________________
धस्तु चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि । गुह्यकेशे विरिश्चौ धा तथा धूर्मारकम्पयोः ॥ २६ ॥ धूते धुराकम्पने च नो बुद्धौ ज्ञानबन्धयोः । असानसभ्यमस्माकमेषां स्थाने भवेश्च नः ॥ २७ ॥ निषेधार्थेऽव्यये नो च नकारश्च नरस्तु ना। निःश्रुते नेतरि ख्यातो नुःस्तुतौ च प्रकीर्तितः ॥२८॥ निः स्यात् क्षेपे च नित्यार्थे भृशार्थाश्रयराशिषु । कौशले बन्धने मोक्षे संशये दारुकर्मणि ॥ २९ ॥ अधोभावोपरमयोः संनिधानेऽव्ययो मतः । नुःप्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः ॥ ३०॥ तरण्यां नौस्तथा ख्यातः पः पाने पवने पथि। प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते ॥ ३१ ॥ फकारो निष्फले जल्पे पुष्करे भयरक्षणे । फफा वाते फले फेने फूत्कारे फूस्तथोदितः ॥३२॥ बः कुम्भे वरुणे पझे कलहे विगतौ तथा । भश्चालिशुक्रयो वे भश्च दीप्तौ भये तु भीः॥३३॥ भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे च विधौ शिवे । मौलौ च बन्धने मूः स्यान्मा माने मारणेऽव्ययः॥३४॥ अस्मच्छब्दे द्वितीयायां मा च पष्ठयां च मे पुनः । मा मातरि तथा लक्ष्म्यां यस्तु बाते यमेऽपि च ॥३५॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org