________________
४७२
शिलोछ तिर्यकाण्डः पत्तने पट्टनमपि, कुण्डिने कुण्डिनापुरम् । स्यात् कुण्डिनपुरमपि विपणौ पण्ययीथिका ॥८५॥ सुरुङ्गायां सन्धिरपि, गृहे धाममपि स्मृतम् । उपकार्योंपकर्याऽपि, प्रासादे च प्रसादनः ॥८६॥ शान्तीगृहं शान्तिगृहे, प्राङ्गणं त्वङ्गणं मतम् । कपाटवत् कवाटोऽपि, पक्षद्वारे खटक्किका ॥८७॥ कुसूलवत् कुश्लोऽपि, सम्पुढे पुट इत्यपि । पेटायां स्यात् पेटकोऽपि, पेडाऽपि कृतिनां मते ॥८८॥ पवन्यपि समूहन्यामयोनिर्मुसलं विदुः। कण्डोलके पिटकोऽपि, चूल्यामन्तीति कथ्यते ॥८९॥ खजः खजकोऽपि मथि, विष्कम्भः कुटकोऽस्य तु ।। अगोऽपि पर्वते कौजः, क्रौञ्चवन्मन्यते बुधैः ॥१०॥
अभि० मूलप्रलोकाङ्काः ९२१ १०२९] . कखट्यपि खटिन्यां स्यात् , ताम्रमौदुम्बरं विदुः । शातकौम्भमपि स्वर्णे, पारदश्चपलोऽपि च ॥९१॥ रसजातं रसाग्रं च तुत्थे दार्शीरसोद्भवे। माक्षिके वैष्णवोऽपि स्याद् गोपित्तं हरितालवत् ॥१२॥
कुशलवत् कुसूलोऽपि। समुद्रे तु पुटो मतः ॥४८॥ खजःखजाकोऽपि ॥१०॥ रसाम्यं च, तुल्ये दावारसोद्भवे ॥१२॥