________________ उवहि 1065 - अभिधानराजेन्द्रः - भाग 2 उवहि धम् / संस्तारकः परिशाटी वेति द्विविध उभयोपशमनार्थं जीवादिरक्षणार्थं च गृह्यते पीठं छगणादिमयमुपवेशनार्थे फलकश्चं एकपट्टादिमयः शमनोपयोगी पात्रसत्कश्च निर्योगः / प्रत्यवतारो द्विगुण एतानि सण्यिपि तदानीं गृह्यन्ते। अथ शिष्यः प्रश्नयति। चत्तारि समोसरणे, मासा किं कप्पती ण कप्पति वा। कारणिग पंचरत्ता, सव्वेसिंमल्लगादीणं / / आषापूर्णिमाऽनन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते न वा। सूरिराह उत्सर्गतो न कल्पते द्वितीयपदे क्षेत्रस्याप्राप्ता अध्वनिर्गता वा आषाढपूर्णिमायां प्राप्तास्ततः संस्ताराद्युपर्धि डगलादीनि च पञ्चरात्रिदिवानि गृह्णन्ति पर्युषणाकल्पं च रजन्यामाकर्षन्ति / ततः पञ्चम्यां पर्युषणं कुर्वन्ति / अथ पूर्वोक्त कारणांत्पञ्चम्यामेव ते प्राप्तास्ततः पञ्चरात्रं तथैव संस्तारकमङ्गलादीनि गृह्णन्ति दशम्यां पर्युषणयन्ति / विशेष चूर्णिकृत्पुनराह "तं खेत्ताणं पजते आसाढपुण्णिमाए चेव ठिया तेहि उवही न गहियो संथारगाइ ताहे जाव पंच रत्तं ताव गेण्हंति एक्का पंचदिवसे पज्जोसणाकप्पं कहंति दसमीए एस कारणेणं कप्पई पंचरत्तं अह पंचमीए पत्ता तहेव य वरत्तगावडुंतीति" एवं सर्वेषां मल्लकादीनामुपकरणानामर्थाय कानि पञ्चरात्रिंदिवानि प्रवर्द्धमानानि तावन्मन्तव्यानि यावद्भाद्रपदशुद्धञ्चम्यां गृहीतेऽगृहीते वा ङगलमल्लकादौ नियमात्पर्युषणं विधेयम् “तेसिं तत्थ ठिआणं पडिलहुवट्टचारणादीसु लेवाईण अगहणे लहुगा पुस्विआ गहिते वा” तेषां साधूनां तत्र वर्षाक्षेत्र स्थितानासियं सामाचारी सभाप्रपाऽऽरामदेवकुलशून्यगृहादिषु यद्स्त्रमुज्झितं पथिकादिभिः परित्यक्तं तत्प्रत्युपेक्षन्ते यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यन्ते तदभावे चरणादिषु प्रत्युपेक्षन्ते वर्षासुयदि लेपमादिशब्दात्पात्रं वा वस्त्रं वा गृह्णन्ति ततश्चतुर्ल घुकाः पूर्वं चालेपादीनि यदिन गृहीतानि / तदाऽपि चतुर्लघु। इदमेव व्याख्याति। वासाण एस कप्पो, सवतो चेव जाउ सक्कोसं। परिभुत्तं विप्पइण्णं, वाघातट्ठा परिक्खंति॥ (वासाणत्ति) विभक्तिव्यत्ययाद्वर्षासु तिष्ठतामेष कल्पः समाचारी सर्वतः सक्रोशं यावद्यत्कार्पटिकैः परिभुक्तं विप्रकीर्णं पूर्व परिभुज्य ततोऽकिञ्चित्करमिति मत्वा परिष्ठापितं ततस्तिष्ठन्त एव व्याघातार्थ निरीक्षन्ते। कः पुनव्याघात इति चेदुच्यते। अद्धाण णिग्गतादी, झामियवूढे व सेह परिझुण्णे। आगंतु बाहिपुट्विं, दिडं असण्णिसण्णीसु॥ अध्वनिर्गतादयः साधवः आगच्छेयुः आत्मीयो वा उपधिध्यामितो दग्धो भवेत् उदकेनवा व्यूढः शैक्षो वा अवश्यप्रव्राजनीयः पुराणादिरुपस्थितः परिजीर्णो वा उपधिरेतैः कारणैरागन्तुकेषु तालावरादिषु पूर्व मार्गयन्ति ततः क्षेत्राहिरसंशिषुपूर्व दृष्ट गृह्णन्ति। अथेदमेव विभावयिषुरागन्तुकाननागन्तुकान् व्याख्याति। तालायरे य धारे, वाणियखंधारसेणसंवट्टे। लाउडिग वहग सेवग, जामाउगं पंथिगादीसुं॥ तालावरा नटनर्तकवदियो (धारेत्ति) देवछत्रधारकाः वणिजो वाणिज्यकाः राजविम्बसहितं स्वचक्रं परचक्रं वा स्कन्धावार उच्यते राजबिम्बविरहिता सेना चौरधाटीभदेन बहवो ग्रामनायका अधिष्ठातारः एकत्र स्थिताः सर्वत्तः लाकुटिका उङ्गरावजिका गोकुलिका सेवकाश्चारभट्टकाः जामातृकाः प्रसिद्धाः पथिका ये बहवः स्वं देशं प्रति प्रस्थिताः एवमादिषु पूर्व मार्गयन्ति कथयित्माह। आगंतुकेसु पुट्विं, गवेसए चारणादिसु बाहिं। पच्छा जे सग्गाम, तालावरादिणो यंति॥ (बाहिंति) सक्रोशयोजनान्तर्वतिष्वन्तरपल्लिकासहितेषु बाह्यग्रामेषु ये आगन्तुकाश्चारणादयस्तेषु पूर्व गवेषयन्ति / पश्चात् बाह्यग्रामेषु चारणादीनामभावे येतालावरादयः स्वग्राममायान्ति तेषु गवेषयितव्यम्। कथमेतेषु वस्त्रसंभव इत्याह। लद्धण णवे इतरे, समणाणं देज सेवजामादी। चारणधारवणीयं, पडंति इयरे उ सडितरा / / सेवका जामातृका नवानि वस्त्राणि लब्ध्वा इतराणि पुराणानि श्रमणानां दधुः / चारणानां (धारत्ति) देवछत्रधारिणां राजादयः प्रसादतो वस्त्राणि प्रयच्छन्ति तानि पुराणानि वा ते साधूनां दधुः (वणीयंति) वाणिज्यक वणिजः पतन्ति / इतरे तु पथिकादयः श्राद्धाः श्रावका भवेयुः बहिर्गामे स्वग्रामेऽप्युपचारणादीनामभावे विधिमाह। बहिरंतसण्णिसण्णिसु, जं दिह्र तेसु वा जमदिठं। केई दुहउवसण्णि, सुगहिते सण्णीसु दिद्वितरे।। क्षेत्राभ्यन्तरे प्रतिवृषभग्रामेषु ये असंझिनस्तेषु पूर्व दृष्ट वस्त्र मार्गयन्ति तदभावे बहिामेऽप्येवं संझिषु पूर्व दृष्टं तदभावे अन्तर्मूलनामे असंज्ञिषु पूर्व दृष्ट तदसत्वे मूलग्राम एव संझिषु यत्पूर्वमदृष्टं तदभावे मूलग्राम एवासंज्ञिषु पूर्वमदृष्ट वस्त्र मार्गयन्ति केचिदाचार्या इत्थं ब्रुवते। द्वयोरपि बहिरन्तर्लक्षणयोः स्थानयोः प्रथमसंज्ञिषु गृहीते सति ततो बहिरन्तर्वतिष्वेव संज्ञिषु यथा कर्मदृष्टमितरत्वात् दृष्टं गृह्णातीति किं पुनः कारणं पूर्व दृष्ट प्रथमं गृह्यते उच्यते तत्र हि पूर्वप्रत्युपेक्षितत्वेनाधाकर्मादय उत्क्षेपनिक्षेपादयश्च भवन्ति। कोई तत्थ वणिज्जा, वाहिं खित्तस्स कप्पती गहणं / गंतुं ता पडिसिद्धं, कारणगमणे बहुगुणं तु॥ कश्चिन्नोदकस्तत्रेति अनन्तरोक्तव्याख्याने इदं भणेत् यदि पूर्व प्रतिवृषभग्रामेऽप्युद्गृहीतव्यं ततो मूलग्रामे एवं तर्हि दूरत्वात् / क्षेत्रागहिर्ग्रहणं सुभगं कल्पते / गुरुराह क्षेत्रावहिर्वर्षासु गन्तुमपि तावत्प्रतिषिद्ध किं पुनर्वस्त्रग्रहणम् / अथ कारणे वर्षासु क्षेत्रावहिर्गमनं करोति तत्र गतश्च वर्षाकल्पादिनानिमन्त्र्यते तदासंयमस्य बहुगुणमिति कृत्वा तदपि ग्रहीतव्यम् / इदमेव व्याचिख्यासुः प्रथमतः परवचनं व्याख्याति। एवं नामं कप्पति, जं दूरे तेण बाहि गिण्हंतु। . एवं भणंति गुरुगाण, गमणे गुरुगा व लहुगा वा॥ यत दूरे गामादहिर्वस्त्रं तद्यदि प्रथमं कल्पते तत एवं नाम क्षेत्रावहिः सुतरां प्रथमतरं गृह्णन्तु सूरिराह एवं भणतो भवतश्चतुर्गुरुकाः / अथ क्षेत्रादहिर्गच्छाति ततो गुरुका वा लघुका वा प्रायश्चितं तत्र नव प्रावृषि चत्वारो गुरवः शेषे वर्षाकाले चत्वारो लघवः / कारणगमने बहुगुणमिति व्याचष्टे॥ संबंधभाविएस, कप्पति जोयणे कजे। जुण्णेव वासकप्पं, गेण्हति जं बहुगुणं वण्णं / /