SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 248 अभिधानराजेन्द्रः भाग 2 आधाकम्म कवेषधारिण: खोला-हेरिका राज्ञा नियुक्ताः / लोकानां च तद्विषया धन्याऽधन्यकथा। ततो धन्यकथाकारिणां विनाश:, इतरेषां त्वविनाशे इति। दान्तिकयोजना त्वेवम्- एकेसाध-वस्तावदाधाकर्म भुञ्जते। तत्राऽपरे- जल्पन्तिधन्या एते सुखं जीवन्ति, अन्ये ब्रुवते-धिग् एतान्ये भगवत्प्रवचनप्रति-षिद्धमाहारमश्नन्ति, तत्र ये प्रशंसिनस्ते, कर्मणा बध्यन्ते, इतरे तु न इहान्त:पुरस्थानीयमाधाकर्म, अन्त: पुरद्रोहकारिस्था- नीया आधाकर्मभोजिन: साधवः, नृपस्थानीयं ज्ञानावरणादिक कर्म, मरणस्थानीय: संसार:, तत्र ये आधाकर्मभोक्तृप्रशंस-कास्ते कर्मराज्ञो निर्णाह्या: शेषसास्त्वनिग्राह्याः। संप्रत्यनुमोदनाप्रकारमेव दर्शयतिसाउं पज्जतं आ-यरेण काले रिउक्खम निद्धं / तग्गुणविकत्थणाए, अमुंजमाणे वि अणुमन्ना / / 128 / आधाकर्मभोजिन उद्दिश्य केचिदेवं ब्रुवते-वयं तावन्न कदा-चनाऽपि मनोज्ञमाहारं लभामहे, एते पुन: सदैव स्वादु लभन्ते, तदपि च पर्याप्तपूरिपूर्ण तत्राप्यादरेण-बहुमान पुरस्सरं तत्रापि काले-प्रस्तभोजनवेलायां तदपि ऋतुक्षम-शिशिरादिऋतूपयोगि तथा स्निग्धं-घृतपूरादि तस्माद्धन्या अमी सुखं जीवन्ति। एवं तद्गुणविकत्थनयातद्गुणप्रशंसया अभुजानेऽपिअनभ्य-वहरत्यपि अनुमन्याअनुमोदना इह अनुमन्याजनितो दोषोऽपि कार्ये कारणोपचारादनुमन्येत्युक्तम्, ततोऽयमर्थ:- अभुजानेऽ- प्यनुमोदनाद्वारेणाधाकर्मभोजिन इव दोषो भवती-ति। अन्ये तु तद्गुणविकत्थनामेवं योजयन्ति-आधाकर्मभोजिनं कोऽपि कन्दर्पणानाभोगेन वा पृच्छति-साधु लब्धं त्वया भोजनं, तथा पर्याप्त तथा आदरेण भक्त्या इत्यादि ? तत्राप्यविरोध: / तदेवमुक्तान्याधाकर्मणो नामानि, तदुक्तौ च यदुत्तं प्राक् मूलद्वार-गाथायाम् "आधाकम्मियनामा" इति तद् व्याख्या-तम्। पिं / (5) एकाथिकानि आधाकर्मणः / संप्रति 'एगट्ठा' इत्यवयवं व्याचिख्यासुरिदमाह आहा अहे य कम्मे, आयाहम्मे य अत्तकम्मे य। जह वंजणनाणत्तं, अत्थेण विपुच्छए एवं // 19 // अत्र पर एवं पृच्छति-यथा आधाकर्म१, अध:कर्म 2, आत्मघ्नकर्म 3, आत्मकर्म 4, इत्येतेषु चुतुषु नामसु व्यञ्जनैर्नानात्वं विद्यते, तथाऽत्रार्थेनाऽपि- अथापेक्षयापि नानात्वमस्ति किं वा न? इति, पृच्छतश्चायमभिप्राय:- इहा-ऽऽधा- कादीनां नाम्नां सर्वेषामपि व्युत्पत्तिनिमित्तं पृथगुत्तं, तद्यथा-आधया कर्म आधाकर्म, अथ साधुविषय-प्रणिधानपुरस्सरपाकादिक्रियास्वारम्मो व्युत्पत्तिनिमित्तम् अधोऽध:कर्म- अध:कर्म, अत्र विशुद्धेभ्यः संयमादिस्थानेभ्योऽधोऽधस्तरामागमनम्, आत्मानं हन्तीत्यात्मध्नमिति अत्र चरणाद्यात्मविनाशनम् परकर्म आत्मकर्म क्रियते इत्यात्म-कर्म, अत्र परकर्मणः आत्मसंबन्धितया करणं ततोऽत्र संशयो यथा व्युत्पत्तिनिमित्तं पृथक् पृथक् भिन्नमेवं प्रवृत्तिनिमत्तमपि पृथक् पृथक् भिन्न यथा घटपटशकटादिशब्दानां, किं वा म यथा घटकलशकुम्भा दीनामिति / अत्र 'आहा अहेयकम्मे' इत्यादावक्षरयोजनाप्रागिव भावनीया। एवं परेण प्रश्ने कृति सति शिष्यमतिप्रागल्भ्याधानाय सामा-न्यतो नामविषयां चतुर्भगिकामाह- एगह एगवंजण, एगट्ठा नाणवंजणा चेव। नाणट्ट एगवंजण, नाणऽट्ठा वंजणा नाणा ||130 / / इह नामानि जगति प्रवर्तमानानि कानिचिदुपलभ्यन्ते / एकार्थानिएकव्यञ्जनानि१, कानिचिदेकार्थानि नानाव्यञ्जनानि२, कानिचिन्नानार्थानि एकव्यञ्जनानि 3, कानिचित्पुन-नानार्थानि नानाव्यञ्जनानि४। अस्या एव चतुर्भङ्गिकाया: क्रमेण लौकिकनिदर्शनानि गाथाद्वयेनोपदर्शयतिदिखीरं खीरं, एगऽटुं एगवंजणं लोए। एगबहुनाम, दुद्ध पओ पीलु खीरं च // 131 / / गोमडिसिअयाखीरं, नाणऽटुं एगवंजणं नेयं / घडपडकडसगडरहा, होई पिहत्थं पिहनामं // 132 / / इह सर्वत्र पिजातावेकवचनं, ततोऽयमर्थ: एकार्थानि एक-व्यञ्जनानि नामानि लो प्रवर्त्तमानानि दृष्टानि यथा क्षीरं क्षीरमिति, इयमत्र भावनाएकत्र क्वचित् गृहे गोदुग्धादिविषये क्षीरमिति नाम प्रवृत्तमुपलब्धं, तथाऽन्यत्रापि गेदुग्धादावेव विषये क्षीरमिति नाम प्रवर्तमानमुपलभ्यते एवं ततोऽप्यन्यः गृहान्तरे ततोऽमूनि सर्वाण्यपि क्षीरं क्षीरमित्येवंरूपाणि नामा-न्येका एकव्यञ्जनानि, तथा एकार्थानि बहुव्यञ्जनरूपाणि नामानि यथा दुग्धं पयः पीलु क्षीरमिति अमूनि हि नामानि सर्वाण्यपि विवक्षितगोदुग्धादिलक्षणैकार्थाभिधायितया नानापुरुषैरेककालं क्रमेणैकपुरुषेण वा प्रयुज्यमानान्येकार्थानि नानाव्यञ्जनानि च ततो द्वितीये भङ्गे निपतन्ति / नाना-र्थान्ये कव्यञ्जनानि, यथागोमहिष्यजासंबन्धिषु भीरं क्षीर-मिति नामानि प्रवर्त्तमानानि, एतानि हि नामानि सर्वाण्यपि समानव्यजानानिभिन्नभिन्नगोदुग्धमहिषीदुग्धादिरूपार्थवाचक-तया भिन्नार्थानि च तत उच्यन्तेनानार्थान्येकव्यजनानि नानार्थानि नानाव्यञ्जनानि यथा घटपटकटशकटरथादीनि नामानि। तदेवमुक्तानि चतुर्थभङ्गिकया निदर्शनानि। सांप्रतमिमामेव चतुर्भगिकामाधाकर्मणि यथासंभवं गाथाद्वयेन योजयतिआहाकम्माईणं, होई दुरुत्ताइ पढमभंगो उ। आहाऽहेकम्मति य, बिइओ सर्किकद इव भंगो / / 133 / / आहाकमंतरिया, असणाई उचउरो तइयभंगो। आहाकम्म पडुचा, नियमा सुन्नो चरिमभंगो / / 134 / / आधाकर्मादीनांनाम्नायुगपद्बहुभिः पुरुषैरेकेनवा काल-भेदेन एकस्मिन्नेव अशनादिरूपे वस्तुनि यद् द्विरुक्तादि-द्विरुधारणादि, आदिशब्दात्रिरुधारणादिपरिग्रहः, स भवति प्रथमो भङ्गः किमुक्तं भवति ? एकत्र वसतावशनविषये केनाप्याधाकर्मेति नाम प्रयुक्तं, तथाऽन्यत्रापि वसत्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy