________________
१ परिशष्टम्
॥ ॐ अहं नमः ॥ आचार्यश्रीहेमचन्द्रसूरीश्वरविरचिता
शेषनाममाला । अथ प्रथमः काण्डः शेषः प्रारभ्यते । प्रणिपत्यार्हतः सिद्ध-साङ्गशब्दानुशासनः । शेषाख्यनाममालाया, नामानि प्रतनोम्यहम् ॥१॥ निर्वाणे स्यात् शितीभावः, शान्तिनैश्चिन्त्यमन्तिकः । शिष्ये छात्रो भद्रे भव्यं, काम्यं सुकृतसूनृते ॥२॥
इति शेषनाममालायां देवाधिदेवकाण्डः प्रथमः । ____ अथ द्वितीयः काण्डः शेषः प्रारभ्यते । फलोदयो मेरुपृष्ठं, वासवावास-सैरिको । दिदिविर्दीदिविद्यश्च, दिवं च स्वर्गवाचकाः ॥३॥ निलिम्पाः कामरूपाच, साध्याः शोभाश्चिरायुषः । प्रजिता मर्त्यमहिताः, सुवाला वायुभाः सुराः ॥४॥ द्वादशार्का वसवोऽष्टौ, विश्वेदेवास्त्रयोदश। पत्रिंशत् तुपिताश्चैव, पष्टिराभास्वरा अपि ॥५॥ पत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद् वायवोऽपरे ॥६॥ पूजिला मयं ० । वयनाः सुराः ॥ ४ ॥ विश्वदेवाः ॥ ५ ॥ वायवोऽपि च -पु० ॥६॥
४
अभि. २८ .