________________
( २७६ )
आदि के अभाव का प्रसंस उपस्थित हो जायगा, अतएव औदारिक काययोग तिर्यच और मनुष्यों में ही होता है - ऐसा समझना चाहिए ।
•८ कार्मण काययोग किसके होता है।
कम्मइयकायजोगो विग्गहगइ- समावण्णाणं केवलीणं वा समुग्धाद
गाणं |
- षट् खं १ । १ सू ६० । पु १ पृ० २६८ टीका - विग्रहो देहस्तदर्था गतिः विग्रहगतिः औदारिकशरीरनामोदयास्वनिर्वर्तन समर्थात् विविधात् पुद्गलान् गृह्णाति विगृह्यतेऽसौ संसारिणा इति षां विग्रहो देहः । विग्रहाय गतिः विग्रहगतिः । अथवा विरुद्धो ग्रहो विग्रहः व्याघातः पुद्गलादान निरोध इत्यर्थः । विग्रहेण पुद्गलादाननिरोधेन गतिः विग्रहगतिः । अथवा विग्रहो व्याघातः कौटिल्यमित्यनर्थान्तरम् । विग्रहेण कौटिल्येन गतिः विग्रहगतिः । तां सम्यगापन्नाः प्राप्ताः विग्रहगतिसमापन्नाः, तेषां विग्रहगतिसमापन्नानाम् । सर्वाणि शरीराणि यतः प्ररोहन्ति तद्बीजभूतं कार्मणशरीरं कार्मणकाय इति भण्यते । वाङ्मनः कायवर्गणानिमित्तः आत्मप्रदेशपरिस्पन्दो योगो भवति । कार्मणकायकृतो योगः कार्मणकाययोगः । स विग्रहगतौ वक्रगतौ वर्तमानजीवानां भवति एतदुक्तम्, गतेत्यन्तरं व्रजतां प्राणिनां चतस्रो गतयो भवन्ति इषुगतिः पाणिमुक्ता लाङ्गलिका गोमूत्रिका चेति । तत्राचिग्रहा प्राथमिकी, शेषाः विग्रहवत्यः । ऋज्वी गतिरिषुगतिरै कसमयिकी । यथा पाणिना तिर्यक्प्रक्षिप्तस्य द्रव्यस्य गतिरेकविग्रहा गतिः तथा संसारिणामेकविग्रहा गतिः पाणिमुक्ता इसमयिकी । यथा लाङ्गलं द्विes तथा द्विविग्रहा गतिलङ्गिलिका त्रैसमयिकी । यथा गोमूत्रिका बहुवका तथा त्रिविग्रहा गतिगमूत्रिका यातुःसमयिकी । तत्र कार्मणकाययोगः स्यादिति । स्वस्थितप्रदेशादारभ्योऽवांध स्तियं गाकाशप्रदेशानां क्रमसन्निविष्टानां पङ्किः श्रेणिरित्युच्यते । तयैव जीवानां गमनं नोच्छू णिरूपेण । ततस्त्रिविग्रहा गतिर्न विरुद्धा जीवस्येति ।
घातनं घातः स्थित्यनुभययोबिनाश इति यावत् । कथमनुक्तमनधिकृतं वावगम्यत इतिचेन्न, प्रकरणवशात्तदवगतेः । उपरि घातः उद्घातः, समीचीन उद्घातः समुद्घातः । कथमस्य घातस्य समीचीनत्वमिति चेन्न, भूयः भूयः - कालनिष्पद्यमानघातेभ्योऽग्यैकसमयिकस्य समीचीनत्वाविरोधात् । समुद्घातं गताः समुद्घातगताः कथमेकस्मिन् गम्यगमकभावश्चेन्न, पर्यायपर्यायणां कथं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International