________________ अणुओग 342 - अभिधानराजेन्द्रः - भाग 1 अणुओग मिखटिका, तत्राणायः क्रियतेऽनुयाधिकरणे एकरि द्रव्यस्यानुयोगो द्विधा-जीवद्रव्यस्यवाअजीवद्रव्यस्य या, एकैकस्मिन् योगे द्रव्यादिकाश्चत्वारो भेदा भवन्ति / किमुक्तं भवति? | जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगो वा प्रत्येकं द्रव्यतः क्षेत्रतः कालतो | भावतश्च भवति। तत्रजीवद्रव्यानुयोगं द्रव्यादित आहदव्वेणेकं खेत्ते, संखातीतप्पदेसमोगाढं। काले अनादिनिहणं, भावे नाणाझ्या ऽणंता॥ द्रव्यतो जीवद्रव्यमेकं, क्षेत्रतोऽसंख्येयप्रदेशावमाद,कालतोऽनाद्यनिधनं, भावतो ज्ञानादिकाः पर्याया अनन्ताः / तथा अनन्ता ज्ञानपर्याया अनन्ताश्चारित्रपर्याय अनन्ता दर्शनपर्याया अनन्ता अगुरुलघुपर्यायाः। अधुना द्रव्यादिभिरजीवद्रव्यस्याऽनुयोगमाहएमेव अजीवस्स वि, परमाणू दव्वमेगदव्वं तु! खेते एगपएसे, ओगाढो सो मवे नियमा। समयाइ ठिति असंखा, ओसप्पिणिओ हवंति कालम्मि। वण्णादि भावऽणंता, एवं दुपदेसमादी वि।। एवमेव अनेनैव प्रकारेण, अजीवद्रव्यस्याप्यनुयोगो वक्तव्यः, तद्यथापरमाणुर्द्रव्यत एक द्रव्यम्, क्षेत्रतः एकप्रदेशावगाढम् कालतो जघन्यतः स्थितिः समयादिरेको द्वौ त्रयो वा / समया-ऽनुकर्षतोऽसंख्यावगाढम्। असंख्येया उत्सर्पिण्योऽवसर्पिण्यश्च भवन्ति / भावतो अनन्ता वर्णादिपर्यायाः। तद्यथा- अनन्ता वर्णपर्यवाः, अनन्ता गन्धपर्यवाः, यावदनन्ताः स्पर्शपर्यवा इति / एवं द्विप्रदेशादेरपि / द्विप्रदेशकस्य यावदनन्तप्रदेशिकस्योपयुज्य वक्तव्यम्। तद्यथा- द्विप्रदेशकः स्कन्धो द्रव्यतः एक द्रव्यं, क्षेत्रतः एकप्रदेशावगाढः, द्विप्रदेशावगाढोवा। कालतो जघन्यतः स्थितिः समयादिरुत्कर्षत असंख्या उत्सर्पिण्योऽवसर्पिण्य एव इत्यादि। अथ द्रव्याणामनुयोग इत्येतद्व्याचिख्यासुराहदव्वाणं अणुओगो, जीवमजीवाण पञ्जवा नेया। तत्थ विय मग्गणाओ,ऽणेगा सहाणपरठाणे। द्रव्याणामनुयोगो द्विधा- जीवद्रव्याणामजीवद्रव्याणां च / किं रूपोऽसावित्याह? पर्यायाः प्ररूप्यमाणा ज्ञेयाः। तथाहि-कतिविधा भदन्त ! पयार्याः प्रज्ञप्ताः ? गौतम ! द्विविधाः / तद्यथाजीवद्रव्याणामजीवद्रव्याणांच। तत्राऽप्यनेकाः स्वस्थाने चपरस्थाने च मार्गणाः / ताश्चैवम्- नैरयिकाणामसुरकुमाराणां च कति पर्यायाः प्रज्ञप्ताः? गौतम ! अनन्ताः / अथ केनाऽर्थे नेदमुच्यते ? गौतम ! नैरयिकोऽसुरकुमारस्य द्रव्यार्थतया तुल्यः, प्रत्येकमेकद्रव्यत्वात्, प्रदेशार्थतयाऽपि तुल्यः, प्रत्येकं लोका-ऽऽकाशप्रदेशत्वात्। स्थित्या चतुःस्थानपतितः, भावतः षट्-स्थानपतितः, ततो भवन्ति नैरयिकाणामसुरकुमाराणां प्रत्येकं पर्याया अनन्ताः। एवमजीवद्रव्याणां पर्याया अपि, एवं स्वस्थाने परस्थाने च मार्गणा। ('परमाणुपोग्गलाणं भंते !' इत्यादि 'पज्जव' शब्देऽभिधास्यते) ततो भवन्ति दयानामपि प्रत्येकमनन्ताः पर्यायाः। एवमनेकधा जीवद्रव्याणामजीवद्रव्याणां चाऽनुयोगः, सूत्रे तत्र तत्र प्रदेशेऽभिहितो भावनीयस्तदेवं द्रव्याणां चेति स्वामित्वं गतम्। इदानी करणे एकत्यबहुत्वाभ्यामनुयोगमाहवतीए अक्खेण व, करंगुलादीण वा विदव्वेण। अक्खेहिं तु दव्वेहिं, अहिगरणे बहुसु कप्पेसु / / वर्ति म खटिका, तत्र या कृता शलाका, तया! अक्षेण वा, कराडल्या वा। आदिशब्दात्प्रलेपकादिना वा यः क्रियतेऽनुयोगः सद्रव्येणानुयोगः। द्रव्यैरनुयोगो यद् बहुभिरक्षैः क्रियतेऽनुयोगः / अधिकरणे एकस्मिन् द्रव्येऽनुयोगो यदा एकस्मिन् कल्पे स्थितोऽनुयोगं करोति, यदा तु बहुषु कल्पेषु स्थितस्तदा द्रव्येषु अनुयोगः। उक्तो द्रव्यानुयोगःषड्भेदः। वृ०१ उ०ा विशेष स्था०1 ('दशविहेदवियाणुओगे' इति 'दव्यानुओग' शब्दे व्याख्यासहितं सूत्रम्) (6) सम्प्रति क्षेत्रस्य क्षेत्राणां वाऽनुयोगमाहपण्णति-जंबूदीवे,खेत्तस्सेमाइ होइ अणुओगो। खेत्ताणं अणुओगो, दीवसमुद्दाण पण्णती॥ क्षेत्रस्याऽनुयोगः क्षेत्रानुयोग एवमादिको भवति / कः? इत्याह-(पण्णतिजम्बूदीवेत्ति)जम्बूद्वीपप्रज्ञप्तिरित्यर्थः / जम्बूद्वीपलक्षणकक्षेत्रव्याख्यानरूपत्वात्तस्याः / बहूनां तु क्षेत्राणामनुयोगो द्वीपसागरप्रज्ञप्तिर्भवति।बहूनां द्वीपसमुद्रक्षेत्राणांतत्र व्याख्याना-दिति / तदेवं क्षेत्रस्य क्षेत्राणामनुयोग इत्युक्तम्। अथ क्षेत्रेण क्षेत्रैरनुयोग इत्येतदाह - जंबूदीवपमाणं, पुढविजिवाणं तु पत्थयं काउं। एवमसंखिज्जमाणा, हवंति लोगा असंखेजा / / खेत्तेहिं बहुदीवे, पुढविजिवाणं तु पत्थयं काउं। एवमसंखिज्जमाणा, हवंति लोगा असंखेज्जा। इह जम्बूद्वीपप्रमाणं प्रस्थकं पल्यं कृत्वा पुनस्तद्भरण-विरेचनक्रमेण यदा सर्वेऽपि सूक्ष्मबादरपृथ्वीकायिका जीवा मीयन्ते, तदा असंख्येयलोकाकाशप्रदेशसंख्योपेता जम्बूद्वीपप्रमाणाः प्रस्था भवन्तीत्येष क्षेत्रेण जम्बूद्वीपरूपेणानुयोगोऽभिधीयत इति / क्षेत्रस्त्वनुयोगोऽयं द्रष्टव्यः / तद्यथा- बहुद्वीप-प्रस्थकं कृत्वाऽभीक्ष्णं तद्भरणविरेचनक्रमेण समस्तपृथ्वी-कायिकजीवा मीयमाना असङ्ख्येयलोकाकाशप्रदेश-राशिपरिमाणा बहुद्वीपमानप्रस्था भवन्ति / एतदसंख्येयकं पूर्वस्माल्लधुतरं द्रष्टव्यम् / प्रस्थस्येह बृहत्तरत्वादेष बहुद्वीपलक्षणैः क्षेत्रैरनुयोग इति / अथ क्षेत्रे क्षेत्रेषु चाऽनुयोगमाहखेत्तम्मि उ अणुओगो, तिरियं लोगम्मि जम्मि वा खेत्ते / अड्डाइयदीवेसुं.अद्धछवीसाइखेत्तेसुं॥ क्षेत्र पुनरयमनुयोगः, तथा तिर्यग्लोकक्षेत्रे योऽनुयोगः प्रवर्तते यत्र वा ग्रामनगरादौ व्याख्यानसभादौ वा क्षेत्रे स्थितोऽनुयोग-कर्ताऽनुयोगं करोत्येष क्षेत्रेऽनुयोगः क्षेत्राऽनुयोग उच्यते / क्षेत्रेष्यनुयोगः कः? इत्याहयोऽर्द्ध तृतीयद्वीपसमुद्रान्तर्वर्ति क्षेत्रेषु वर्तते सार्द्ध-(अपार्ध) षड्विंशतिजनपदरूपेषु वा आर्यक्षेत्रे-ष्विति। उक्तः क्षेत्रानुयोगः। (7) अधुना कालस्य कालानां चाऽनुयोगमाहकालस्स समयरूवण, कालाण तदाइजाव सव्वद्धा। कालेणऽनिलऽवहारो, कालेहिं उसेसकायाणं / / कालस्याऽनुयोगः, कः? इत्याह - (समयरूवण त्ति) उत्पल पत्रशतभेदपशाठिकापाटनादिदृष्टान्तैःसमयस्यप्ररूपणा इत्यर्थः। कालानां त्वनुयोगः - (तदाइ जाव सव्वद्धत्ति) समय-मादौ कृत्वा यावत् सर्वाद्धायाः प्ररूपणेत्यर्थः / कालेणा-ऽनुयोगोऽनिलाऽपहारः / इदमुक्तं भवतिबादरपर्याप्तवायुकायिका वैक्रियशरीरे वर्तमाना अर्धपल्योपमस्याऽसंख्येय