________________ अप्पाबहुय(ग) 646 - अभिवानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) अनन्तगुणाः, यतस्तिर्यग्लोकस्य यत्सर्वोपरितनमेकप्रादेशिकं प्रतरं यचो_लोकस्य सर्वाधस्तनमेकप्रादेशिकं प्रतरमेते द्वे अपि प्रतरे ऊर्ध्वलोकतिर्यग्लोक उच्यते। ते चाऽनन्ताःसंख्येयप्रदेशिकाः, अनन्ता असंख्येयप्रदेशिकाः, अनन्ता अनन्तप्रदेशिकाः स्कन्धाः स्पृशन्तीति द्रव्यार्थतया अनन्तगुणाः / तेभ्योऽधोलोकतिर्यग्लोके प्रागुक्तप्रकारेण प्रतरद्वयरूपे विशेषाधिकाः, क्षेत्रस्य आयाम-विष्कम्भाभ्यां मनाम् विशेषाधिकत्वात्। तेभ्यस्तिर्यग्लोके असंख्येयगुणाः, क्षेत्रस्याऽसंख्येयगुणत्वात् / तेभ्य ऊर्ध्वलोके असंख्येयगुणाः, यतस्तिर्यग्लोकक्षेत्रादूर्ध्वलोकक्षेत्रमसंख्येय-गुणमिति / तेभ्योऽधोलोके विशेषाधिकाः, ऊर्ध्वलोकादधोलोकस्य विशेषाधिकत्वात् / देशोनसप्तरज्जुप्रमाणो ह्यूलोकः, समधिकसप्तरज्जुप्रमाणस्त्वधोलोकः / संप्रति दिगनुपातेनाऽल्पबहुत्वमाहदिसाणुवाएणं सव्वत्थोवा पोग्गला उडदिसाए, अहोदिसाए विसेसाहिया, उत्तरपुरच्छिमेणं दाहिण-पञ्चच्छिमेण य दोवि तुल्ला असंखेज्जगुणा, दाहिण-पुरच्छिमेणं उत्तरपचच्छिमेण य दोवि तुल्ला विसेसाहिया, पुरच्छिमेणं असंखेजगुणा, पञ्चच्छिमेणं विसेसाहिया, दाहिणेणं निसेसाहिया, उत्तरेणं विसेसाहिया। दिगनुपातेन दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोका ऊर्ध्वदिशि, इह रत्नप्रभासमभूमितलमेरुमध्ये अष्टप्रादेशिको रुचकस्तस्माद्विनिर्गताश्चतुःप्रदेशाः, ऊर्ध्वा दिक् यावल्लोकान्तः / ततस्तत्र सर्वस्तोकाः पुद्गलाः, तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति / चतुःप्रदेशा यावल्लोकान्तस्ततस्तस्याविशेषाधिकत्वात् / तत्र पुद्गला विशेषाधिकाः, तेभ्य उत्तरपूर्वस्यां दक्षिणपश्चिमायां च प्रत्येकमसंख्येय-गुणाः, स्वस्थाने तु परस्परंतुल्याः सन्तस्ते द्वे अपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसं स्थिते तिर्यग्लोकान्तमधोलोकान्तमूर्ध्वलोकान्तपर्यवसिते, तेन क्षेत्रस्याऽसंख्येयगुणात्यात्तत्र पुद्गला असंख्येयगुणाः, क्षेत्रं तु स्वस्थाने सममिति पुद्गला अपि स्वस्थाने तुल्याः, तेभ्योऽपि दक्षिणपूर्वस्यामुत्तरपश्चिमायां च प्रत्येक विशेषाधिकाः, स्वस्थाने तु परस्परं तुल्याः। कथं विशेषाधिका इति चेत् ? उच्यते- इह सौमनसगन्धमादनेषु सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतो व नव, तेषु च कूटेषु धूमिकावश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति, ततो विशेषाधिकाः। स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात्तुल्याः। तेभ्यः पूर्वस्यां दिशि असंख्येयगुणाः, क्षेत्रस्यासंख्येयगुण-त्वात् / तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलानामवस्थानभावात् / तेभ्यो दक्षिणस्यां विशेषाधिकाः, बहुभवनशुषिरभावात् / तेभ्य उत्तरस्यां विशेषाधिकाः, यत उत्तरस्यामायामविष्कम्भाभ्यां संख्येययो-जनकोटीकोटिप्रमाणं मानसं सरः, तत्र ये जलचराः, पनकशै-वालादयश्व सत्त्वास्ते अतिबहव इति तेषां ये तैजसकार्मणपुद्गलास्ते अधिकाः प्राप्यन्ते, इति पूर्वोक्तेभ्यो विशेषाधिकाः। तदेवं पुद्गलविषयमल्पबहुत्वमुक्तम्। इदानीं सामान्यतो द्रव्यविषयं क्षेत्रानुपातेनाऽऽहखेत्ताणुवाएणं सव्वत्थोवाइं दवाइं तेलुक्के, उड्डलोयतिरियलोए अणंतगुणाई. अहोलोयतिरियलोए विसेसाहियाई, उनुलोए असंखेजगुणाई, अहोलोए अणंतगुणाई, तिरियलोए संखिजगुणाई। क्षेत्रानुपातेन चिन्त्यमानानि द्रव्याणि सर्वस्तोकानि त्रैलोक्यसंस्पशीनि, यतो धर्मास्तिकायाऽधर्मास्तिकायाऽऽका-शास्तिकायद्रव्याणि पुद्गलास्तिकायस्य महास्कन्धा जीवा-स्तिकायस्य मारणान्तिकसमुद्घातेनातीवसमवहता जीवा-स्त्रैलोक्यव्यापिनः, ते चाऽल्पे इति सर्वस्तोकानि। तेभ्यऊर्ध्व-लोकतिर्यग्लोके प्रागुक्तस्वरूपप्रतरद्वयात्मके अनन्तगुणानि, अनन्तैः पुद्गलद्रव्यैरनन्तैर्जीवद्रव्यैः तस्य संस्पर्शनात्। तेभ्योऽधोलोकतिर्यग्लो के विशेषाधिकानि, ऊर्ध्वलोकतिर्यग्लोकादधोलोकतिर्यग्लोकस्यमनाग विशेषाधिकत्वात्। तेभ्य ऊर्ध्यलोके असंख्येयगुणानि, क्षेत्रस्याऽसंख्येयगुणत्वात् / तेभ्योऽधोलोके अनन्तगुणानि / कथमिति चेत् ? उच्यते-इहाऽधोलौकिकग्रामेषु कालोऽस्ति, तस्य च कालस्य तत्तत्परमाणुसंख्येयाऽसंख्येयाऽनन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसंबन्धवशात्प्रतिपरमाण्वादिद्रव्यमनन्तता, ततो भवन्त्यधोलोके-ऽनन्तगुणानि, तेभ्यस्तिर्यग्लोकेऽसंख्येयगुणानि, अधोलौकिक-ग्रामप्रमाणानां खण्डानां मनुष्यलोके कालद्रव्याधारभूते संख्ये-यानामदाप्यमानत्वात्। साम्प्रतं दिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वमाहदिसाणुवाएणं सव्वत्थोवाइं दव्वाइं अहोदिसाए, उड्ढदिसाए अणंतगुणाई, उत्तरपुरच्छिमेणं दाहिणपचच्छिमेणं दोवितुल्लाई असंखेज्जगुणाई, दाहिणपुरच्छिमेणं उत्तरपचच्छिमेण य दोवि तुल्लाइं विसेसाहियाई, पुरच्छिमेणं असंखेजगुणाई, पञ्चच्छिमेणं विसेसाहियाइं, दाहिणेणं विसेसाहियाई, उत्तरेणं विसेसाहियाई। दिगनुपातेन दिगनुसारेण चिन्त्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकानि अधो दिशि प्राग्व्यावर्णितस्वरूपायाम् / तेभ्य ऊर्ध्वदिश्यनन्तगुणानि। किं कारणमिति चेत् ? उच्यते- इह ऊर्ध्वलोके मेरोः पञ्चयोजनशतकं स्फटिकमयं काण्डं, तत्रचन्द्रादित्यप्रभाऽनुप्रवेशाद् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीत्या प्रतिपरमाण्वादिद्रव्यमानन्त्यात् / तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां, दक्षिणपश्चिमायां, नैर्ऋतकोणे इत्यर्थः / असंख्येयानि, क्षेत्रस्यासंख्येयगुणत्वात्। स्वस्थाने तुद्वयान्यपि परस्पर तुल्यानि, समानक्षेत्रत्वात्। तेभ्यो दक्षिणपूर्वस्यामाग्नेय्याम, उत्तरपश्चिमायां, वायव्यकोणे इति भावः। विशेषाधिकानि, विद्युत्प्रभमाल्यवन्तकूटाश्रितानां धूमिकावश्यायादिश्लक्ष्णपुद्गलद्रव्याणां बहूनां सम्भवात्। तेभ्यः पूर्वस्यां दिशि असंख्येयगुणानि, क्षेत्रस्यासंख्येयगुणत्वात् / तेभ्यः पश्चिमायां विशेषाधिकानि, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलद्रव्याणामवस्थानात् / ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभवनशुषिरभावात्। तत उत्तरस्यां विशेषाधिकानि, तत्र मानससरसि जीवद्रव्याणां तदाश्रितानां तैजसकार्मणपुद्गलस्कन्ध-द्रव्याणां च भूयसां भावात्। सम्प्रति परमाणुपुद्गलानां संख्येयप्रदेशानामसंख्येयप्रदेशानामनन्तप्रदेशानां परस्परमल्पबहुत्वमाहएएसिणं भंते ! परमाणुपोग्गलाणं संखेञ्जपदेसियाणं असंखेञ्जपदेसियाणं अणंतपदेसियाण य खंधाणं दव्वट्ठयाए