________________ अहिंसा 877 - अभिवानराजेन्द्रः - विभाग 1 अहिंसा भण्डाऽऽदाननिक्षेपणासमितिरिति वाच्ये, आदानभाण्डनिक्षेपणासमितिरित्युक्तम्। प्रश्न०१ संव०द्वार। अहावरा पंचमा भावणा- आलोइयपाणभोई, से णिग्गंथे णो अणालोइयपाणभोयणमोई। केवली बूयाअणालोइयपाणभोयणभोई से णिग्गंथे पाणातिवा० 4 अभिहणेज्ज वा० जाव उद्दवेज वा / तम्हा आलोइयपाणभोयणभाई से णिग्गंथे, णो अणालोइयपाणभोइ त्ति पंचमा भावणा। तथा परा पञ्चमी भावना- आलोकितं प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसंभवात्। आचा०१ श्रु०३चूत। अथाऽध्ययनाऽर्थ निगमयन्नाहएवमियं संवरस्स दारं समं संचरियं हुंति, सुप्पणिहियं, इमेहिं पंचर्हि विकारणाहिंमणवयकायपरिरक्खिएहिं, निचं आमरणंतं च एस जोगो नियव्वो धितिमता मतिमता अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठोसुद्धोसव्वजिणमणुण्णातो, एवं पढमं संवरदारं फासियं पालियं सोहियं तिरिय किट्टियं आराहियं आणाए अणु-पालियं भवति, एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्ध सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं पढमं संवरदारं सम्मत्तं तिबेमि। एवमिति उक्तक्रमेण, इदमहिंसालक्षणं, संवरस्याऽनाश्रवस्य, द्वारमुपायः, सम्यक् संवृत्तम् आसेवितं भवति, किंविधं सद् ? इत्याहसुप्रणिहितं सुप्रणिधानवत्, सुरक्षितमित्यर्थः / कैः किंविधैः ? इत्याहएभिः पञ्चभिः कारणैः भावनाविशेषैः अहिंसापालनहेतुभिः, मनोवाक्कायपरिरक्षिभिरिति / तथा-नित्यं सदा आमरणान्तं च मरणरूपमन्तं यावत् मरणात् परतो-ऽप्यसम्भवात्, एष योगोऽनन्तरोदितभावनापञ्चकरूपो व्यापारो, नेतव्यो, वोढव्य इति भावः। केन? धृतिमता स्वस्थचित्तेन, मतिमता बुद्धिमता / किं भूतोऽयं योगः ? अनाश्रवः नवकर्माऽनुपादानरूपः, यतो-इकलुषोऽपापस्वरूपः, छिद्रमिव छिद्रं कर्मजलप्रवेशात् तन्निषेधेना-ऽच्छिद्रः, अच्छिद्ररूपत्वादेवाऽपरिस्रावी, नपरिस्रवति कर्मजलप्रवेशतः,असंक्लिष्टोन चित्तसंक्लेशरूपः, शुद्धो निर्दोषः, सर्वजिनैरनुज्ञातः सर्वाऽर्हतामनुमतः, एवमितीर्यासमित्यादि-भावनापञ्चकयोगेन, प्रथमं संवरद्वारमहिंसालक्षणं, (फासियंति) स्पृष्टमुचिते काले विधिना प्रतिपन्नं, पालितं सततं सम्यगुपयोगेन प्रतिचरितं, (सोहियं ति) शोभितमन्येषामपितदुचिताना दानादतिचारवर्जनाद्वा, शोधितं वा निरतिचारं कृतं, तीरितं तीरं पारं प्रापितं, कीर्तिमन्येषामुपदिष्टम्, आराधितमेभिरेव प्रकारैर्निष्ठां नीतम्, आज्ञया सर्वज्ञवचनेनाऽनुपालितं भवति। पूर्वकालसाधुभिः पालितत्वाद् विवक्षितकालसाधुभिश्वाऽनु पश्चात् पालितमिति / केनेदं प्ररूपितम् ? इत्याह- एवमित्युक्तरूपं, ज्ञातमुनिना क्षत्रियविशेषरूपेण यतिना, श्रीमन्महावीरेणेत्यर्थः / भगवतैश्वर्यादिभगयुक्तेन, प्रज्ञापितं सामान्यतो विनेयेभ्यः कथितं, प्ररूपितं भेदाऽनुभेद-कथनेन, प्रसिद्धं प्रख्यातं, सिद्धं प्रमाणप्रतिष्ठितं, सिद्धानां निष्ठितार्थानां वरशासनं प्रधानाज्ञा सिद्धवरशासनम्, इदमेतत्- (आघ-वियंति)अर्घः पूजा तस्य आप्तिः प्राप्तिर्जातायस्य तदर्घा-पितम्, अर्थ वा आपितं प्रापितं यत्, तदर्थापितं, सुदेशितं सुष्टु दर्शितं, सदेवमनुजाऽसुरायां पर्षदि नानाविधनयप्रमाणैरभिहितं सुदेशितं, प्रशस्तं मङ्गल्यमिति, प्रथम संवरद्वार समाप्तमिति। संव०१द्वार। पंचमा भावणा-एतावया च पढमं महव्वयं सम्मं कारण फासिए पालिए तीरिए किट्टिते अवद्विते आणाए आराहिए यावि भवति, पढमे भंते महव्वए पाणाइवायाओ वेरमणं / इति इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रत स्पर्शितं पालितं तीर्ण कीर्त्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति / आचा०२श्रु०३चू०। (7) सर्वे प्राणा न हन्तव्याःसे बेमि-जे य अतीता, जे य पड़प्पण्णा, जे य आगमिस्सा अरहंता भगवंतो / ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एव परूवेंतिसव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ता / ण हंतव्वा,ण आणावेतव्वा, ण परिघेत्तव्वा, ण परितावेयव्वा,ण उद्दवेयव्वा। येऽतीता अतिक्रान्ताः, ये च प्रत्युत्पन्ना वर्तमानकालभाविनः, ये चाऽऽगामिनः, त एवं प्ररूपयन्तीति सम्बन्धः / तत्राऽतिक्रान्तास्तीर्थकृतः कालस्याऽनादित्वादिति यत्, तमतिक्रान्ताः / अनागता अप्यनन्ता आगामिकालस्याऽनन्तत्वादिति / वर्तमानतीर्थकृतां प्रज्ञापकापेक्षितयाऽनवस्थितत्वे सत्यप्युत्कृष्ट-जघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनं सप्तत्युत्तरशतं पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत् क्षेत्रात्मक- त्वादेकैकस्मिन्, द्वात्रिंशत्पश्चस्वपि भरतेषु पञ्च, एवमैरावते-ब्वपीति, तत्र द्वात्रिंशत् पञ्चभिर्गुणिताः षष्ट्युत्तरं शतं भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैव पञ्चस्वपि महाविदेहेषु विदेहान्तर्महानधुभयतटसद्भावात् तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वैकान्त-सुखमादावभाव एवेति / अन्ये तु व्याचक्षते- मेरोः पूर्वाऽपरविदेहै-कैकशस्तावात् महाविदेहे द्वावेव पञ्चस्वपि दशैवेति। तथा ते आहुः- "सत्तरिसयमुक्कोसं, इतरे दससमयखेत्तजिणमाणं। चोत्तीसं पढमदीवे, अणंतरद्धे यदूण त्ति' / क इमे अर्हन्तः ? अर्हन्ति पूजासत्कारादिकमिति। तथा- ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव पर प्रश्नाऽवसरे एवमाचक्षते, यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यमेवमाचचक्षिरे, एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां पर्षदि अर्धमागध्या सर्वसत्त्वस्वभाषाऽनुगामिन्या भाषया भाषन्ते, एवं प्रकर्षण संशीत्यपनोदायाऽन्तेवासिनो जीवाजीवाश्रवसंवरबन्धनिर्जरामोक्षपदार्थान् ज्ञाप-यन्ति, प्रज्ञापयन्ति। एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषाऽऽत्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थानि चैतानीति। किं तदेवमाचक्षत इति दर्शयति- यथा सर्वे प्राणाः, सर्व एव पृथिव्यप्-तेजोवायुवनस्पतयः द्वित्रि-चतुष्पञ्चेन्द्रियाश्चेन्द्रियबलोच्छ्वासनिश्वासायुष्कलक्षणप्राण-धारणात् प्राणाः,तथा- सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति चतुर्दशभूतग्रामान्तपातीति, एवं सर्व एव जीवन्ति, जीविष्यन्ति, अजीविषुरिति जीवाः नारकतिर्यग्नरामरलक्षणाश्वतुर्गतिकाः, तथा सर्व एव स्वकृतसाताऽसातोदयसुखदुःखभाजः सत्त्वा एकाऽर्थाश्चैते शब्दास्तत्त्वभेदपर्यायैः प्रतिपादनमितिकृत्वेति / एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिना न हन्तव्याः, दण्डकशाऽऽदिभिः / नाऽऽज्ञापयितव्याः, प्रसह्याऽभियोगदानतः। न परिग्राह्याः भृत्यदासदास्यादिममत्त्वपरिग्रहतो। न परितापयितव्याः,