________________ उववाय 1005 - अभिधानराजेन्द्रः - भाग 2 उववाय जीवस्स॥१॥ सव्वाहिं लेसाहि, चरमे समयम्मि परिणयाहिं तु / न वि कस्स वि उववाओ, परे भवे अत्थि जीयस्स // 2 / / अंतमुहुत्तम्मि गए, अंतमुहत्तम्भिसेसएचेवालेसाहिं परिणयाहिं जीवा गच्छतिपरलोयं"।३।। चतुर्विंशतिदण्डकस्यशेषपदान्यतिदिशन्नाह एवमित्यादि (एवमिति) नारकसूत्राभिलापेनेत्यर्थः (जस्सत्ति) असुरकुमारादेर्या लेश्या कृष्णादिका सा लेश्या तस्याः सुरकुमारादेर्भणितव्येति नन्वेतावतैव विवक्षितार्थसिद्धेः किमर्थं भेदेनोक्तम्, “जाव जीवेणं भंते" ! इत्यादि ? उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थमेवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति ? सत्यं किं तु ज्योतिष्कवैमानिकाः प्रशस्तलेश्या एव भवन्तीत्यस्यार्थस्य दर्शनार्थं तेषां भेदेनाभिधानं विचित्रत्वाद्वा सूत्रगतेरेति। भ०३ श०४ उ०॥ (२३)नैरयिकः देशतः सर्वतो वा उपपद्यते। नेरइएणं भंते ! नेरइएसु उववज्जमाणे किं देसेणं देसं उववजह 1 देसेणं सव्वं उववजह 2 सवेणं देसं उववज्जइ 3 सवेणं सव्वं उववजह? गोयमा! नो देसेणं देसं उववजह 1 नो देसेणं सव्वं उववजइ 2 नो सट्वेणं देसं उववज्जइ३ सव्वेणं सव्वं उववज्जइ जहा नेरइए एवं जाव वेमाणिए 1 नेरइएणं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं आहारेइ देसेणं सव्वं आहारेइ सव्वेणं देसं आहारेइ सव्वेणं सवं आहारेइ? गोयमा!नो देसेणं देसं आहारेइनो देसेणं सव्वं आहारेइ सवेणं वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ एवं जाव वेमाणिए 1 / नेरइएणं भंते ! नेरइएहिंतो उववट्टमाणे किं देसेणं उववट्टइ जहा उववजमाणे तहेव उववट्टमाणे वि दंडगो भाणियव्वो॥ (नेरइएणं भंते ! नेरइएसु उववजमाणेत्ति) ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यतेऽनुम्तन्नत्वात्तिर्यगादिवत! इत्यत्रोच्यते उत्पद्यमान उत्पन्न एव तदायुष्कोदयादन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोदयेऽपि यदि नारको नासौ तदन्यः कोऽसाविति (किं देसेणं देसं उववज्जइत्ति) देशेन च देशं यदुत्पादनं प्रवृत्तं तद्देशेन देशं छान्दसत्वाचाव्ययीभावप्रतिरूपः समास एवमुत्तरत्रापि तत्र जीवः किं देशेन स्वकीयावयवेन न देशेन नारकावयविनोंऽशतयोत्पद्यते। अथवा देशेन देशमाश्रित्योत्पादयन्वेति शेषः एवमन्यत्रापि तथा (देसेण सव्वंति) देशेन च सर्वेण च यत्प्रवृत्तं तद्देशेन सर्व तत्र देशेनस्वावयवेन सर्वतः सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः / आहोस्वित्सर्वेण सर्वात्मना देशतो नारकांशतयोत्पद्यते अथवा सर्वेण सर्वात्मना सर्वतोनारकतयेति प्रश्नः / अत्रोत्तरम् न देशेनदेशतयोत्पद्यते यतो न परिणामिकारणावयवेन कार्यावयवो निर्वय॑ते तन्तुना पटाप्रतिबद्धपटप्रदेशवत् / यथाहि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वय॑ते तथा पुर्वावयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशोन निर्वर्त्यत इति भावः / तथा / नदेशेन सर्वतयोत्पद्यते अपरिपूर्णकारणत्वात्तन्तुना पट इवेति।तथा न सर्वेण देशतयोत्पद्यते सम्पूर्णपरिणामिकारणत्वात्समस्तघटकारणैर्घटकदेशवत् सर्वेणतुसर्व उत्पद्यतेपूर्णकारणसमवायात्घटवदिति चूर्णिव्याख्या। टीकाकारस्त्वेवमाह। किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते अथवा देशेन सर्वत उत्पद्यते अथवा सर्वात्मनायत्रोत्पतत्तव्यं तस्य देश उत्पद्यते अथवा सर्वात्मना सर्वत्रेति। एतेषु पाश्चात्यभङ्गौ ग्राह्यौ यतः सर्वेण समप्रदेशव्यापारेणेलिकागती यत्रोत्पत्तव्यं तस्य देशउत्पद्यते तद्देशेन उत्पत्तिस्थानदेशस्येव व्याप्तत्वात् कन्दुकगतौ वा सर्वेण सर्वत्रीत्पद्यते विमुच्यैव पूर्वस्थानमिति / एतच टीकाकारव्याख्यानं वाचनान्तरविषयमिति / / नेरइयाणं भंते ! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं आहारेइ तहेव जाव सव्वेणं वा देसं आहारेइ सव्वेणं वा सव्यं आहारेइ 1 एवं जीव वेमाणिया || नेरइएणं भंते ! नेरअएसु उववण्णे किं देसेणं देसं उववण्णे एसो वि तहेव जाव सव्वेणं सव्वं उववण्णे जहा उववजमाणे उववट्टमाणे य चत्तारि दंडगा तहा उववण्णे उव्वट्टणे विचत्तारिदंडगा भाणियव्वा सव्वेणं सव्वं उववण्णं सवेण वा देसं आहारेइ सव्वेणं सव्वं आहारेइ एएणं अभिलावेण उववण्णे उव्वट्टेवि नेयव्वं / नेरइएणं भंते ! नेरइएसु उववजमाणे किं अद्धेणं अद्धं उववज्जइ अद्धेणं सव्वं उववजई सवेणं अद्ध उववज्जइसवेणं सव्वं उववनइ।जहार पढमिल्लेणं अट्ठ दंडगा तहा अद्धेण वि अट्ठ दंडगा भाणियव्वा, णवरं जहिं देसेणं देसं उववञ्जइ तहिं अद्धेणं अद्धं उववज्जइत्ति भाणियव्वं एवं णाणत्तं एवं सव्वेवि सोलस दंडगा भाणियव्वा / / उत्पादे चाहारक इत्याहारसूत्रं तत्र देशेन देशमिति.आत्मदेशेनाव्यवहार्यद्रव्यदेशमित्येवं गमनीयम् उत्तरम्। (सव्वेण वादेसमाहारेइति) उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्रलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति तप्ततापिकागततैलग्राहकविमोचकापुपवदत उच्यते देशमाहारयतीति (सव्वेण वासव्वंति) सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्त एवं प्रथमस्तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते / सर्वमाहारयतीति उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तोऽथोत्पादप्रतिपक्षत्वाद्वर्तमानकालनिर्देशसाध चिोद्वर्तनादण्डकस्तदाहारदण्डकेन सह तदनन्तरञ्च नोद्वर्तनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डकावुत्पन्नप्रतिपक्षत्वाचोवृत्ततदाहारदण्डकाविति। पुस्तकान्तरे तु उत्पादतदाहारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको ततस्तूत्पादप्रतिपक्षत्वादुद्वर्तनाया उद्वर्तनातदाहारदण्डको, उद्वर्तनायाशोद्वृत्तः स्यादित्युद्वृत्ततदाहारदण्डकौ कण्ठ्याश्चैत इति एवं तावदष्टाभिर्दण्डकैर्देशसर्वाभ्यामुत्पादादिचिन्तितमथाष्टाभिरेवाड़सर्वाभ्यामुत्पादाद्येव चिन्तयनाह(जहा पढमिल्लेणंति)। यथा देशेन ननु देशस्यार्द्धस्य च को विशेष उच्यते देशस्विधादिरनेकधाऽर्द्ध त्वेकधैवेति / भ०। (गर्भगतस्य मृत्वा नरकेषूत्पादो गम्भ शब्दे)। (24) गर्भगतस्य मृत्वा देवेषूत्पादः॥ जीवेणं मंते ! गब्भगए समाणे नेरइएस उवव जा? गोयमा! अत्ग इए उववजेजा अत्थेगइए नो उववजे