________________
२७७
निघण्टुशेषः। मञ्जिष्ठायां रक्तयष्टिः, समङ्गा विकसाऽरुणा। भण्डीरी मञ्जका भण्डी; जिङ्गी योजनवल्ल्यपि ॥ २१८७ कालमेषी कालगोष्ठी, मण्डूकपर्णिकापि च । मरिचे मलिन कृष्णं, वेल्लजं धर्मपत्तनम् ॥ २१८८. पवनेष्टं शिरोवृन्तं, मूषणं कोलकं च तत् । पिप्पल्यां च पला कृष्णा, वैदेही मागधी कणा ॥ २१८९ शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतन्दुला । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः ।। २१९० समूलकं कोलमूलं, कटुग्रन्थिकमूषणम् । चविकायां तथा चव्यं, चवनं कालवल्यपि ॥ २१९१ तत्फले वसिरो हस्तिपिप्पली श्रेयसीत्यपि । गिरिपामरस्फोता, विष्णुकान्ता पराजिता ॥ २१९२ सा तु श्वेता श्वेतनामा, कटभी श्वेतपुष्पिका । श्वेतस्यन्दाऽश्वखुरश्च, कृष्णा त्वव्यक्तगन्धिका ॥ २१९३ नीलस्यन्दा नीलपुष्पी, महाश्वेताऽङ्गवन्दना । स्मादिन्द्रवारुणी त्वैन्द्री, विषादनी गवादनी ॥ २१९४ इन्द्रैर्वारुः क्षुद्रफला, गोदुधा च गवाक्ष्यपि । द्वितीयेन्द्रवारुण्यां तु; चित्रफला महाफला ॥ २१९५ आत्मरक्षा विशाला च, त्रपुसी तुम्बसीत्यपि । .. वचायामुग्रगन्धोग्रा, जटिला शतपर्विका ॥ २१९६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org