________________
शेषनाममालायां देवकाण्डः ४४५ गृहजालिकाऽथ सूत्रधारे स्याद् बीजदर्शकः । पूज्ये भरटको भट्टः, प्रयोज्यः पूज्यनामतः ॥९१॥
[अभि० मूलश्लोकाङ्काः २३२-३३६] इति शेषनाममालायां देवकाण्डो द्वितीयः ॥२॥
॥ अथ तृतीयकाण्डशेषः प्रारभ्यते ॥ अथ प्रवीणे क्षेत्रज्ञो, नदीष्णो निष्ण इत्यपि । ॐकालच्छेकिलो छेके, काहलोऽस्फुटभाषिणि ॥९२॥ मुके जडकडौ मूर्खे, त्वनेडो नामवर्जितः। परतन्त्रे वंशाऽऽयत्तावधीनोऽप्यथ दुर्गते ॥१३॥ शुद्रो दीनश्च नीचश्व, भाटिस्तु गणिकाभृतौ। वस्तु-वस्तौ तु चकितेऽथ क्षुद्र-प्रखलौ खले ॥९४॥ चौरे तु चोरडो रात्रिचरो याच्आ तु भिक्षणा । अभिषस्तिर्मार्गणा च, बुभुक्षायां क्षुधाक्षुधौ ॥९५॥ भक्तमण्डे तु प्रस्राव-प्रसवाऽऽच्छोदनाऽऽस्रवाः अपूपे पारिशोलोऽथ, करम्बो दधिसक्तुषु ॥१६॥ ईण्डेरिका तु वटिका, शष्कुली त्वलोटिका। पर्यटास्तु मर्मराला, घृताण्डी तु घृतौषणी ॥९७॥
जड-किडौ मूर्खे-पु० ॥ ९३ ॥ चरडो-सू० ॥ ९५ ॥ तु घृतोषणी ॥ ९७