________________ अजवइर 219 - अभिधानराजेन्द्रः - भाग 1 अजसेणिय जृम्भकैः कृतसंगीतः, पद्ममूले स्वयं स्थितः।।१३८।। व्योम्ना पुर्या उपर्यागादूचिरे सौगतास्ततः। अहो ! अस्मत्प्रातिहार्य, देवा अप्याययुर्दिवः।।१३६।। तद्विहारमथोल्लङ्घ्य, गतास्ते चैत्यमर्हतः। तन्माहात्म्यं नृपः प्रेक्ष्य, सपौरोऽप्याहतोऽभवत्॥१४०।। उक्तमेवार्थमाहमाहेसरीउ सेसा, पुरिअंनीआ हुआसणगिहाओ। गयणतलमइवइत्ता, वइरेण महाणुभावेण // 1 // माहेश्वर्या नगर्याः सकाशात् सस्वामिकात्नत्वरण्यादेर-स्वामिकात् प्रस्तावात्पुष्पसंपदिति ज्ञेयम्। वज्रेण महानुभावेन हुताशनव्यन्तरगृहभूताऽऽरामात् गगनतलमतिव्यतीत्य अतिशयेन उल्लङ्घय पुरिकां पुरीनाम्नी नगरी नीता, एवं विहरन् वज्रस्वामी श्रीमालपुरं गतः। इयन्तं कालं यावदनुयोगस्यापृथक्त्वमासीत् ततः पृथक्त्वमभूदित्याह"अपुहत्ते अनुओगो, चत्तारि दुवारभासए एगो। पुहत्ताणुओगकरणे, ते अत्थ तओ अवुच्छिन्ना" ||1|| आ०का आ०म०|आ०चू०। विशे० पंचा०।ओघा ध०र०। कल्प० / तं०।(अस्य वज्रस्वामिनोऽनशनं कृत्वा देवलोकगमनं 'अज्जरक्खिय' शब्देऽत्रैवभागे 212 पृष्ठे उक्तम्) अस्य वज्रस्वामिनो जन्म (वि०सं०२६) (सर्वायु:५८) (वि०सं०११४वर्षे) स्वर्गं गतः। जै०इ० // अत्र काव्यानि"मोहाब्धिश्चुलुकीचक्रे, येन बालेन लीलया। स्त्रीनदीस्नेहपूरस्तं वर्षि प्लावयेत्कथम् ?" ||1|| आ०का 'वंदामि अजधम्म, तत्तो वंदे य भद्दगुत्तं च। तत्तोय अजवइरं, तवनियमगुणेहिं वयरसमं''। नं० समजनि यजस्वामी, जृम्भकदेवार्पितस्फुर-द्विद्यः / बाल्येऽपि जातजातिस्मृतिः प्रभुश्चरमदशपूर्वी / / 1 / / ग० 4 अधि०। अस्याचार्यस्य शिष्यसम्पद्थेरस्सणं अज्ज- वइरस्स गोयमसगोत्तस्स अंतेवासी थेरे अज्जवइरसेणे उको-सियगोत्ते। थेरे अजपउमे थेरे अज्जरहे। कल्प० (तीर्थोद्गालिकमत एतन्मरणे स्थानाङ्गव्युच्छेदः) तेरसवरिससएहिं पण्णासासमहिएहि वोच्छेदो। अज्जवइरस्स मरणे,ठाणस्स जिणेहिं निहिहो // 1 // ति० अज्जवइरसेण-पुं०(आर्यवज्रसेन) आर्यवज्रस्य शिष्ये, कल्प०। अज्जवइरी-स्त्री०(आर्यवजी) आर्यवज्रान्निःसृतायां शाखायाम, "थेरेहिंतो णं अज्जवइरेहिंतो णं गोयमसगोत्तेहिंतो इत्थ णं अज्ज-वइरी साहा णिग्गया" / कल्प। अज्जवट्ठाण-न०(आर्जवस्थान) आर्जवं संवरस्तस्य स्थानानि भेदा | आर्जवस्थानानि। साध्वार्जवादिषु संवरभेदेषु, पंच अज्जवट्ठाणा पण्णत्ता / तं जहा-साहुअज्जवं साहुमहवं साहुलाघवं साहुखंती साहुमोत्ती। साधुसम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं मायानिग्रहस्ततः कर्मधारयः, साधोर्वा यतेरार्जवं साध्वार्जवम्। एवं शेषाण्यपि। स्था०५ ठा०१ उ०। अज्जवप्पहाण-त्रि०(आर्जवप्रधान) मायोदयनिग्रहप्रधाने। औ०। अजवभाव-पुं०(आर्जवभाव) अशठतायाम्, "मायंचज्जवभावेणं''। द० 8 अ०) अजवया-स्त्री०(आर्जवता) मायावर्जनात्मके श्रमणभेदे,पा०। अस्याः फलम् , यथा चोत्तराध्ययने - अजवयाए णं भंते ! जीवे किं जणयइ? अकिंचणाएणं काउज्जुययं भासुजुययं अविसंवायणं जणयइ / अविसंवायणसंपण्णयाए जीवे धम्मस्स आराहए भवइ॥४२॥ लोभाविनाभाविनी च मायेति तदभावेऽवश्यं भावार्जवमतः तदाह(अजवयाए त्ति) सूत्रत्वाद् ऋजुरवक्र स्तद्भाव आर्जवम्, तेन मायापरिहाररूपेण कायेन, ऋजुरेव ऋजुकः कायऋजुकः, तद्भावस्तत्ता, कुब्जादिवेषभूविकाराधकरणतः प्राञ्जलिता, ताम् तथा भावोऽभिप्रायस्तस्मिस्तेन वा ऋजुकता भावऋजुकता, यदन्यदविचिन्तयन् लोके भक्त्यादिनिमित्तमन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा, एवं भाषायामृजुकता भाषर्जुकता, यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथाऽविसंवादनं पराविप्रतारणं जनयति, तथा विधिश्चाविसं-वादनसम्पन्नतयोपलक्षणत्वात् कायर्जुकतादिसम्पन्नतया चजीवो धर्मस्याऽऽराधको भवति, विशुद्धाऽध्यवसायत्वेनाऽन्य-जन्मन्यपि तदवातेः। उत्त० 26 अ०| अजविय-न०(आर्जव)मायावक्रतापरित्यागात् / आचा०। अमायित्वे, सूत्र०२ श्रु०१ अग अजवेडय-न०(आर्यवटक) श्रीगुप्ताद् हारीतसगोत्रात् निःसृतस्य चारणगणस्य षष्ठे कुले, कल्प अजसमिय-पुं०(आर्यसमित) आर्यवज्रस्वामिमातुः सुनन्दाया भ्रातरि आर्यसिंहगिरिशिष्ये, कल्प०। आ०म०द्वि०। आ०चू०। येन योगप्रभावादचलपुरा-सन्नब्रह्मद्वीपे पादलेपेन जलोपरि गच्छन्तं तापसं जित्वा तं सानुगं प्रव्राज्य ब्रह्मद्वीपिका शाखा निर्गमिता / कल्प०('बंभदीविया' शब्दे वक्ष्यामि) अज्जसमुद्द-पुं०(आर्यसमुद्र) उदधिनामनि आचार्यभेदे, जनाबल परिक्षीणानामुदधिनाम्नामार्यसमुद्राणाम पराक्रमं मरणमभूदिति वृद्धप्रसिद्धिः / आचा०१ श्रु०८ अ० 1 उ०। अज्जसाम-पुं०(आर्यश्याम) आरात् सर्वहेयधर्मेभ्यो यातः प्राप्तो गुणैरित्यार्यः, स चासौ श्यामश्च आर्यश्यामः / प्रज्ञापनाकृतिकालकाचार्यनामके आचार्य, प्रज्ञापनासूत्रकरणप्रयोज- नादि तदुपक्रम एवोक्तम्- "वायगवरवंसाओ, तेवीसइमेण धीरपुरिसेण / दुद्धररयेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं'' ||3|| "सुयसागरा विएऊण जेण सुयरयणमुत्तमं दिण्णं / सीसगणस्स भगवओ, तस्स णमो अज्जसामस्स" // 42 // ('पण्णवणा' शब्दे चैतद्व्याख्यास्यते) अज्जसुहत्थि(ण)-पुं०(आर्यसुहस्तिन्) आर्यस्थूलभद्रस्य शिष्ये स्थविरे, आव० 4 अ०। यैरार्यसुहस्तिभिर्दीक्षितो द्रमको मृत्वा सम्प्रति नामा राजाऽभूत्। कल्प०)('संपइ' शब्देऽस्य कथानकम्) अन्जसुहम्म(ण)-पुं०(आर्यसुधर्मन्) श्रमणस्य भगवतो महावीरस्य पञ्चमे गणधरे, तत्स्वरूपं चेदम्- कुल्लागसन्निवेशे धम्मिल्लविप्रस्य भार्या भदिला, तयोः सुतश्चतुर्दशविद्यापात्रम्। पञ्चाशद्वर्षान्ते प्रव्रजितः। त्रिंशद्वर्षाणि वीरसेवा कृता वीर-निर्वाणाद् द्वादशवर्षान्ते जन्मतो द्विनवतिवर्षान्ते च केवलम् / ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुषं जम्बूस्वामिनं स्वपदे संस्थाप्य शिवं गतः। अन्त० 1 वर्ग। अणु०। सा अजसेणिय-पुं०(आर्यसैनिक) आर्यशान्तिसैनिकस्य द्वितीये शिष्ये, कल्प।