________________
४६४
शिलोञ्छे मर्त्यकाण्डः
वदान्यौ पृथगित्यन्ये, दानशीलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये, श्रीमानपि बुधैः स्मृतः ॥२३॥
५
विवधिक- ववधिकावपि वैवधिके प्रतिरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुधान्याऽर्जक इतीष्यते च परैः ॥२४॥ विहङ्गिकायां च विहङ्गमाऽप्यथोर्ध्वदेहिके । और्ध्वदेहिकमप्याहुरनुज शेष्ठ इत्यपि ॥२५॥
मायावि-मायिकौ धूर्ते, कपटे तूपधा मता । चौरचौरोऽपि विज्ञेयः, स्तेयं स्तैन्यमपीष्यते ॥२६॥ दाने प्रादेशनमर्पि, क्षमा स्यात् क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक्, पिपासितोऽपि कथ्यते ॥ २७॥ भक्षकः स्यादाशिरोऽपि, मेर्जिताऽपि च मार्जिता । पेयूषमपि पीयूपं, कूचिकाऽपि तु कूर्चिका ॥२८॥ द्रसेद्रस्यमपि प्रोतं, विजिपिलं च पिच्छिले ।
"
१
२
1
व्योषे त्रिकटुकं जग्धों, जमनं जेवनं तथा ॥ २९ ॥ आधाणोऽपि भवेत् तृप्तः, शौष्कलः पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥३०॥
मूकः स्यात् ॥२२॥ ०ऽपीभ्यः श्रीमानपि ॥ २३ ॥ वहुधान्यार्जक इति प्राहुः || २४ ॥ मार्जिता चापि मर्जिता ॥ २८ ॥