SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आता 226 अभिधानराजेन्द्रः भाग 2 आता परातस्तस्याऽभेदे हि क्षणपरंपरैव सा, तथा च सन्तान इति न किंचिदतिरिक्तमुक्तम् / भेदे तु पारमार्थिकोऽपारमार्थिको वाऽसौ स्यात्। अपारमार्थिकत्वे त्वस्य तदेव दूषणम्। पारमार्थिकत्वे स्थिरो वा स्यात्, क्षणिको वा / क्षणिकत्वे सन्तानि-निर्विशेष एवायमिति किमनेनस्तेनभीतस्यस्तेनान्तरशरण स्वीकरणकारिणा? "स्थिरमथ सन्तानमभ्युपेया:, प्रथयन्तं परमार्थसत्स्वरूपम्। अमृतं पिब पूतयाऽनयोक्त्या , स्थिरवपुष: परलोकिन: प्रसिद्धेः / / 1 / / " उपादानोपादेयभावप्रबन्धेन प्रवर्तमान: कार्यकारण- भाव एव सन्तान इति चेत् / तदवद्यम्, अविष्वम्भावादिसंबन्ध-विशेषाभावे कारणत्वमात्राऽविशेषादुपादानेतरविभागनुपपत्तेः / सन्तानजनकं यत्तदुपादानमिति चेत्न, इतरेतराश्रयत्वप्रसङ्गात् सन्तानजनकत्वेनोपादानकारणत्वम्, उपादानकारणजन्यत्वेनच सन्तानत्वमिति। लोके तु समानजातीयानां कार्यकारणभावे सन्तानव्यवहार: तद्यथाब्राह्मणसन्तान इति, तत्प्रसिद्ध्या चास्माभिरपि शब्दप्रदीपादिषु सन्तानव्यवहार: क्रियते / तवापि यद्येवमभिप्रेत: सन्तानस्तदा कथं न शिष्याचार्यबुद्धीनामेक- सन्तानत्वम् ? नह्यासां समानजातीयत्वं कार्यकारणभावो वा नाऽस्ति, तत: शिष्यस्य चिरव्यवहिता अपि बुद्धयः पारंपर्येण कारणमिति तदनुभूतेऽप्यर्थे यथा स्मृतिर्भवति तथोपाध्यायबुद्धयोऽप्याजन्मप्रभृत्युत्पन्ना: पारंपर्येण कारणमिति तदनुभूते-ऽप्यर्थे स्मृतिर्भवेत् / किंच-धूमशब्दादीनामुपादानकारणं विनैवो-त्पत्तिस्तव स्यात्, न हि तेषामप्यनादिप्रबन्धेन समानजातीयं कारणमस्तीति शक्यते वक्तुम, तथा च ज्ञानस्यापि गर्भादाव-नुत्पादनैवोत्पत्ति: स्यादिति परलोकाभावः / अथ धूमशब्दादीनां विजातीयमप्युपादानमिष्यते, एवं तर्हि ज्ञानास्याप्युपादानं गर्भशरीरमेवास्तु न जन्मान्तरज्ञानं कल्पीनयम, यथा दर्शनं [ पादानमिष्टम, अन्यथा धूमशब्दा- दीनामप्यनादिः सन्तानः कल्पनीय: स्यादिति सन्तानघटनात्, न परेषां स्मृत्यादिव्यवस्था नापि परलोकः कोऽपि प्रसिद्धिपद्धतिं दधाति परलोकिन: कस्यचिदसंभवात् / सत्यपि वा परलोके कथमकृता-भ्यागमकृतप्रणाशौ पराक्रियेते ? येन हि ज्ञानेन चैत्यवन्दनादि कर्मकृतम्, तस्य विनाशान्न तत्फलोपभोगो यस्य च फलोपभोगस्तेन न तत्कर्म कृतमिति / अथ नाऽयं दोषः। कार्यकारणभावस्य नियामकत्वात्, अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाह: / स च सन्तान इत्युच्यते तद्वशात्सर्वो व्यवहारः संगच्छते / नित्यस्त्वात्माभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति / तदयमनित्य एव चर्मा- दिवदुक्तः स्यात्, निर्विकारकत्वे तु सताऽसता वा सुख-दुःखादिना कर्मफलेन कस्तस्य विशेषे? इति कर्मवैफल्यमेव / तदुक्तम् - "वर्षाऽऽतपाभ्यां किं व्योमेश्चर्मण्यस्ति तयोः फलम् / चर्मोपमश्चेत्सोऽनित्य:, खतुल्यश्चेदसत्समः // 1 // " इति तस्मात् त्यज्यतामेष मूर्धाभिषिक्त: प्रथमो मोह आत्मग्रहो नाम, तन्निवृतावात्मीयग्रहोऽपि विरंस्यति / अहमेव न, किं मम ? इति / तदिदमहङ्कारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारम्, अन्यथा कौतुस्कुती निर्वाणवार्तापि ? तदपि वार्त्तम, हेतुफलभावप्रवाहस्वभावस्य सन्तानस्यान्तरमेव नियामकत्वेन निरस्तत्वात् / यत्पुनः सुखादिविकाराभ्युपगमे चर्मादिवत् आत्मनोऽनित्यत्वं प्रसञ्जितं तदिष्टमेव, कथंचिद-नित्यत्वेनात्मनः स्यावादिभि: स्वीकारात् / नित्यत्वस्य कथंचिदेवाभ्युपगमात् / यत्तु नित्यत्वे अस्यात्मीयग्रहसद्भावेन मुक्तयनवाप्तिदूषणमभाणि तदप्यनवदातं विदितपर्यन्त-विरससंसारस्वरूपाणां परिगतपारमार्थिवैकान्तिकात्यन्ति-कानन्दसन्दोहस्वभावाऽपवर्गोपनिषदां च महात्मनां शरीरेऽपि किंपाकपाकोपलिप्तपायस इव निर्ममत्त्वदर्शनात्। नैरात्म्यदर्शने पुनरात्मैव-तावन्नास्ति क: प्रेत्य सुखीभवनाथ यतिष्यते ? ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते ? न हिदुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः; एकक्षणस्य तु दु:खं स्वरसनाशित्वात्तेनैव सार्द्ध दध्वंसे। सन्तानस्तु न वास्तवः कश्चिदिति प्ररूपितमेव, वास्तवत्वे तस्य निष्प्रत्यूहात्मसिद्धि-रिति। अथ-आत्मनः परपरिकल्पितस्वरूपप्रतिषेधाय स्वाभिमतधर्मान्वर्णयन्ति चैतन्यस्वरूप: परिणामी कर्ता साक्षादोक्ता स्वदेहपरि-माण: प्रतिक्षेत्रं भिन्नः पौदलिकाऽदृष्टवांबाऽयमिति॥१६॥ चैतन्यं साकारनिराकारोपयोगाख्यं स्वरूपं यस्यासौ चैत- न्यस्वरूप: परिणमनं प्रतिसमयपरापरपर्यायेषु गमनं परिणामस नित्यमस्यास्तीति परिणामी, करोत्यदृष्टादिकमिति कर्ता, साक्षादनुपचरिवृत्त्या भुङ्क्ते सुखादिकमिति साक्षाद्भोक्ता, स्वदेह- परिमाण: स्वोपात्तवपुर्व्यापकः, प्रतिक्षेत्र प्रतिशरीरं भिन्न: पृथक्, पौद्गलिकादृष्टवान् पुद्गलघटितकर्मपरतन्त्रः, अयमित्यनन्तरं प्रमातृत्वेन निरूपित आत्मेति / अत्र चैतन्यस्वरूपत्वपरि- णामित्वविशेषणाभ्यां जडस्वरूप: कूटस्थनित्यो नैयायिका- दिसम्मतः प्रमाता व्यवच्छिद्यते / यतो येषामात्मानुपयोगस्वभावस्तावत्, तेषां नासौपदार्थपरिच्छेदं विदध्याद्, अचेतनत्वाद्; आकाशवत्। अथनोपयोगस्वभावत्वं चेतनत्वम्, किंतु चैतन्यसमवायः स चात्मनोऽस्तीत्य-सिद्धमचेतनत्वमिति चेत् / तदनुचितम्, इत्थमाकाशादेरपि चेतनत्वापत्तेः, चैतन्यसमवायो हि विहायःप्रमुखेऽपि समानः; समवायस्य स्वयमविशिष्टस्यैकस्य प्रतिनियमहेत्वभावादात्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थिते: / ननु यथेह कुण्डे दधीतिप्रत्ययान्न तत्कुण्डादन्यत्र तद्दधिसंयोग: शक्यसंपादनः, तथेह मयिज्ञानमितिहेदंप्रत्ययात् नात्मनोऽन्यत्र गगनादिषु ज्ञानसमवाय इति चेत् / तदयौक्तिकम्। यत: खाऽऽदयोपि ज्ञानमस्मास्विति प्रतियन्तु, स्वयमचेतनत्वाद्, आत्मवत्; आत्मानो वा मैवं प्रतिगुः, तत एव, खादिवद्; इति जडात्मवादिमते सन्नपि ज्ञानमिहेति प्रत्ययः प्रत्यात्मवेद्यो न ज्ञानस्यात्मनि समवायं नियमयति, विशेषाभावात् / नन्वेवमिह पृथिव्यादिषु रूपादय इति प्रत्ययोऽपि न रूपादीनां पृथिव्यादिषु समवायं साधयेत्, यथा खादिषुः तत्र वा सतं साधयेत्, पृथिव्यादिष्विव, इतिन वचित्प्रत्यय-विशेषात् कस्यचित् व्यवस्थेति चेत्। सत्यम् अयमपरो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy