________________
४७६ शिलोञ्छे तिर्यकाण्डः पारिन्द्र इव पारीन्द्रः, शरभेऽष्टापदोऽपि च । सृगालवच्छृगालोऽपि, प्लवगः प्रवङ्गोऽपि च ॥११४॥ वानायुरपि वातायुरुन्दरोऽपि च मूषके। हीकुर्वनविडालोऽपि, गोकर्णोऽपि भुजङ्गमे ॥११५॥ जलव्यालेऽलीगर्दोऽपि, शेषे स्यादेककुण्डल। आशीराशी च दंष्ट्रायां, निर्मोके निर्लयन्यपि ॥११६॥ पतत्त्री पतत्रिरपि, पिच्छ पिञ्छमपि स्मृतम् । परपुष्टाऽन्यभृतौ च, पिके वहिणि बहिणः ॥११७॥ वायसे वलिपुष्टोऽपि, द्रोणोऽपि द्रोणकाकवत् । सारस्यां लक्ष्मणी क्रौञ्च्या क्रुश्चा चाषे दिविः किंकी ॥११८॥ किंकिदीविरपि प्रोक्तष्टिट्टिभे टोटिभोऽपि च । कलविङ्के कुलिङ्गोऽपि, दात्यहे कालकण्ठकः ॥११९॥ दात्योहोऽपि बलाका च, बकेरुर्विसकण्टिका । मेधाव्यपि शुके तैलपायिकायां निशाटनी १२०॥ .
प्रवगोऽपि च ॥११॥ विहगे पतत्रिरपि ॥११॥ चाषे दिविः किमि
॥११॥ कलविके कलिकोऽपि ॥११९॥ बलाका बकेरका बिसकण्टिका। १२०॥