________________ उसमदत्त 1182 - अभिधानराजेन्द्रः - भाग 2 उसमदत्त ताए त्ति) अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः (हट्ठ) इह यावत्करणादेवं दृश्यं (हट्ठतुट्ठचित्तमाणंदिया) हृष्टं तुष्टमत्यर्थं तुष्ट हृष्ट वा विस्मितं तुष्टं च तोषवचित्तं यत्र तत्तथा / तद्यथा भवत्येवमानन्दिता ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता ततश्च नन्दिता समृद्धतरतामुपगता (पीइमणा) प्रीतिः प्रीणनमाप्यायनं मनसि यस्याः सा प्रीतिमनाः (परमसोमनसिया) परमसौमनस्यं सुष्ठ समनस्कता संजाता यस्याः सा परमसौमनस्थिता (हरिसवसविसप्पमाणहि-यया) हर्षवशेन विसर्पद्विस्तारयायि हृदयं यस्याः सा तथा। तएणं से उसमदत्ते माहणे को९वियपुरिसे सद्दावेइ सद्दावेइत्ता एवं वयासी खिप्पामेव भो ! देवाणुप्पिया! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिहियसिंगेहिं जंबूणयमयकलावजुत्तपरिविसिद्धेहिं रययमयघंटसुत्तरज्जुप्पवरकंचणणत्थपग्गहोग्गहियएहिं णीलुप्पलकयामेलएहिं पवरगोणजु वाणएहिं णाणामणिमयघंटियाजालपरिगतसुजातजुगजुत्तररञ्जयजुगपसत्थसुविरचियनिम्मियपवरलक्खणोववेयंधम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह मम एयमाणत्तियं पञ्चपिणह। तएणं से कोडुवियपुरिसा उसमदत्तेणं माहणेणं एवं वुत्ता समाणाहह जाव हियया करयल जाव एवं सामी तहत्ता णाए विणएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्तजाव धम्मियं जाण-प्पवरं जुत्तामेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चपिणंति तए णं से उसमदत्ते माहणे ण्हाए जाव अप्पमहग्धाभरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ पडिणिक्खमइत्ता जेणेव वाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छह उवागच्छइत्ता धम्मियं जाणप्पवरं दुरूः / (लहुकरणजुत्तजोइए इत्यादि) लघुकरणं शीघ्रक्रियादक्षत्वं तेन युक्ती यौगिकौ च प्रशस्तयोगवन्तौ प्रशस्तसदृशरूपत्वाद्यौ तौ तथा समाः खुराश्च प्रतीताः (वालिहाणत्ति) वालिधाने च पुच्छौ ययोस्तौ तथा समानि लिखितान्युल्लिखितानि शृङ्गाणि ययोस्तौ तथा ततः कर्मधारयोऽतस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिधानसमलिखितशृङ्गकाभ्यां गोयुवभ्यां युक्तमेवयानप्रवरमुपस्थापयतेति सम्बन्धः / पुनः किं भूताभ्यामित्याह / जाम्बूनदमयौ सुवर्णनिर्वृतौ यौ कलापौ कण्ठाभरणविशेषौ ताभ्यां युक्तौ प्रतिविशिष्टकौ च प्रधानौ जवादिभिर्यो तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्यां रजतमय्यौ रूप्यविकारे घण्टे ययोस्तौ तथा सूत्ररज्जुके कार्यासिकसूत्रदवरकमय्यौ वरकाञ्चने प्रवरसुवर्णमण्डितत्वेन प्रधानसुवर्णे ये नस्तेनासिकारज्जूतयोः प्रग्रहेण रश्मिना अवगृहीतकौ बद्धौ यौ तौ तथा ततः कर्मधारयोऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताः प्रग्रहावगृहीतकाभ्यां नीलोत्पलैमलजविशेषैः कृतो विहितः। (आमेलत्ति) आपीडः शेखरो ययोस्तौ ताभ्यां नीलोत्पलकृतापीडकाभ्याम् (पवरगोणजुवाणएहिति) प्रव-रगोयुवभ्यां नानामणिरत्नानां सत्कं यद्धण्टिकाप्रधानं जालं जालकं तेन परिगतं परिक्षिप्तं यत्तत्तथा सुजातं सुजातदारुमयं यद्युगं | यूपस्तत्सुजातयुग तच्च योक्त्ररज्जुकायुगञ्च योक्त्राभिधानरज्जुकायुगं सुजातयुगयोक्त्ररज्जुकायुगे ते प्रशस्ते अतिशुभे सुविरचिते सुघण्टिते निर्मिते निवेशिते यत्र तत् सुजातयुगयोक्त्ररज्जुकायुगप्रशस्तसुविरचितनिर्मितम् (एवमित्यादि) एवं स्वामिन् (तथेति) आज्ञया इत्येवं ब्रुवाण इत्यर्थः / विनयेनाञ्जलिकरणादिना। तएणं सा देवाणंदा माहणी अंतो अंतेउरंसिण्हाया कयवलिकम्मा कयकोउयमंगल पायच्छित्ता किं ते वरपादपत्तनेउरमणिमेहलाहाररइयउचियकडयखड्डुगएगावलीकंठसुत्तउरत्थगेवेजसोणिसुत्तगणाणामणिरयणभूसणविराइयंगी चीणंसुयवत्थपवरपरिहियादुगुल्लसुकुमालउत्तरिजा सव्वोउय सुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभूसणभूसियंगी कालागुरुधूमधूविया सिरिसमाणवेसा जाव अप्पमहग्घभरणालंकियसरीरा बहुहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं वय्वरियाहिं चउसियाहिं इसिगणियाहिं खारुगणियाहिं जोणियाहिं पल्हवियाहिंल्हासियाहिंलउसियाहिं आरवीहिं दमिलाहिं सिंघलाहिं पुलिंदीहिं पक्कलीहिं वहिलीहिं मुरंडीहिं सवरीहिं पारसीहिणाणादेसीविदेसपरिपिडियाहिं सदेसनेवत्थगहियवे-साहि इंगियचिंतियपत्थियवियाणियाहिं कुसलाहिं विणीयाहिं चेडियाचकवालवरिसधरथेरकंचुइज्जमहत्तरगविंदपरिक्खित्ता जाव अंतेउराओ णिग्गच्छह णिग्गच्छइत्ता जेणेव बाहिरिया उवट्ठाणसालाजेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ उवागच्छइत्ता जाव धम्मियं जाणप्पवरं दुरूढा। (तएणं सा देवाणदामाहणीत्यादि) इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते (अंतो अंतेउरंसिण्हाया) अन्तर्मध्येऽन्तःपुरस्य स्नाता अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितम् / (कयवलिकम्मा) गृहदेवताः प्रतीत्य (कयकोउयमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यं कार्यत्वाद्यया सा तथा तत्र कौतुकानि मषीतिलकादीनि मङ्गलानि सिद्धार्थकदूर्वादीनि (किं ते) किञ्चान्यत् (वरपादपत्तनेउरमणिमेहलाहाररइयउचियकडयखड्डयएगावलीकंठसुत्तउरत्यमेवेजसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी) वराभ्यां पादप्राप्तनूपुराभ्यां मणिमेखलया हारेण च रचितै रतिदैर्वा सुखदोचितैर्युक्तः कटकैश्च (खड्डगत्ति) अङ्गुलीयकैश्च एकावल्या च विचित्रमणिमय्या कण्ठसूत्रेण च उरःस्थेन च रूढिगम्येन ग्रैवेयकेण च प्रतीतेन उरःस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च कटीसूत्रेण नानामणिरत्नानां भूषणैश्च विराजितमङ्ग शरीरं यस्याः सा तथा (चीणंसुयवत्थपवरपरिहिया) चीनांशुकं नाम यद्वस्त्राणां मध्ये प्रवरं तत्परिहितं निवसनीकृतं यया सा तथा (दुगुल्लसुकुमालउत्तरिजा) दुकूलो वृक्षविशेषस्तद्वल्क्लाजातं दुकूलं वस्त्रविशेषस्तत्सुकुमारमुत्तरीयमुपरिकायाच्छादनं यस्याः सा तथा (सव्वोउयसुरभिकुसुमवरियसिरया) सर्वतुक सुरभिकुसुमैर्वृत्ता वेष्टिताः शिरोजा यस्याः सा तथा (वरचंदणवंदिया) वरचन्दनं वन्दितं ललाटे निवेशितं यथा सा तथा (वराभरणभूसियंगीति) व्यक्तम्। (कालागुरुधूमधूविया) इत्यपि व्य