________________ अप्पाबहुय(ग) ६६२-अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) (एएसिणमित्यादि) सर्वस्तोका भवनवासिनो देवास्तेजो--लेश्याकाः। युक्तिरत्र प्रागेवोक्ता / तेभ्यस्तेजोलेश्याका भवन-वासिन्यो देव्यः संख्येयगुणाः, देवेभ्यो हि देव्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणास्तत्रोत्पद्यन्ते संख्येयगुणत्वमिति / तेभ्यः कापोतलेश्या भवनवासिनो देवा असंख्येयगुणाः, तेभ्योऽपिनीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषा-धिकाः / युक्तिरत्र प्रागुक्ताऽनुसरणीया। तेभ्यः कापोतलेश्या भवनवासिन्यो देव्यः संख्येयगुणाः, भावना प्रागुक्तभावना-नुसारेण भावनीया / ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्य; कृष्णलेश्या विशेषाधिकाः, एवं वाणमन्तरविषयमपि सूत्रत्रयं भावनीयम्। ज्योतिष्कविषयसूत्रम् - एतेसि णं भंते ! जोइसियाणं देवाणं देवीण य तेउलेस्साणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वस्थोवा जोइसियदेवा तेउलेस्सा, जोइसिणीओ देवीओ तेउलेस्साओ संखिज्ज-गुणाओ। ज्योतिष्कविषयमेकमेव सूत्रं, तन्निकार्य तेजोलेश्याव्यतिरेकेण लेश्यान्तरासम्भवात्, पृथग्देवदेवीविषयसूत्रद्वयाऽसम्भवात्। वैमानिकदेवविषयं सूत्रमाहएतेसिणं भंते ! वेमाणियाणं देवाणं तेउलेस्साणं पम्हलेस्साणं सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सम्वत्थोवा वेमाणिया देवा सुकलेस्सा, पम्हलेस्सा असंखिज्जगुणा, तेउलेस्सा देवा असंखिज्जगुणा। सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिदेवानामेव शुक्ललेश्यासम्भवात्। तेषां चोत्कर्षतोऽपि श्रेण्यसंख्येयभाग-गतप्रदेशराशिमानत्वात्। तेभ्यः पद्मलेश्या असंख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिनां सर्वेषामपि देवानां पद्यलेश्यासंभवात् / तेषां चातिबृहत्तमश्रेण्यसंख्येयभाग-वर्तिनभःप्रदेशराशिप्रमाणत्वात् / लान्तकादिदेवपरिमाण-हेतुश्रेण्यसंख्येयभागापेक्षया ह्यमीषां परिमाणहेतुश्रेण्यसंख्येय-भागोऽसंख्येयगुणः, तेभ्योऽपि तेजोलेश्या असंख्येयगुणाः, तेजोलेश्या हि सौधर्मेशानदेवानाम्, ईशानदेवाश्चाङ्गुलमात्र क्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एक प्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाः तावत्प्रमाणाः, ईशानकल्पगतदेवसमुदायस्तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाः, तेभ्योऽपि सौधर्मकल्पदेवाः संख्येयगुणाः स्वतो भवन्ति, पद्मलेश्येभ्यस्तेजोलेश्या असंख्येयगुणाः, देव्यश्च सौधर्म - शानकल्पयोरेव, तत्रच केवला तेजोलेश्या, तेजोलेश्या-न्तरासम्भवात्; नतद्विषये पृथक्सूत्रमतः। सम्प्रति देवदेवीविषयं सूत्रमाहएएसिणं मंते ! वेमाणियाणं देवाणं देवीण य तेउलेस्साणं पम्हलेस्साण य सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा वेमाणिया देवा सुक्कलेस्सा, पम्हले स्सा संखे जगुणा, तेउलेस्सा असं खिज्जगुणा, तेउलेस्साओ वेमाणिणीओ देवीओ संखेज्जाओ। 'एएसिणं भंते !' इत्यादि सुगमम्, नवरं "तेउलेस्साओ वेमाणिणीओ देवीओ संखेज्जगुणाओ' देवेभ्यो देवीनां द्वात्रिंशद्गुणत्वात्। अधुना भवनपतिव्यन्तरज्योतिष्कवैमानिकविषयं सूत्रमाहएएसिणं भंते ! भवणवासीणं देवाणं वाणमंतराणं जोइसियाणं वेमाणियाणं देवाण य कण्हलेस्साणं० जाव सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा वेमाणिया देवा सुक्कलेस्सा, पम्हलेस्सा असंखिज्जगुणा, तेउलेस्सा असंखिजगुणा, तेउलेस्सा भवणवासी देवा असंखिज्जगुणा, काउलेस्सा असं खिज्जगुणा, नीलले स्सा विसे साहिया, कण्हलेस्सा विसे साहिया, तेउलेस्सा वाणमंतरा देवा असंखेजगुणा, काउलेस्सा असं खिज्जगुणा, नीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया, तेउलेस्सा जोइसिया देवा संखेज्जगुणा। एतेसिणं भंते ! भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कण्हलेस्साणं० जाव तेउलेस्साण यकयरे कयरेहिंतो अप्पा वा०? गोयमा! सव्वत्थोवाओ देवीओ वेमाणिणीओ तेउलेस्साओ, भवणवासिणीओ तेउलेस्साओ असंखे जगुणाओ, काउलेस्साओ असंखेजगुणाओ, नीललेस्साओ विसेसाहियाओ, कण्हलेस्साओ विसेसाहियाओ, तेउलेस्साओ वाणमंतरीदेवीओ असंखेजगुणाओ, काउलेस्साओ असंखेज्जगुणाओ, नीललेस्साओ विसेसाहियाओ, कण्हलेस्साओ विसेसाहियाओ, तेउलेस्साओ जोइसिणीओ देवीओ संखेज्जगुणाओ। (एएसि णं भंते ! भवणवासीणमित्यादि) तत्र सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, पद्मलेश्या असंख्येयगुणाः, तेजोलेश्या असंख्येयगुणाः, इत्यत्र भावनाऽनन्तरमेव कृता / तेभ्योऽपि भवनवासिनो देवास्तेजोलेश्याका असंख्येयगुणाः / कथमिति चेत् ? उच्यतेअगुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावान् प्रदेशराशिस्तावत्प्रमाणो भवनपतिदेवीसमुदायः, तगतकिश्चिदूनद्वात्रिंशत्तमभागकल्पाः भवनपतयो देवास्तत इमे प्रभूता इति घटन्ते सौधर्मेशान-देवेभ्यस्तेजोलेश्याका असंख्येयगुणाः, तेभ्यः कापोतलेश्या भवनवासिन एवासंख्येयगुणाः, अल्पर्द्धिकानामप्यतिप्रभूतानांकापोतलेश्यासम्भवात्। तेभ्योऽपि भवनवासिन एव नीललेश्या विशेषाधिकाः। युक्तिरत्र प्रागेवोक्ता। तेभ्योऽपि वाणमन्तरास्तेजोलेश्याका असंख्येयगुणाः / कथमिति चेत् ? उच्यते- इहासंख्येययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्ये कस्मिन् प्रतरे भवन्ति तावान् व्यन्तरदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरदेवाः, तत इमे भवनपतिभ्योऽतिप्रभूततमा इत्युपपद्यन्ते / कृष्णलेश्येभ्यो भवनपतिभ्यो वाणमन्तरास्तेजोलेश्याका असंख्येयगुणाः, तेभ्योऽपि वाणमन्तरा एव कापोतलेश्याका असंख्येयगुणाः,अल्पर्द्धिकानामपि कापोतले श्या-भावात् / तेभ्योऽपि वाणमन्तरा नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्रापि युक्तिः प्रागुक्ताऽनुसरणीया। तेजोलश्या ज्योतिष्का देवाः संख्येय-गुणाः, यतः षट् पश्चाशदधिका-गुलशतद्वयप्रमाणानि सूचीरूपाणि