________________
जागर्ति यस्यैष मनःसरोजे - स एव शब्दार्थविवर्तनेशः । निजप्रयोगार्पितकामचारः
परपयोगार्थविशारदश्च ॥ ५५॥ इति पुरुषोत्तमदेवकृतः शब्दभेदप्रकाशः समासः। उदयानन्द बालोपाध्यायस्येदं पुस्तकं परार्थम् ।
श्रीमत्सुधाकलशमुनिपुङ्गवप्रणीता ॥श्रीएकाक्षरनाममाला॥
श्रीवर्धमानमानम्य सर्वातिशयसुन्दरम् । एकाक्षरनाममालां कीर्तयामि यथाश्रुतम् ॥ १ ॥ अपुंलिङ्गशाधारिण्यः खल्पोऽर्थेऽव्ययः पुनः । विरिञ्चावाश्च पुल्लिा आ वाक्ये स्मरणेऽव्ययः ॥२॥ आ: संतापेऽव्ययः क्रुध्यामव्ययोऽप्यधृतौ स्मृतौ । इ कामे पुंलिङ्गइ चाव्ययः कोपोक्तिखेदयोः ॥३॥ ई: पायामव्ययस्त्वी प्रत्यक्षे दुःखभाक्ने । प्रकोपे संनिधौ चैव पुल्लिा उर्वृषध्वजे ॥ ४॥ रोषोक्तौ ममणेऽप्यर्थेऽव्यय उं त्वव्ययस्तथा । प्रश्ने चाङ्गीकृते रोषे पुंलिङ्ग अस्तु रक्षणे ॥ ५ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org