________________
जरठो जठरोऽपि स्यान्निमेषो निमिषोऽपि च । बुको बकश्च कुसुमे मदनो मलयो द्रुमे ॥ २६ ॥ आराग्वधारग्वधौ च खुरकक्षुरकावपि । पृष्णिः पृश्निश्च सरयू: सरयुश्च निगद्यते ॥ २७ ॥ नीलङ्गुरपि नीलाङ्गुरीश्वरी चेश्वरापि च । तापिच्छमपि तापिञ्छं त्रपुषं त्रापुषं तथा ॥ २८ ॥ डिण्डिरोऽपि च डिण्डीरः परशं पशुना सह । वालुका वालिका चापि दोर्दोषापि भुजा भुजः ||२९|| बाहुर्बाहा तृषा तृष्णा संध्या स्यात्संधिना सह । भगिनीमपि भमीं च झल्लरीं जल्लरीं विदुः ॥ ३० ॥ वेत्रं च वेतसा सार्धमेधमाहुस्तथैधसा । संवलनं संवरणं तलुनी तरुणी तथा ॥ ३१ ॥ प्रमदावनं प्रमदवनं प्रवणं परिकीर्तितम् । वरूलिका खुरलिका वज्रं वज्रोऽशनिस्तथा ॥ ३२ ॥ शिलमुञ्छं शिलोञ्छं च भवेदुञ्छशिलं तथा । आशिराश्याऽहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरेः प्रिया ॥ ३३ ॥ कुमुदं कुमुदश्चापि योषित् स्याद्योषिता सह । तमस्तु तमसा प्रोक्तं रजसापि रजः समम् ॥ ३४ ॥ जलकास्तु जलौकाभिः कथितोऽयं जलौकसः । दिवा दिवं च कथितं पर्षः स्यात्पर्षदा सह ॥ ३५ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org