________________ अर 753 - अभिधानराजेन्द्रः - भाग 1 अरइपरि(री)सहं अरजिनचरित्रं त्वित्थम् - सागरतं चइत्ता णं, भरहं नरवरीसरो। अरोय अरयं पत्तो, पत्तो गइमणुत्तरं / / 40|| च पुनः, अरो अरनामा नरवरेश्वरः सप्तमचक्री सागरान्तं समुद्रान्तं भरतक्षेत्रं षट्खण्डराज्यं त्यक्त्वा अरजस्त्वं प्राप्तः सन् अनुत्तरां गतिं सिद्धगति प्राप्तः, मोक्षंगत इत्यर्थः / चक्रीभूत्वा तीर्थकरपदं भुक्त्वा मोक्षं गत इत्यर्थः / अत्र अरनाथदृष्टन्तः। अरनाथवृत्तान्तःतूत्तराध्ययनवृत्तिद्वयेऽपि नाऽस्ति, तथापि ग्रन्थान्तराल्लिख्यते-प्राविदेहविभूषणे मङ्ग लावतीविजये रत्नसञ्चया पुरी अस्ति / तत्र महीपालनामा भूपालोऽस्ति स्म, प्राज्यं राज्यं भुङ्क्ते स्म / अन्यदा गुरुमुखाद् धर्म श्रुत्वा स वैराग्यमागतः, सतृणमिव राज्यं त्यक्त्वा दीक्षा ललौ। गुर्वन्तिके एकादशाङ्गानि अधीत्य गीतार्थो बभूव / बहुवत्सरकोटीः स संयममाराध्यविशुद्धविंशतिस्थानकैरर्हन्नामकर्म बबन्ध / ततो मृत्वा सर्वार्थसिद्धविमाने देवो बभूव / ततश्च्युत्त्वा इह भरतक्षेत्रे हस्तिनागपुरे सुदर्शननामा नृपो बभूव / तस्या राज्ञी देवीनाम्नी बभूव / तस्याः कुक्षौ सोऽवततार / तदानीं रेवतीनक्षत्रं बभूव / तया चतुर्दश स्वप्ना दृष्टाः / ततः पूर्णषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव / जन्मोत्सवस्तदा षट्पञ्चाशद्-दिक्कुमारिकाभिः चतुष्षष्टिसुरेन्द्रनिर्मितः, ततः सुदर्शनराजाऽपि स्वपुत्रस्य जन्मोत्सवं विशेषाचकार / अस्मिन् गर्भगते मात्रा प्रौढो रत्नमयोऽरः स्वप्ने दृष्टः / ततः पित्राऽस्य 'अर' इति नाम कृतम्। देवपरिवृतः स वयसा गुणैश्च वर्द्धते स्म। एकविंशति-सहस्रवर्षेषु अरकुमारस्य पित्रा राज्यं दत्तम्, एकविंशति-वर्षसहस्राणि यावद् राज्य भुक्तवतः तस्य शस्त्रकोशे चक्ररत्नं समुत्पन्न, ततो भरतं संसाध्य एकविंशतिसहस्रवर्षाणि यावत् चक्रवर्तित्वं बुभुजे / ततः स्वामी स्वयं बुद्धोऽपि लोकान्तिक-देवबोधितो वार्षिकं दानं दत्त्वा चतुष्षष्टिसुरेन्द्रसेवितो वैजयन्त्याख्या शिबिकामारूढः सहस्रामवणे सहस्रराजभिः समं प्रव्रजितः। ततश्चतुर्ज्ञानी असौ त्रीणि वर्षाणि छद्मस्थो विहृत्य पुनः सहस्रामवणे प्राप्तः। तत्र शुक्लध्यानेन ध्वस्तपापकर्माऽरः केवलज्ञानं प्राप। ततः सुरैः समवसरणे कृते स्वामी योजनगामिना शब्देन देशनां चकार / ते देशनां श्रुत्वा केऽपि सुश्रावका जाताः, केऽपि च प्रव्रजिताः / तदानीं कुम्भभूपः प्रव्रज्य प्रथमोगणधरोजातः। अरनाथस्य षष्टिसहस्राः साधवो जाताः, साध्व्यः स्वामिनस्तावत्प्रमाणा एव जाताः। श्रावकाश्चतुरशीतिसहसा-ऽधिकलक्षत्रयमाना बभूवुः / सम्मेतशैलशिखरे मासिकाऽनशनेन भगवान् निर्वृतः। देवैर्निर्वाणोत्सवो भृशं कृतः / उत्त० 18 अ० "अरे णं अरहा तीसं धणू उड़े उच्चत्तेणं होत्था''। स०३० सम०ा कल्प०अग्नौ, जै० गा०। (अस्थाऽन्तरं 'अंतर' शब्देऽस्मिन्नेव भागे 66 पृष्ठ प्रदर्शितम्) अरइ-स्त्री०(अरति) रमणं रतिः, संयमविषया धृतिः, तविपरीता तु अरतिः / उत्त० 2 अ०। संयमविषयेऽधैर्ये , उत्त०२ अ०) संयमोद्विग्नतायाम्, आचा० 1 श्रु०६ अ० 3 उ०। उद्वेगक्षणे मोहनीयोदयजे चित्तविकारे, स्था० 1 ठा० उ०। सूत्रा दशा दशा०) वातादिजन्ये चित्तोद्वेगे, उत्त० 11 अ० अमनोज्ञेषु शब्दादिविषयेषु संयमे वा जीवस्य चित्तोवेगे,०१०। सूत्र०। अनिष्टसंप्रयोगसंभवे मनोदुःखे, प्रव० 41 द्वार / इष्टप्राप्ति-विनाशोत्थे मानसे विकारे, आचा०१श्रु०३अ०१ उ०। सूत्र०। स०। अरइं आउट्टे से मेहावी रमणं रतिस्तदभावोऽरतिः, तां पञ्चविधाऽऽचारविषयां मोहोदयात्कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्थापिता,(स इति) अरतिमान्, मेधावी विदितासारसंसारस्वभावः सन्, आवर्तेत निवर्तयेदित्युक्तं भवति / संयमे चाऽरतिर्न विषयाभिष्वङ्गमृते, कण्डरीकस्येव, इत्यत इदमुक्तं भवति-विषयाभिष्वङ्गे रतिं निवर्तेत। निवर्त्तनं चैवमुपजायतेयदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते, पौण्डरीकस्येवेति, ततश्चेदमप्युक्तं भवति- संयमे रतिं कुर्वीत, तद्विहितरतेस्तु न किञ्चिद् बाधायै नाऽपीहाऽपरसुखोत्तरबुद्धिरिति / आह च - क्षितितलशयनं वा प्रान्तभिक्षाऽशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ।।१।।शालिनीवृत्तम्। तणसंथारणिसण्णो, विमुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुह, कत्तो तं चक्कवट्टी वि॥१॥ आचा० 1 श्रु०१ अ० १उ० "अरइं च वोसिरे" अरतिं चाऽनभिमतक्षेत्रादिविषयां व्युत्सृजामि / आतु अरइकाम-न०(अरतिकर्मन्) नोकषायवेदनीयकर्मभेदे, यदुदयात्, सचित्ताऽचित्तेषु बाह्यद्रव्येषु जीवस्याऽरतिरुत्पद्यते। स्था०६ ठा०। अरइकारग-त्रि०(अरतिकारक) अरतिजनके, दश०१ चू० अरइपरि(री)सह-पुं०(अरतिपरि(री) षह) रमणं रतिः संयमविषया धृतिः, तद्विपरीता त्वरतिः, सैव परीषहः, अरतिपरीषहः / उत्त० 2 अ० अरतिर्मोहनीयजो मनोविकारः, सा च परीषहः, तन्निषेधनेन सहनादिति। भ०८ श०८ उ० विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते, तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारभावमालोच्य भवितव्यम्। परीषहभेदे, आव० 4 अ० गच्छंस्तिष्ठन्निषण्णो वा, नाऽरतिप्रवणो भवेत्। धर्मारामरतो नित्यं, स्वस्थचेता भवेत् मुनिः।।१।। आ० म० द्वि० न कदाऽप्यरतिं कुर्याद, धर्मारामरतिर्यतिः। गच्छं स्तिष्ठस्तथाऽऽसीनः,स्वास्थ्यमेव समाश्रयेत् / / 1 / / ध०३ अधि० अरतिपरीषहमाह - गामाणुगामं रीयंतं, अणगारं अकिंचणं। अरई अणुप्पविसे, तं तितिक्खे परीसहं॥१४|| ग्रामसुत्रम्- ग्रसते बुद्ध्यादीन् गुणानिति ग्रामः / स च जिगमिषितः, अनुग्रामश्च तन्मार्गानुकूलः, अननुकूलगमने प्रयोजनाभावात्, ग्रामाऽनुग्रामम् / यद्वा- ग्रामश्च स एव लघुग्रामश्च तम् / अथवा ग्रामाऽनुग्राममिति रूढिशब्दत्वादेकस्माद् ग्रामादन्योऽनुग्रामः / ततोऽपि ग्रामाऽनुग्राममुच्यते / नगरादि- उपलक्षणमेतत् ततो नगरादींश्च / किमित्याह - (रीयंतं ति) व्यत्ययाद् रीयमाणं विहरन्तम्, अनगारमुक्तस्वरूपम्, अकिञ्चनं नाऽस्य किञ्चन प्रतिबन्धाऽऽस्पदं धनकनकाऽऽदि अस्तीति अकिञ्चनो निष्परिग्रहः, तथाभूतम्, अरतिरुक्तरूपा, अनुप्रविशेत् मनसि लब्धाऽऽस्पदा भवेत्, (तमिति) अरतिस्वरूपं, तितिक्षेत्सहेत, परीषहमितिसूत्रार्थः। तत्सहनोपायमेवाऽऽह -