________________ असझाइय 834 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय द्वितीयं बन्धं ददाति, ततो वाचयति / तथाऽप्यतिष्ठति तृतीयमपि बन्धप्रत्यवतारं दत्त्वा वाचयति। जाहे तिण्णि विभिन्ना, ताहे हत्थसयबाहिरा धोउं। बंधिउ पुणो विवाए, गंतुं अण्णत्थ व पढंति / / यदा त्रयोऽपि बन्धास्तेनाऽस्वाध्यायिकेन विभिन्ना भवन्ति, तदा हस्तशताद् बहिर्गत्वा निप्रगलं प्रक्षाल्य, पुनः क्षारं निक्षिप्योपरि चीवरेण बध्वा पुनरपि वाचयति, अन्यत्र वा गन्तुं पठन्ति। एमेव य समणीणं, वणम्मि इयरम्मि सत्त बंधा उ। तह विय अट्ठयमाणे, धोऊणं अहव अन्नत्थ॥ एवमेव श्रमणीनामपि व्रणविषये यतना कर्त्तव्या भवति।इतरस्मिन्नातवे सप्त बन्धाः पूर्वप्रकारेण भवन्ति / तथापि व्रणे इतरस्मिन् वाऽतिष्ठति हस्तशताबहिः प्रक्षाल्य तथैव बन्धान् दत्त्वा वाचयति, अन्यत्र वा गत्वा पठन्ति। एतेसामन्नयरे, असज्झाए अप्पणो उसज्झायं / जो कुणइ अजयणाए, सो पावइ आणमादीणि // एतेषामनन्तरोदितानामन्यतरस्मिन्नात्मनोऽस्वाध्यायिके सति यः स्वाध्यायं करोति, तत्राप्ययतनया, स प्राप्रोत्याज्ञादीनि तीर्थकराज्ञाभङ्गादीनि दूषणानि, आदिशब्दादनवस्थादिपरिग्रहः / न केवलमिमे दोषाः, किंत्विमेसुयनाणम्मि अभत्ती, लोगविरुद्धं पमत्तछलणाय। विजा साहणवेगुण्णधम्मया एवं मा कुणसु / / अस्वाध्यायिके पठने, श्रुतज्ञानस्याऽभक्तिर्विराधना कृता भव- ति, तद्विराधनायां दर्शनविराधना, चारित्रविराधना च, तद्भावे मोक्षाभावः / तथा- लोकविरुद्धमिदं यदात्मनोऽस्वाध्यायिके पठनम् / तथा हिलौकिका अपि व्रणे आर्तवे च परिगलति परिवेषणं देवतार्चनादिकं वा न कुर्वन्ति। तथा- प्रमत्तीभूतस्य प्रान्तदेवतया छलना स्यात्। तथा- यथा विद्या उपचारमन्तरेण साध्य-साधनवैगुण्यधर्मतयान सिध्यति, तथा श्रुतज्ञानमपि। तस्माद् मैवं कार्षीः / __ अत्र परावकाशमाहचोयइजह एवं सोणियमादीहिं होइ असज्झाओ। तो भरितो चिय देहो, एएसिं किण्हु कायव्वं ?|| परश्चोदयति- यद्येवमुक्तप्रकारेणास्वाध्यायो भवति / तत एतेषां / शोणितादीनां देहो भृत इति, तत्र कथं स्वाध्यायः? अत्र सूरिराहकामं भरितो तेसिं, दंतादी अवजुया तह वि वजा। अणवजुया उ अवज्जा, लोए तह उत्तरे चेव // कामं मन्यामहे एतत्- तेषां शोणितादीनां भृतो देहः, तथापि ये दन्तादयोऽवयुताः पृथग्भूताः, ते वा वर्जनीयाः, ये त्वनवयुताः अपृथग्भूता लोकं उत्तरे च अवा अपरिहर्तव्याः। एतमेव भावयतिअभंतरमललित्तो, कुणती देवाणमच्चणं लोए। बाहिरमललित्तो उण, ण कुणइ अवणेइ व ततो णं // आभ्यन्तरमललितोऽपि देवानामर्चनं लोके करोति, बाहा-मललिप्तः पुनर्न करोति। अपनयति वा मलं ततः शरीरात्। एवम-त्रापि भावनीयम्। आउट्ठियावराह, सन्नहिया न क्खमेइजह पडिमा। इय परलोए दंडो, पमत्तछलणा इह सिया उ॥ उपेत्य कृतमपराधं सन्निहितासन्निहितप्रातिहार्यप्रतिमा यथा न क्षाम्यति, इति एवममुना प्रकारेण श्रुतज्ञानमपि कृतमपराधं न क्षमते।तत्र परलोकेषु गतिप्रपातो दण्डः, इह लोके प्रान्त-देवताछलना स्यात्। रागो दोसो मोहो, असज्झाए जो करेइ सज्झायं / आसायणा व का सा, को वा भणितो अणायारो॥ रागात् दोषात् मोहाद्वायोऽस्वाध्याये स्वाध्यायंकरोति तस्य का कीदृशी फलत आशातना? को वा कीदृशः फलद्वारेण भणितोऽनाचारः? तत्र रागद्वेषमोहान् व्याख्यानयतिगणिसद्दमाइमहितो, रागे दोसम्मिन सहत्ते सदं। सव्वमसज्झायमयं, एमादी होइ मोहे उ॥ गणी आचार्यः,आदिशब्दादुपाध्यायो गणावच्छेदक इत्यादि-परिग्रहः / एवमादिभिः शब्दैर्महित उत्कर्षतो योऽस्वाध्याये स्वाध्यायं करोति, स रागे द्रष्टव्यः। यस्त्वन्यस्य गणिशब्द-मुपाध्यायशब्दं वानसहते, अहमपि पठित्वा गणी उपाध्यायो भविष्यामि इति विचिन्त्य यत्रादरपरोऽस्वाध्यायेऽपि स्वाध्यायं विदधाति, स द्वेषेऽवसातव्यः / यस्तु सर्वमस्वाध्यायमय-मित्येवमादि विचिन्त्यास्वाध्यायं करोति, एष भवति मोह इति। सम्प्रत्याचार्यः फलद्वारेणाऽऽशातनामाहउम्मायं व लभेजा, रोगायंकं व पाउणे दीहं। तित्थयरभासिआओ, भस्सइ सो संजमाओ वा।। इहलोए फलमेयं, परलोए फलं न देंति विजाओ। आसायणा सुयस्स य, कुव्वइ दीहं तु संसारं / / उन्मादंवा लभेत, रोगाऽऽतङ्कं वा दीर्घ प्राप्नुयात्, तीर्थकर-भाषिताद्वा संयमाद् भ्रश्यति, इहलोके विद्या अङ्ग श्रुत-स्कन्धादिलक्षणाः फलं, परलोके च मोक्षलक्षणं नददति न प्रयच्छन्तिान केवलं फलदानाभावः, किंतु श्रुतस्याऽऽशातना दीर्घ संसारं करोति / तदेवं फलत आशातनाऽभिहिता। __ साम्प्रतमनाचारं फलत आहनाणायार विराहिए ,दंसण यारो वि तह चरित्तं च। चरणविराहणयाए, मुक्खाभावो मुणेयव्वो॥ अस्वाध्याये स्वाध्यायं कुर्वता ज्ञानाचारो विराधितः, तद्वि-राधनायां दर्शनाचारश्चारित्रं च विराधितम्। चरणविराधनतायां मोक्षाभावः। अत्रैवापवादमाहबितियागाढे सागा-रियादि कालगय असति वुच्छेए। एएहि कारणेहिं, जयणाए कप्पए काउं / /