________________ उसभ ११४८-अभिघानराजेन्द्रः - भाग 2 उसभ बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं जाव आसाढाहिं नक्खतेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया॥२०८|| अथास्यामवसर्पिण्यां प्रथमधर्मप्रवर्तकत्वेन / परमोपकारित्वात्किञ्चिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौति! 'तेणमित्यादितः अभीइ पंच मेहुत्थत्ति' पर्यन्तं तत्र (कोसलिएत्ति) कोशलायाभयोध्यायां भवः कौशलिकः // 204 / / तंजहेत्यादितः "परिनिव्वुएत्ति' पर्यन्तं सुगमम् // 205 / / तेणमित्यादितो गब्भवतेति पर्यन्तं सुगमम् // 206 / / उसभेणमित्यादितःसयमेव वागरे इतिपर्यन्तं तत्र मरुदेवा प्रथमं सुखेन (अइंति) प्रविशन्तं वृषभं पश्यति शेषास्तु जिनजनन्यः प्रथमं गज पश्यन्ति वीरमाता तु सिंहमद्राक्षीद / / 207 // तेणमित्यादितो दारगं पयायत्ति पर्यन्तं प्राग्वत्॥२०८|| कल्प०। अस्य संग्रहमाह। संवट्टमेहआयंसगा य भिंगारतालयंटाय। चामरजोईरक्खं, करिति एवं कुमारीओ।।११६|| संवर्तकमेघमुक्तप्रयोजनं किं कुर्वन्ति आदर्शकाच गृहीत्वा तिष्ठन्ति भृङ्गाराँस्तालवृन्ताँश्चेति तथा चामरं जातीरक्षां कुर्वन्ति एतत्सर्व दिक्कुमार्य इति गाथार्थः।।११६|| आव०१०॥ ततः सिंहासनं शाकं, चचा लाऽचलनिश्चलम्। अवधिं प्रयुज्य ज्ञात्वा, जन्मादिमजिनेशितुः / / 3 / / सद्यः स्वर्गाद्विमानेन, पालकेनेत्य देवराट्। जिनेन्द्रं च जिनाम्बां च, त्रिः प्रादक्षिणयस्ततः॥३६|| वन्दित्वा नमंसित्वाचे-त्येव देवेश्वरोऽवदत्। नमोऽस्तु ते रत्नकुक्षि-धारिके विश्वदीपिके // 37 // अहं शक्राऽस्मि देवेन्द्रः, कल्पादाद्या दहागमम्। प्रभोर्युगादिदेवस्य, करिष्ये जननोत्सवम्॥३८|| भेतव्यं देवि! तन्नैवे-त्युक्त्वाऽवस्वापिनी ददौ। कृत्वा जिनप्रतिविम्बं, जिनाम्बासन्निधौ न्यमात् // 36 // भगवन्तं तीर्थकर, गृहीत्वा करसंपुटे। विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम्॥४०॥ एको गृहीततीर्थेशः,पार्वे द्वावात्तचामरौ। एको गृहीतातपत्र,एको वज्रधरः पुनः // 41 // शक्रराजस्ततश्चातु-निकायिकसुरान्वितः। शीघ्रं सुमेरुर्येनैव, वनं येनैव पण्डकम्।।४।। मेरुचूलादक्षिणेता-तिपाण्डकम्बला शिला। सिंहासनं चाभिषेके, तेनैवोपेति देवराट् / / 43 / / तत्र सिंहासने पूर्वा-ऽभिमुखे च निषीदति। द्वात्रिंशदपि देवेनद्राः, स्वामिपादान्तमैयरुः // 44 // प्रच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनम्। ततोऽनुपरिपाटीतो , यावच्छनोऽभिशिषक्तवान् // 45 // ततश्च चमरादीन्द्रा,यावच्चन्द्रार्यमादयः। एवं जन्माऽभिषेकस्यो-त्सवं निवर्त्य देवराट्।।४६।। हर्षप्रकर्षात्सर्वा, प्राग्वत्समिरान्वितः। तीर्थनाथमुपादाय-सद्यः प्रत्यागमत्क्षणात्॥४७|| प्रतिसंहृत्य तीर्थेश-प्रतिबिम्बंसपद्यपि। तत्र मातुः सन्निधाने, भगवन्तमतिष्ठिपत्॥४८|| संत्यावस्वापिनीं च, दिव्य क्षौमयुगं ततः। दिव्वं कुण्डलयुग्मं च, विमोच्योच्छीर्षके प्रभोः॥४६|| श्रीदामगण्डसुल्लोचे, स्वामिनो रत्नदामयुक्। पद्मवल्लम्बमानान्तः-स्वर्णकन्दुकमादधे॥५०॥ वेन स्वामी तीर्थकरो, निर्निमेषविलोचनः। पश्यन् सुखं सुखेनैव, रममाणोऽस्ति निर्वृतः॥५१॥ ततो वैश्रवणः शक्रवचनात्तत्क्षणादपि। द्वात्रिंशद्धिरण्यकोटी, सुवर्णस्य च तावतीः / / 52|| द्वात्रिंशत्तु नन्दासना-न्यथ भद्रासनान्यपि। रूपयौवनलावण्य-सौभाग्यप्रमुखान् गुणान् / / 53|| न्यधात्तीर्थाधिनायस्य, जन्मवेश्मनिवासिषु / अथाभियोगिकैर्देवै-महानादेन देवराट् / / 54 / / वोषयामास शृण्वन्तु, भवन्तःसर्व एव हि। भवनवासिनो देवा, ज्योतिष्का व्यन्तरास्तथा // 55 // देवा वैमानिका देव्यः, कृत्वा सावहितं मनः / यो देवानुप्रियः कश्चि-स्वामिनस्त्रिजगत्पतेः // 56|| त्रिजगत्पतिमातुश्च, करिष्यस्यशुभं मनः। सप्तधार्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति // 57|| चातुर्निकायिका देवा, एवं जन्मोत्सवं प्रभोः। नन्दीश्वरेऽष्टाहिकां च, कृत्वा जन्मुर्यथागतम् ॥५८||आ०का (४)नामद्वारमाह। देसूणगं च वरिसं, सकागमणं च वंसठवणाय। आहारमंगुलीए, ठवि देवा मणुन्नं तु ||1|| सको वंसट्ठवणा, इक्खु अगू तेण हुंति इक्खागा। जंच जहा जम्मि वए, जुग्गं कासीअतं सव्वं / / 2 / / देशोनं च वर्षं भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं तेन वंशस्थापना च कृता भगवत इति साऽयं ऋषभनाथः। अस्य ऋषभस्य गृहवासे असंस्कृत आसीदाहारइति। किं च सर्वे तीर्थकरा एव वालभावे वर्तमानाः न स्तन्योपयोगं कुर्वन्ति किन्त्वाहाराभिलाषे सति स्वामेवाङ्कलिं वदने प्रक्षिपन्ति तस्यां चाहारमङ्ल्यां नानारससमायुक्तं स्थापयन्ति देवा मनोज्ञं मनोऽनुकूलमेवमतिक्रान्तवालभावास्त्वग्निपक्वमेव गृह्णन्ति। ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवानित्यभिहितमानुषङ्गि कमिति गाथार्थः // 110 // प्रकृतमुच्यते / माहेन्द्रेण वंशस्थापना च कृतेत्यभिहितं सा किं यथाकथञ्चित्कृता आहोश्वित् प्रवृत्तिनिमित्तपूर्विकेति / उच्यते प्रवृत्तिनिमित्तपूर्विका न यादृच्छिकी कथम् (आव० १अ०) शक्रः सौधर्मेन्द्रो वंशस्थापने प्रस्तुतेइखंगहीत्वा आगतः। अक अगकुटिलायां गतौ अनेकार्थत्वाद्धातूनाम् अक् धातोरौणादिके उण प्रत्यये अकुशब्दोऽभिलाषार्थः / ततः स्वामी इक्षोः / आकुनाऽभिलायेण करें प्रासारयत्शक्र आर्पयत्तेन कारणेन भवन्तिइक्ष्वाकुवंशभवा ऐक्ष्वाकाः / आ०का जं०॥ ऐक्ष्वाका ऋषभनाथवशजा इति एवं पञ्चवस्तु यथा येन प्रकारेण यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति / पश्चार्द्ध पाठान्तरं वा। तालफलाहयभगिणी, होहियत्ति सारवणा॥ तालफलाहतभगिनी भविष्यति पत्नीति / 'सारवणा' किल भगवतो नन्दायाश्च तुल्यवयःख्यापनार्थमेवं पाठ इति। तदेव तालफलाहतभगिनी भगवतो वालभाव एव मिथुनकैनभिःसका-शमानीता। तेन च भविष्यति ऋषभपत्नीति / 'सारवणा संगोपना कृतेति। तथा चानन्तरं वक्ष्यति नन्दायाः "सुमंगलासहि ओत्ति" अन्ये तु प्रतिपादयन्ति सर्वेयं जन्मद्वारवक्तव्यता द्वारगाथापिकिलैवं पठ्यते "जमणेय विवट्टीयत्ति" अलं प्रसङ्गेन आव०१ उ०। आ०क०)