________________ अधिगरण 572 - अभिधानराजेन्द्रः - भाग 1 अधिगरण क्षामितं विनाशमितं, विनाशितं क्षपितमिति च एकार्थानि पदानि भवन्ति / तथा- प्राभृतं प्रहेणकं प्रणयनमितिवात्रीण्यप्येकार्थानि / तानि तु प्राभृतादीनि नरकस्य मन्तव्यानि / यत एतदधिकरणं नरकस्य सीमन्तकादेशप्राभृतमुच्यते / एवं प्रहेणक प्रणयनपदे अभिभावनीये। इच्छा न जिणादेसो, आढा उण आदरो जहा पुट्विं / भुंजण वास मणुन्ने, सेस मणुण्णे च इतरे वा / / इच्छा नाम जिनादेशस्तीर्थकृतामुपदेशोऽयमिति कृत्वा नादरादीनि पदानि करोति, किं त्वसच्छब्देन / तथा आढा नाम आदरस्तं यथा पूर्वमुचितालापादिभिः कृतवाँस्तथा कुर्याद्वा न वा; शेषाणि त्वभ्युत्थानादीनि सुगमानीतिकृत्वा भाष्यकृता न व्याख्यातानि। अत्र च संभोजनसंवासनपदे मनोज्ञेषु सांभोगिकेषु भवतः, शेषाणि त्वादराभ्युत्थानवन्दनोपशमनपदानि मनोज्ञेषु वा सांभोगिकेषु, इतरेषु वा असांभोगिकेषु भवेयुः / कृता भाष्यकृता विषमपदव्याख्या / बृ० १उ०। (5) अधिकरणोत्पत्तिकारणानिअथ कथं तदुत्पद्यते? इत्याशङ्कावकाशमवलोक्य तदुत्थानकारणानि दर्शयतिसञ्चित्ते य अचित्ते, मीसवओगयपरिहारदेसकहा। सम्मंणाउट्टत्ते, अहिगरणमओ समुप्पजे / / सचित्ते शैक्षादौ, अचित्ते वस्त्रपात्रादौ, मिश्रके स्वभाण्ड-मात्रकोपकरणैः शिक्षादौ, अनासेव्ये अपरेण गृहामाणे, तथा वचोगत व्यत्यानेडितादि। तत्र चाविधीयमाने परिहारः स्थापना, तदुपलक्षितानि यानि कुलानि तेषु प्रवेशे क्रियमाणे देशकथायां वा विधीयमानायां एतेषु स्थानेषु प्रतिनोदितो यदि सम्यङ्नावर्तते न प्रतिपद्यते; अतोऽधिकरणमुत्पद्यत इति नियुक्ति गाथा-समासार्थः / अथैनामेव विवृणोतिआमव्वमदेमाणे, गिण्हतं तहेव मग्गमाणे य। सचित्तेतरमीसे, वितहपडिवत्तिओ कलहो।। आभाव्यं नाम शैक्षं, शैक्षः कस्याप्याचार्यस्योपतस्थे, प्रव्रज्यां गृह्णामीति / तमुपस्थितं मत्वा विपरिणमय्य परः कश्चिदाचार्यो गृह्णाति / ततो मूलाचार्यों ब्रवीति- किमिति मदीयमाभाव्यं गृह्णासि ? पूर्वगृहीतं वा शैक्षादिकं याचितो मदीयमाभाव्यं किं न प्रयच्छसीति ? एवमाभाव्यं सचित्तमचित्तं मिश्रं वा तत्काल-गृह्यमाणं पूर्वगृहीतं वा मार्यमाणमपि यदा वितथप्रतिपत्तितो न ददाति, तदा सकलहो भवति। वितथप्रतिपत्तिर्नाम परस्याभाव्यमपि शैक्षादिकमना-भाव्यतया प्रतिपद्यते। वचनोगतद्वारमाहवेचामेलण सुत्ते, देसीभासा पवंचणे चेव / अन्नम्मि यवत्तव्वे, हीणाहियअक्खरे चेव / / सूत्रे सूत्रविषये, व्यत्यामेडना अपरापरोद्देशकाध्ययनश्रुतस्कन्धेषु घट्टनाऽऽलापकश्लोकादीनां योजना / यथा - "सव्वे जीवा वि इच्छंति, जीविउंन मरिजिउं'' इत्यत्रेदमालापकपदं घटते ''सव्वे पाणपिया उ" इत्यादि / तथाभूतं सूत्रं परावर्तयन् किमेवं सूत्र व्यत्यामेडयसीति प्रतिनोदितो यदि न प्रतिपद्यते तदाऽधिकरणं भवति / देशीभाषा नाम मरुमालवमहाराष्ट्रादिदेशानां भाषातोऽन्यत्र देशान्तरे भाषमाण उपहस्यते, उपहस्यमानश्च संखडं करोति।यद्वा-प्रपञ्चनं वचनानुकारेण वा करोति, ततः प्रपञ्च्यमानः साधुना सहाधिकरणमुत्पद्यते। अन्यस्मिन् वा वक्तव्ये कोऽप्यन्यद्वक्ति। यद्वा-हीनाक्षरमधिकाक्षरं वा पदं वक्ति। तत्र हीनाक्षरं भास्कर इति वक्तव्ये भाकर इति वक्ति। अधिकाक्षरं सुवर्णमिति वक्तव्ये सुसुवर्णमिति ब्रवीति / परिहारकद्वारमाहपरिहारियमठविते, ठवियमणट्ठाएँ णिव्विसंते वा। कुच्छियकुले य पविसइ, वा जइ णाउट्टणे कलहो। गुरुग्लानबालादीनां यत्र प्रायोग्यं लभ्यते, तानि कुलानि पारिहारिकाण्युच्यन्ते, एकं गीतार्थसंघाटकं मुक्त्या शेषसंघाटकानां परिहारमहन्तीति व्युत्पत्तेः / तानि यदि न स्थापयति, स्थापितानि वा अनर्थ निष्कारण निर्विशति, प्रविशतीत्यर्थः / यद्वा-पारिहारिकाणि नाम कुत्सितानि जात्यादिजुगुप्सितानीति भावः / तेषु कुलेषु प्रविशति / एतेषु स्थानेषु यदि नावर्त्तते न वा तेषु प्रवेशादुपरमते, ततः कलहो भवति। देशकथादेसकहा परिकहणे, एक्के एक्के व देसरागम्मि। सोरट्ठदेस एगे, दाहिण बीयम्मि अहिगरणं। नवर्त्तते साधूनामीदृशीं कथां कथयितुम्। स प्राह-कोऽसि त्वं ? येनैव मां वारयसि / तथाऽप्यस्थिते अनुपरते सत्यधिकरणं भवति / यद्वा - (एक्कक्के व देसरागम्मि त्ति) एकः साधुः सुराष्ट्र वर्णयति, यथा रमणीयः सुराष्ट्रो विषयः / द्वितीयः प्राह- कूपमण्डूक ! त्वं किं जानासि ? दक्षिणापथ एव प्रधानो देशः / एवमेकैकदेशरागेणोत्तरप्रत्युत्तरिकं कुर्वाणयोरधिकरणं भवति / बृ० 1 उ० / नि० चू०। (6) उत्पन्ने च व्युपशमनीयमेव, नोपेक्षणीयम्। एवमुत्पन्ने अधिकरणे किं कर्त्तव्यम् ?, इत्याहजो जस्स उ उवसमई, विज्झवणं तस्स तेण कायव्वं / जो उ उवेहं कुज्जा, आवजइ मासियं लहुगं / / यः साधुर्यस्य साधोः प्रज्ञापनया उपशाम्यति तस्य तेन साधुना विध्यापनं क्रोधाग्निनिर्वापणं कर्तव्यम् / यः पुनः साधुरुपेक्षां कुर्यात, स आपद्यते मासिकं लघुकम्। लहुओ उ उवेहाए, गुरुओ सो चेव उवहसंतस्स। उत्तुयमाणा लहुगा, सहायगत्ते सरिसदोसा।। उपेक्षां कुर्वाणस्य लघुको मासः; उपहसत एव मासो गुरुकः / अथ उत्प्राबल्येन तुदति अधिकरणं करोति, विशेषत उत्तेजयतीत्यर्थः / ततश्चत्वारो लघुकाः / अथ कलहं कुर्वतः सहायकत्वं साहाय्यं करोति, ततोऽसावधिकरणकृता सह सदृशदोष इति कृत्वा सदृशं प्रायश्चित्तमापद्यते, चतुर्गुरुकमित्यर्थः / तथा चाऽऽहचउरो चउगुरु अहवा, विसेसिया होंति मिक्खुमाईणं। अहवा चउगुरुगादी, हवंति उच्छेदनिट्ठवणा॥ भिक्षुवृषभोपाध्यायाचार्याणामधिकरणं कुर्वतां प्रत्येकं चतुर्गुरुकम्, ततश्चत्वारश्वतुर्गुरुका भवन्ति / अथवा त एव चतुर्गुरुकाः,