________________
परिशिष्टम् ।
१३५ ३. परिशिष्टम्-तृतीयम् ।
प्रबन्धकोषान्तर्गतसुभाषितस्वरूपवाक्यानां पादानां न्यायवचनानां च उद्धरणम् । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । पृ०२७ पं० २३.. राजभिः पूज्यते यश्च सर्वैरपि स पूज्यते । पृ० ३, पं० ११. शोकापनोदो धर्माचार्यः। पृ० ३; पं० २७. तपो हि वज्रपञ्जरप्रायं महामुनीनां परप्रेरितप्रत्यूहपृषत्कदुर्भेदतरम् । पृ०४, पं० १९. कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्यते । पृ०४; पं० २२. लोकः पूजितपूजकः । पृ०६;पं० १३. यचिन्त्यते परस्य तदायाति सम्मुखमेव । पृ०९; पं० ६. एकं वानरी, अपरं वृश्चिकेन जग्धा । पृ०९; पं० १८. हनूमति रक्षति सति शाकिन्यः पात्राणि कथं ग्रसन्ते । पृ० १०; पं० २१. जर्जरापि यष्टिः स्थालीनां भञ्जनाय प्रभवत्येव । पृ० १३, पं० २५. मृत्वापि पञ्चमो गेयः। पृ० १४, पं० २८. यः कालज्ञः स सर्वज्ञः । पृ० २५, पं० २१. । तेजसां हि न वयः समीक्ष्यते । पृ० २६, पं० २५. रवानि पुण्यप्रचयप्राप्यानि। पृ० २६, पं० २८. नष्टं मृतं सहन्ते हि पितरो निजतनयम् । पृ० २७, पं० ३. धनार्जकस्य कृष्छ्रमस्थानव्ययी पुत्रो न वेत्ति तातस्य । पृ० २७, पं०१३. खनाम नामाददते न साधवः। पृ० २७; पं० २०. वात्याभिन चलति काञ्चनाचलः । पृ० ३४, पं० १४. विद्वान् सर्वत्र पूज्यते । पृ० ३७, पं० १२. काकतालीयन्याय । पृ०४०, ३१. अन्धवर्तकीन्याय । पृ० ४०, ३१. अङ्गीकृतसाहसानां न किञ्चिदपि दुष्करम् । पृ० ५०; पं० २५. सेवकस्य च हिताहितविचारो नास्ति । पृ० ५१; पं०४. अर्थो हि परावर्तयति त्रिभुवनम् । पृ० ५१; पं० १७. बलवद्भिः सह का विरोधिता । पृ०५२, पं० १९. बुभुक्षितः किं न करोति पापम् । पृ०५३, पं० २६. अतिप्रज्ञापि दोषाय । पृ० ५५, पं० १०७. रसावेशे हि कालो जर्गच्छन्नपि न लक्ष्यते । पृ० ६३, पं०७. अशुभस्य कालहरणम् । पृ०७०, पं० १६. प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । पृ०७८पं०१२. कुतूहली बलसो न भवेत् । पृ० ८३; पं० २०.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only