________________ उवहि 1063 - अमिधानराजेन्द्रः - भाग 2 उवहि उभयं तदेव हीनमधिकं वा लब्धं सत् "आधाकडयगं" पश्चात्कृतमल्प परिकर्मयल्लभ्यतेतस्य नसंधना क्रियते हीनस्य तथा च्छेदनः क्रियते अधिकस्य। किं च। डंडए लट्ठिया चेव, चम्मए चम्मकोसए। चम्मच्छेयणपट्टे, चिलिमिली धारए गुरू॥५१॥ अयमपर औपग्रहिकोपधिः साधोः साध्वाश्च भवति दण्डको भवति दण्डकश्च यष्टिश्चचशब्दाद्वियष्टिश्चेति। अयं सर्वेषामेवमेव पृथक्पृथक् औपग्रहिकः / अयमपर एव औपग्रहिकः कश्चासौ (चम्मएत्ति) चर्म कृत्तिश्छवडिया चर्मकोसकः "जत्थन हणाई बुज्झंति" तथा चमच्छेदः बर्धपट्टिका / यदि च चर्म च्छेदनकं पिप्पलकादि / तथा (पट्टत्ति) योगपट्टकः चिलिमिलि चेति / एतैश्चर्मादिभिर्गुरोरोग्राहिकोपधिर्भवति। जंचण्ण एवमाई, तवसंजमसाहयं जइजणस्स। ओहो इरेगगहियं, उवग्गहियं तं वियाणाहि॥ यचान्यद्वस्तु एवमादि उपानहादि तपः संयमयोः साधकं यतिजनस्य ओधोपधेरतिरिक्तं गृहितमौपग्रहिकं तद्विजानीहि / ओ०। (यष्ट्यादिलक्षणमन्यत्र) चम्मतियं पट्टदुर्ग, नायव्बो मज्झिमो उवहि एसो। अजाण चारगो पुण, मज्झिमो होइ अइरित्तो॥ धर्मत्रिकं वर्धनलिकाकृतिरूपम् तथा पट्टद्वयं संस्तरपट्टचोलपट्टलक्षणं ज्ञातव्यो मध्यम उपधिरेषः / औपग्रहिक आर्याणां चारकः पुनः सागारिकोदकनिमित्तमध्यमोपधावुक्तलक्षणो भवत्यतिरिक्तः नित्यं जनमध्य एव तासां वासादिति गाथार्थः / एतदेवोत्कृष्टमभिधातुमाह। अक्खा संथारोवा, एगमणेगंगिओ अ उक्कोसो। पोत्थगपणगं फलगं, उक्कोसोवग्गहो सव्वो॥३७॥ अक्षाश्चन्दनकादयः संस्तारकश्च किं विशिष्ट इत्याह / एकाङ्गिकोऽनैकाङ्गिकश्च फलकं कम्बिमयादिः उत्कृष्टस्वरूपेण / तथा पुस्तपञ्चकं तद्यथा गण्डिकापुस्तकः छिवादीपुस्तकः छविपुस्तकः मुष्टिपुस्तकः संपुटकश्चेति। तथा फलकं पट्टिका समवसरणफलकं वा उत्कृष्ट इति प्रकान्तापेक्षया औपग्रहिक उपधेः सर्व इत्यक्षादिः सर्वएवेति गाथार्थः / अनयोरौधिकोपग्रहिकयोरेवोपधिद्वयोरपि विशेषलक्षणमभिधातुमाह! . ओहेण जस्स गहणं, भोगो पुण कारणा स ओहोहि। जस्स उ दुगं पि निअमा, कारणओ सो उवग्गहिओ // 38 // ओघेन सामान्येन भोगे अभोगे वा यस्य पात्रादेहणमादानं भोगः पुनः कारणान्निभित्तेनैव भिक्षाटनादिना स ओघोपधिरभिधीयते / यस्य तु पीठकादेयमपि ग्रहणं भोगाश्चेत्येतन्नियमात्कारणतो निमित्तेन स्नेहादिना स पीठकादिः औपग्रहिकः कादाचित्कप्रयोजननिवृत्त इति गाथार्थः / अस्यैव गुणकारितामाह। मुच्छारहिआणेव्वो, सम्मचरणस्स साहगो भणिओ। जुत्तीए ईहा पुण, दोसा इत्थं पि आणाइ // 39 // मूरिहितानामभिष्वङ्ग वर्जितानां यतीनामेव द्विविधोऽपि पात्रपीठकादिरूप उपधिः सम्यगधिकरणरक्षाहेतुत्वेन चरणस्य साधको भणितःतीर्थकरगणधरैर्युक्तयेति।मानभोगयतनया इतरता पुनरयुक्त्या यथोक्तमानभोगाभावेदोषाः अत्राप्युपधौगृह्यमाणे तुद्यमानेवा आज्ञादय इति गाथार्थः ।।पं०व०। (एतेषामन्येषां चोपकरणानां प्रयोजनं विहार शब्दे चारित्रार्थमनेकाहगमने प्रस्तोष्यमाणे स्पष्टीभविष्यति)। (E) अतिरिक्तोपग्रहणेन प्रायश्चित्तम् / दुविहप्पमाणातिरेग मुत्तदेसेण तेण लहुगाओ। मज्झिमगं पुण उवहिं, पडुच्च मासो भवे लहुओ। द्विविधं द्विप्रकारं गणनाप्रमाणभेदाद्यत्प्रमाणं ततोऽतिरिक्त उपधौ तत्रादेशेन चतुर्लधुका भवन्ति यत उक्तं निशीथसूत्रे "जे भिक्खू गणणाइरित्तं वा पमाणाइरित्तं वा उवहिं धरेइ से अवठ्ठा चातुम्मासिय परिहरेणट्ठाणं उग्धाइयं" बृ०१३०॥ ऊणातिरित्तधरणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, संघट्टणमादि पलिमंथो // गणनया प्रामाणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्य धरणे प्रायश्चितं चत्वारो मासाः उद्धातालघवः आज्ञादयश्च दोषास्तथा यत्र परिकर्मणां कुर्वन् तजातान्प्राणान्संघट्टयति आदिशब्दात्परितापयति अपद्रावयति च ततस्तन्निमित्तमपि तस्य प्रायश्चितं तथा प्रतिदेवसमुभयकालं पात्राणि अन्यद्वाऽतिरिक्तमुपकरणं प्रत्युपेक्षमाणस्य परिमन्थः सूत्रार्थव्याघातः। तस्मात् गणनया प्रमाणेन सूत्रोक्तमुपकरणं धारयितव्यम् व्य० द्वि०८30ओ। 10 प्रथमसमवसरणे उपधिग्रहणम्। (तत्र नो कल्पते इति वत्थशब्दे भाविष्यते) वर्षासु अतिरिक्तोपकरणग्रहणकारणमुपदर्शयितुं दृष्टान्तमाह। दव्वोवक्खरणेहा, दियाण तह वा कडुयभंडाणं / वासारन कुडुंवी, अतिरेगं संचयं कुणइ / / द्रव्यं हिरण्यादि उपस्करः सूर्पादिः स्नेहो घृतं तैलं वा आदिशब्दादेरण्डादितैलपरिग्रहः / क्षारो वस्तुलादिः लवणं वा कटुकं शुण्ठीपिप्पल्यादि भाण्डानि घटपिठरादीनि / अथवा कटुकभाण्ड वेसणमयवाहिङ्गुप्रभृतिजातं एतेषां द्रव्योपस्करादीनां कुटुम्ब्यपि वर्षाराने अतिरिक्तसञ्चयं करोति किं कारणमिति चेदुच्यते। वणिया ण संचरंती, हट्टाण हवंति कम्मपरिहाणी। गेलण्णाए देसुव, किं काहिति अग्गहिते पुट्विं / / वर्षाकाले वणिजो ग्रामेषु क्रयविक्रयार्थं न सञ्चरन्ति / पत्तनेष्वपि वर्षवर्दलवशेन हट्टा न भवन्ति / अपि च यदि कुटुम्बी द्रव्योपस्कारादीनामतिरिक्त सञ्चयं न कुर्यात् तत उत्पन्ने प्रयोजने क्रयविक्रयार्थ तेनापणवीथ्यां गन्तव्यं ततश्च हलकर्षणप्रभृतीनां कर्मसंयोगानां परिहाणिर्भवति ग्लानत्वे वा संजाते आदशेषु वा प्राघूर्णिकेषु आगतेषु अतिरिक्तसञ्चये पूर्वमगृहीते किं पथ्यभोजनप्राघूर्णकभक्त्यादिकं करिष्यति // तह अन्नतिथिगा विय, जारिसो से संचयं कुणति। इह पुण छण्हं विराहणा, पढमम्मिय जे भणियदोसा॥ तथेति दृष्टान्तान्तरोपन्यासे अन्यतीर्थिका अपि सरजस्कादयो यादृशो यस्य येनोपकरणेन प्रयोजनमित्यर्थः (से) तस्यातिरिक्त सञ्चयं वर्षासु करोति / यथा सरजस्का रक्षाया दकसैत्करिकामत्तिकाया वोटिकछगणलक्षणयोरित्यादि / इहेति अस्मिन् पुनर्येन शासते यद्यतिरिक्तमुपकरणं न गृह्णन्ति ततः षण्णां जीवनिकायानां विराधना भवति / अथातिरिक्तोप्रकरणाभावाद्वर्षासूपधिं गृह्णन्ति ततो ये प्रथमे समवसरणे उपकरणं गृह्णतो दोषा भणितास्तान् प्राप्नुवन्ति / कथं पुनः षण्णां कायानां विराधना भवतीत्युच्यते।