________________
निघण्टुशेषः। समुद्रान्ता मरुन्माला, निर्माल्या देवपुत्रिका । लङ्कातिका कोटिवर्षा, देवी पङ्कजमुष्टिका ॥ २०५८ गोमी स्वर्णलतेन्द्राणी, मरुन्माला तला लधुः ।। विडङ्गे केरला मोघा, तन्दुलः कृष्णतन्दुलः ॥ २०५९ वेल्लकः (भस्मकः) कृमिहा जन्तुघातको मृगगामिनी । इन्द्राक्षे ऋषभो वीरः, श्रीमान्वृषभनामकः ॥ २०६० धूधुरो गोपतिः शृङ्गी, बन्धुरः पृथिवीपतिः । ऋद्धौ सिद्धिर्युगं योग्यं, रथाङ्गं मङ्गलं वसु ॥ २०६१ ऋषिसृष्टसुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी। पझके मालकः पीतो, रक्तश्च रुसरुश्यवः॥ २०६२ सुशुभः शीतवीर्यश्च, पाटलः पीतवर्णकः । कष्टे स्यात्काककुष्टः, पुलकः काकपालकः ॥ २०६३ रेचनः शोधनो हासो, विडङ्गो रङ्गदायकः । परूषके स्यादल्पास्थिः, परुषो नीलपर्णकः ॥ २०६४ परोऽपरः परश्चैष, परिमण्डल इत्यपि । खर्जूरे त्वजः पिण्डी, निःश्रेणिः खादुमस्तकः॥२०६५ खजूरिकायां स्याद्भूमिखर्जूरी काककर्कटी । ताले तलो लेख्यपत्रस्तृणराजो ध्वजद्रुमः ॥ २०६६ नालिकेरे रसफलो, लाङ्गली कूर्च केसरः । दाक्षिणात्यो प्रौढफलो, नारिकेरो लतातरुः ॥ २०६७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org