________________
( १२० )
जान लेना चाहिए, यथा- प्रथम एक समय से ग्रहण ही होता है, निसर्ग नहीं होता; क्योंकि ( प्रथम समय से ग्रहण के बाद ) द्वितीयादि समय से निसर्ग की प्रवृत्ति होती है तथा अन्तिम एक समय से निसर्ग ही होता है, ग्रहण नहीं होता । ग्रहण के बाद उत्तरोत्तर एक समय से निसर्ग होता है - ऐसा अपनी बुद्धि से विचार कर लेना चाहिए ।
परिणामालंबणगहणसाहणं तेण लद्धनामतिगं । कजन्भासन्नोन्नप्पवेसविसमीकयपवेसं
11
-कम्म० क १ मा ४|५० १६
.०९
।
टीका - xxx तेन वीर्यविशेषेण योगसंज्ञकेनौदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा चौदारिकादिरूपतया परिणमयति । तथा प्राणापानभाषा मनोयोग्यान् पुद्गलान् प्रथमतो गृह णाति, गृहीत्वा ख प्राणापानादिरूपतया परिणमयति । परिणमय्य व तन्निसर्गहेतु सामर्थ्य विशेषसिद्धये तानेव पुद्गलानवलम्बते । यथा मन्दशक्तिः कश्चिन्नगरं परिभ्रमणाय यष्टिमवलम्बते ( मवष्टम्भते )। ततस्तदवष्टम्भतो जात सामर्थ्यविशेषः सज् तान् प्राणापानादि पुद्गलान् विसृजतीति परिणामालम्बन ग्रहणसाधनं वीर्यं । तेन च वीर्येण योगसंज्ञकेन मनोवाक्कायावष्टम्भतो जायमानेन 1 'लद्धनामतिगं' ति लब्धं नामत्रिकं । तद्यथा- - मनोयोगो वाग्योगः काययोग इति । तत्र मनसा करणभूतेन योगो मनोयोगः, वाचा योगो बाग्योगः कायेन योगः काययोगः । स्यादेतत् सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिक्या दिलब्धि भावेऽपि किमिति क्वचित्प्रभूतं क्वचित् स्तोकं क्वचित्स्तोकतरमित्येचं वैषम्येण वीर्यमुपलभ्यत इत्यत आह- कज्जेत्यादि, यदर्थं चेष्टते तत्कार्य, तस्याभ्याशः, अभ्यशनमभ्याशः, अशूङ् व्याप्तावित्यस्याभिपूर्वस्य छञन्तस्य प्रयोगः, कार्याभ्याशः कार्यस्यासन्नता निकटीभवन्नित्यर्थः । तथा जीवप्रदेशानामन्योऽन्यं परस्परं प्रवेशः शृङ्खलावयवानामिव परस्परं सम्बन्धविशेषः । ताभ्यां कृत्वा विषमीकृताः (स्व) प्रभूताल्पाल्पतरसद्भावतो विसंस्थुलीकृताः प्रदेशा जीवप्रदेशा येन जीववीर्येण तत्कार्याभ्याशान्योऽन्यप्र देशविषमी कृतप्रदेशं । तथाहियेषामात्मप्रदेशानां हस्तादिगतानामुत्पाट्य मानघटादिलक्षणकार्य नै कट्यं, तेषां प्रभूततरा चेष्टा । दूरस्थानांमंसा (शा) दिगतानां स्वल्पा । दूरतरस्थानां तु पादादिगतानां स्वल्पतरा । अनुभवसिद्ध चैतत् । अपि च लोष्टादिनाऽभिघाते सति यद्यपि सर्वप्रदेशेषु युगपदुवेदनोपजायते, तथापि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकट्यं तेषां तीव्रतरा वेदना, शेषाणां तु मन्दा मन्दतरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org