________________
तत्र च (धातुपाठे) आवश्यकं शुद्धिवृद्ध्यादिकं विहितम् । कुत्रचित् याः अशुद्धयः दृष्टिगोचराः जाताः ताः परिमार्जिताः । यथा - '१७३३ भजण् विश्राणने' इत्यस्य गूर्जरार्थः 'पकवद्यु-पकावq' इति विहितः किन्तुः वस्तुतः तस्यार्थः ‘भाग आपवो' इति स्यात् ।
'२०३९ भरण प्रसिद्धार्थः' (यद्यपि तत्र 'भरणपोषणयुद्धेषु' इति मुद्रितम्) इत्यस्य अर्थः 'प्रसिद्ध थर्बु' इति कृतः, समीचीनार्थस्तु 'भरण-पोषण करतुं' इति स्यात् ।
(हैम-शब्दानुशासनस्य गूर्जरार्थेऽपि एभिः पण्डितमहोदयैः कृताः काश्चित् अशुद्धयः दृष्टिगोचराः जाताः । यथा - तृतीय अध्याये समासप्रकरणे 'करभोरु' इत्यस्यार्थः 'ऊंट जेवा साथळवाळी हे सुंदरी' इति कृतः, किन्तु स पूर्णरूपेण मिथ्या । अत्र 'करभ' इति शब्दः न उष्ट्रार्थवाची, अपि तु मनुष्यहस्ततलस्य मणिबन्धाद् आकनिष्ठं विस्तारः इत्यर्थस्य वाचकः । दृश्यतामभिधानचिन्तामणौ-करभोऽस्मादाकनिष्ठम् - श्लो. ५९२ । अतः हस्ततलैकविभागवाची अयं करभः कनिष्ठांगुली समीपे लघुः मणिबन्धसमीपे च विस्तृतः महिलोरुसमानाकारः एव वर्तते इति विज्ञजनाः सुतरां ज्ञातुं शक्नुवन्ति । इत्यलं प्रासङ्गिक चर्चया ।).
• डीसा - वर्षावास - समये "भीलडीआ-तीर्थट्रस्टी श्रीकीर्तिभाई कालिदास, डीसा जैन संघ प्रमुख स्व. अमृतलाल शेठ, जैन संघ सेक्रेटरी श्रीदलसुखभाई एफ. शेठ" इति महानुभावैः अनेकशः विज्ञप्तम्
"साधु-साध्वीनां कृते अभ्यासार्थम् उपयोगी कश्चन प्राचीनग्रन्थः भवद्भिः प्रकाश्येत चेद् वरम् ।".
इमां विज्ञप्ति मनसि आधाय 'सार्थशब्दावली' इत्ययं ग्रन्थः लिङ्गसहितः सार्थधातुपाठयुतश्च प्रकाशितः बहूपयोगी भविष्यति इति निर्णीय तत्सम्पादनार्थमुद्यमो विहितः ।
अयं ग्रन्थः 'भीलडीआजी तीर्थ ज्ञानखातुं' इत्यनेन तथा