________________ उसुयार 1188 - अभिधानराजेन्द्रः - भाग 2 उसुयार नाविक इतराग्न्यपेक्षया यस्तेन पूर्वत्र प्राकृतत्वादाधिकशब्दस्य परनिपातस्तथा समिति समन्तात्तप्त इव तप्तोऽनिर्वृत्तत्वेन भावोऽन्तः करणमस्येति सन्तप्तभावस्तमत एव च परितप्यमानं समन्तादह्यमानमर्थाच्छरीरे तद्दाहस्यापि शोकावेशत उत्पत्तेर्लोलुप्यमानं तद्वियोगशङ्कावशोत्पन्नदुःखपरशुभिरतिशयेन हृदि छिद्यमानम्। वृद्धास्तु व्याचक्षते (लोलुप्पमाणंति) लोलुप्यमानं " भरणपोसणकुलसंताणसु य तुटभ भविस्सहत्ति “बहुधा अनेकप्रकारं बहु च प्रभूतं यथा भवत्येवं लोलुप्यमानं वेति संबन्धः / पुरोहितं पुरो वसन्तमिति प्रक्रान्तं (कमसोत्ति) क्रमेण परिपाट्या तु नयन्तः स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च भोगैरुपच्छन्दयन्तं सुतौ पुत्रौ धनेन द्रव्येण यथाक्रम क्रमानतिक्रमेण कामगुणैरभिलषणीयशब्दादिविषयैः पाठान्तरतः कामगुणेषु वा चः समुच्चये एवेति पूरणे कुमारको तावनन्तरप्रक्रान्तौ प्रसमीक्ष्य प्रकर्षण ज्ञानाच्छादितमतिमालोच्य वाक्यं वक्ष्यमाणमुक्तवन्ताविति गम्यते / किं तदित्याह / वेदा ऋग्वेदादयोऽधीताः पठिता न भवन्ति जायन्ते त्राणं शरणं तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धेः / उक्तं हि तैरपि " अकारणमधीयानो, ब्राह्मणस्तुयुधिष्ठिर! दुष्कलेनाप्यधीयन्ते, शीलं तु मम रोचते " तथा " शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् / वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् " तथा (भुजुत्ति) अन्तर्भावितण्यर्थत्वाभाजिता द्विजा ब्राह्मणा नयन्ति प्रापयन्ति तमो रूपत्वात्तमो नरकस्तमसा ज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन्न-तिरौद्ररौरवादिनरके णमिति वाक्यालङ्कारे ते हि भोजिता कुमार्ग-प्ररूपणपशुवधादावेव कर्मोपचयनिबन्धने असद्व्यापारे प्रवर्तन्त इति तत्प्रवर्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेवानेन च तेषां निस्तारकत्वं दुरापास्तमित्यर्थादुक्तम्। तथा जाताश्चोत्पन्ना पुत्राः सुता न भवन्ति त्राणं शरणं नरकादिकुगतौ निपततामिति गम्यते / उक्तं हि / तन्मतानुसारिभिरपि " यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्यते / मुषितस्तत्र लोकोऽयं, दानधर्मो, निरर्थकः / बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च। तेषां च प्रथम स्वर्गः, पश्वाल्लोको गमिष्यति “यतश्चैवं ततः को नाम न कश्चित्संभाव्यते यस्ते तव अनुमन्येत शोभनमिदमित्यनुजानीयात्स विवेक इति गम्यते / एतदनन्तरमुक्तं वेदाध्ययनादित्रितयमितिभुक्त्वा भोगानिति चतुर्थोपदेशप्रतिवचनमाह। क्षणमात्र सौख्यं येषु ते तथा बहुकालं नरकादिषु दुःखं शारीरं मानसं च येभ्यस्ते तथा विधाः कदाचित् स्वल्पकालमपि सुखमतिशायिस्यात् दुःखं त्वन्यथेति स्वप्नकालमपि तद्बहुकालभाविनोऽपि दुःखस्योपहन्तृस्यादत आह। प्रकाममतिशयेन दुःखं येभ्यस्त तथा अनिकामसौख्या अपकृष्टसुखाः। ई-दृशेऽप्यायतौ शुभफलाः स्युरत आह। संसारमोक्षो विश्लेषः संसारमोक्षो निर्वृतिरित्यर्थः तस्य विपक्षभूतास्तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकूलाः किमित्येवंविधास्त इत्याह ! खनिरिव खनिराकरोऽनर्थानामिहपरलोक दुःखावाप्तिरूपाणां तुशब्दोऽवधारणे भिन्नक्रमश्च ततः खनिरेवक एवंविधाः कामभोगा उक्तरूपाः / अनर्थखनित्वमेव स्पष्टयितुमाह / परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् न निवृत्तकामोऽनुपरतेच्छः सन् (अहो य रायत्ति) आर्षत्वाचस्य च भिन्नक्रमत्वादहि रात्रौ च अहर्निशमिति यावत् परितप्यमानस्तत्तदवाप्तौ समन्ताचिन्ताग्निना दह्यमानः अन्ये सुहृतः स्वजनादयोऽथवाऽन्नं भोजन तदर्थ प्रमत्तस्तत्कृत्यसक्तवता अन्यप्रमत्तः अन्नप्रमत्तो वा धनं वित्तम् (एसमाणि त्ति) एषयन विविधोपायैर्गवेषयमाणः (पप्पोतित्ति) प्राप्नोति मृत्युं प्राणत्यागं कोऽसौ पुरुषो जरां च क्योहानिलक्षणां किं च इदं च मे मम अस्ति रजतरूप्यादि इदं च नास्ति पद्मारागादि इदं च मे मम कृत्यं कर्तव्यं गृहप्राकारादि इदमकृत्यं प्रारब्धमपि वणिजादिना न कर्तुमुचितं तमिति पुरुषमेवमेव वृथैव लोलुप्यमानमत्यर्थ व्यक्तवाचा वदन्ति हरन्त्यपनयन्ति आयुरिति हरादिरजन्यादयो व्याधिविशेषा वा हरन्ति जन्मान्तरं नयन्ति उपसंहर्तुमाह / इतीत्यस्माद्धेतोः कथं केन प्रकारेण प्रमादो उद्यमः प्रक्रमाद्धार्मे कर्तुमुचित इति शेष इति सूत्रषट्कार्थः। संप्रति तौ धनादिर्लोभयितुं पुरोहितः प्राह / धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पकामा। तवं कए तप्पइ जस्स लोगो,तं सव्वसाहीणमिहेव तुम्भ|१६|| धनं द्रव्यं प्रभूतं प्रचुर सह स्त्रीभिः समं नारीभिः स्वजनाः पितृपितृव्यादयः तथा कामगुणाः शब्दादयः (पगामत्ति) प्रकामा अतिशायिनस्तपः कष्टानुष्ठानं कृते निमित्तं तप्यते अनुतिष्ठति यस्य धनादेर्लोको जनस्तत्सर्वमशेष स्वाधीनमात्मायत्तमिहैवास्मिन्नेव गृहे (तुब्भत्ति) सूत्रत्वाधुवयोर्यद्यपि तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः / तत्र हेतुः। धणेण किं धम्मधुराहिगारे, सयणेहिं वा कामगुणेहि चेव। समणा भविस्साम गुणोघधारी, वहे विहारोअमिगम्म भिक्खू // 17 // धनेन द्रव्येण किं न किञ्चिदपीत्यर्थः / धर्मा एवातिसात्विकैरुयमानतया धूरिव धूधर्मधुरा तदधिकारे तत्प्रस्ताये स्वजनेन वा कामगुणैश्चैव तथा च वेदेऽप्युक्तम्।" न प्रजया न धनेन न त्यागेनैके नामृतत्वमानसु" रित्यादि ततः श्रमणौ तपस्विनौ भविष्यावो गुणौघ सम्यग्दर्शनादिगुणसमूहं धारयतः इत्येवं शीलौ गुणौधधारिणौ बहिर्गामनगरादिभ्यो बहिर्वर्तित्वाद् द्रव्यतो भावतश्च क्वचिदप्यप्रतिबद्धत्वात् विहारो विहरणं ययोस्तो बहिर्विहारावप्रतिबद्धविहाराविति यावत् अभिगम्याश्रित्य भिक्षांशुद्धोद्गतामेवाहारयन्ताविति भाव इति सूत्रार्थः / आत्माऽस्तित्वमूलत्वात्सकलधानुष्ठानस्येति तन्निराकरणायाह पुरोहितः। जहा य अग्गी अरणी यसंतो, खीरे घयंतिल्लमहातिलेसु / एमेव जाया सरीरम्मिसत्ता, समुच्छई णासइणावचिट्टे // 18 // यथेत्यौषम्ये चशब्दोऽवधारणे यथैवाग्निर्वैश्वानरो (अरणीति) अरणितोऽग्निमन्थनकाष्ठादसन्नविद्यमान एव संमूर्च्छति तथा क्षीरे घृतं तैलमथ तिलेषु एवमेव हे जातौ पुत्रौ (सरीरम्मित्ति) शरीरे काये सत्वाः प्राणिनः (संमुच्छइत्ति) समूर्छयन्ति पूर्वमसत एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते तथा चाहुः पृथिव्यप्तेजोवायुरिति तल्यानि एतेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्ति वत् तथा (णासइति) नश्यन्त्यभ्रपटलवत्प्रलय मुपयान्ति (नावचिट्ठित्ति) न पुनरवतिष्ठन्ते शरीरनाशे सति क्षणमप्यवस्थितिभाजो भवन्ति। यद्वा शरीरे सत्यप्यमी सत्वान सन्ति नावतिष्ठन्ते जलबुबुदवज्जीवः अत्र च प्रत्यक्षतोऽनुपलम्भ एव प्रमाणं न ह्यसौ शरीरे शरीरव्यतिरिक्तो वा भवान्तर