणं,वोच्छामि अहाणूपुटवीए। एतो मण्डलेषु नक्षत्रसूर्यशशिनां प्रतिमुहूर्त गतिपरिमाणप्रतिपादितानामनन्तरमृतुपरिमाणं सूर्यर्तुपरिमाणं चन्द्रर्तुपरिमाणं च यथानुपूर्व्या क्रमेण वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयितुकामः प्रथमतः सूर्यर्तुपरिमाणं प्रतिपादयति। वे याइचा मासा,एकसद्विते भवंतहोरत्ता। एयं उउपरिमाणं,अवगयमाणो जिणा विति॥ यौ द्वावादित्यौ मासौ सूर्यमासौ यावदहोरात्रिपरिगणनया एकषष्टिरहोरात्रा भवन्ति / तथाहि सूर्यमासस्त्रिंशदहोरात्र एकस्य चाहोरात्रस्य चार्द्ध ततो द्वौ सूर्यमासावेकषष्टिरहोरात्रा भवन्ति / एतत् एतावत्क्रमतः सूर्यर्ताः परिमाणमपगतमानाः।मानग्रहणमुपलक्षणमपगतसकलक्रोधमानादिवर्गाः जिनास्तीर्थकृतो भवति। सांप्रतभीप्सितसूर्यनियने करणमभिधित्सुराह। सूरउउस्साणयणे, पव्वपंचरसगुणं नियमा। तिहि संक्खित्तं संतं, वावट्ठिभागपरिहीणं / / दुगुणे गट्ठीए जुयं, वावीससएण भाइए नियमा। जं लंद्धं तस्स पुणो, छहिहिय सेस उऊहोइ।। सेसाणं अंसाणं, वेहि उभागाहि तेसि जं लंद्ध / ते दिवसा नायव्वा, हो ति सचत्तस्स अयणस्स। सूर्यस्य सूर्यसंबन्धेन ऋतोरानयने पर्वपर्वसंस्थानं नियमात्पञ्चदशगुणं कर्तव्यम्। पर्वणां पञ्चदशतिथ्यात्मकत्वात्। इयमत्र भावना। इह ऋतव आषाढादिप्रभवाः युगं च प्रवर्तते श्रावणबहुलपक्षे प्रतिपद आरभ्यते।ता युगादितः प्रवृत्तानि यानि पर्वाणि तत्संख्या पञ्चदशगुणा क्रियते कृत्वा च पर्वणामुपरि या विवक्षितदिनमभिव्याप्य तिथयस्तास्त्वत्रसंक्षिप्यन्ते इत्यर्थः। ततो “वावट्ठीभागपरिहीणंति" प्रत्यहोरात्रमेकैकेनद्वाषष्टिभागेन परिहीयमाने ये निष्पन्ना अवमरात्रास्तेऽप्युपचारात् द्वाषष्टिभागास्ते परिहीनपर्वसंख्यानं कर्त्तव्यं ततो (दुगुणत्ति) द्वाभ्यां गुण्यते गुणयित्वा च एकषष्ट्यायुतं क्रियते / ततो द्वाविंशेन शतेन भाजितं यल्लब्धं तस्य षड्भिर्भागे हृते यच्छेषं स ऋतुरनन्तरातीतो भवति / येऽपि अंशा शेषा उद्भरिताः तेषां द्वाभ्यां भागे हृते यल्लब्धं ते दिवसाः प्रवर्तमानस्य ऋतोर्ज्ञातव्याः। एष करणगाथाक्षरार्थः / संप्रति करणभावना क्रियते। तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टः कः सूर्यर्तुरनन्तरमतीतः को वा संप्रति वर्तते / तत्र युगादितः सप्तपर्वाण्यतिक्रान्तानीति संप्रध्रियन्ते। तानि पञ्चदशभिर्गुण्यन्ते / जातं पञ्चोत्तरशतम् / एतावति विकाले द्वाववमरात्रावभूतामिति द्वौ ततः पात्येते स्थितं पश्चात्युत्तरं शतं (103) ततो द्वाभ्यां गुण्यतेजाते। षडुत्तरे ( 206) तत्रैकषष्टिः प्रक्षिप्यते द्वेशते सप्तषष्ट्यधिके ( 267) तयोविंशतेन भागो ह्रियते लब्धौ द्वौ तौ षड् भिर्भागं न सहेते इति न तयोः षड्भिर्भागहारः। शेषास्त्र्यंशा उदरन्ति त्रयोविंशतिः। तथा समर्द्धिजाता एकादश अर्द्ध च सूर्यर्तुश्वाषाढादिस्तत आगतं द्वावृतू अतिक्रान्तौ तृतीयश्च ऋतुः संप्रति प्रवर्तते / तस्य च प्रवर्तमानस्यैकादश दिवसा अतिक्रान्ता द्वादशो वर्तते इति / तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं के ऋतवः पूर्वमतिक्रान्ताः को वा संप्रति वर्तते तत्राक्षयतृतीयायां प्रथमायाः प्राज्ञयुगस्यादितः पण्यितिक्रान्तान्येकोनाविंशतिः ततः एकोनविंशतिः पञ्चदशभिर्गुण्यते जाते द्वे शते पञ्चाशीत्यधिके (285) अक्षयतृतीयायां किल पृष्टमिति पर्वणामुपरितन्यस्तिययः प्रक्षिप्यन्ते जाते द्वे शेते अष्टाशीत्यधिके (288) तावति काले अवमरात्राः पञ्च भवन्ति / पञ्च ततः पात्यन्ते