________________
( १०१ )
घानवल्गनादिक्रियासु व्यापार्यत इति योगः कर्मणिघञ्, यद्वा युज्यते -सम्बध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति “पुंनाम्नि” ( सि० ५ | ३|१३० ) इति करणे घप्रत्ययः, स च मनोवाक्काय लक्षणसहकारिकारणभेदात् त्रिविधः xxx - कर्म ० ० भाग ४ | गा १ । टीका । पृ० ११३
योजन करना, अर्थात् जीव का वीर्य या परिस्पन्दन योग है ( भावे घञ् ) । अथवा घावन- वल्गनादि क्रियाओं में युक्त किया जाता है या व्यापृत किया जाता है वह योग है ( कर्मणि घञ् ) । अथवा जिसके द्वारा धावन - वल्गनादि क्रियाओं में जीव युक्त किया जाता है अर्थात् संबद्ध किया जाता है वह योग है ( करणे घञ् ) । यह योग मन, वचन और काय रूप सहकारी कारण के भेद से तीन प्रकार का है ।
.०८ अकलंकदेव
त्रैविध्यानुपपत्तिरात्मपरिणामाविशेषादिति चेत्; न पर्यायविवक्षाव्यापाराहूपादिवत् । ९ । स्यान्मतम् - योगस्य त्रैविध्यं नोपपद्यते । कुतः ? आत्मपरिणामाविशेषात् । आत्मा हि निरवयचद्रव्यम्, तत्परिणामो योगः, सोऽविशिष्ट इति; तन्न; किं कारणम् १ पर्यायविवक्षाव्यापारादूपादिवत् । यथा घटस्यैकत्वमजहतश्चक्षुरादिकरणसम्बन्धवशाद्रूपादिपरिणामभेद:, तथा आत्मनः एकत्वेऽपि पर्यायभेदात् योगस्य भेदो ज्ञेयः ।
;
चक्षुरादिग्रहणनिमित्तत्वाद् रूपाध्यवसायस्येति चेत्; न आत्मभेदेऽपि कायादीनां पूर्व कृतकर्मापादितसामर्थ्योपलम्भात् ||१०|| स्यादेतत् युज्यते घटस्य रूपादिभेदाध्यवसायः । कुतः १ चक्षुरादिग्रहणनिमित्तत्वात् । ग्रहणभेदाद्धि लोके प्राद्यभेदो दृष्टः, न तथा आत्मन इति ; तत्र ; किं कारणम् ? आत्माऽभेदेऽपि कायादीनां पूर्वकृतकर्मापादितसामर्थ्योपलम्भात् । तद्यथा पुद्गलविपाकिनः शरीरनामकर्मण उदयापादिते कायवाङ्मनोवर्गणान्यतमालम्बने सति वीर्यान्तरायमत्यक्षराद्यावरणक्षयोपशमापादिताभ्यन्तरबाग्लब्धिसान्निध्ये वाक्परिणामाभिमुख्यस्यात्मनः प्रदेशपरिस्पन्दो वाग्योगः । अभ्यन्तरवीर्यान्तरायनोइन्द्रियाधरणक्षयोपशमात्मकमनोलब्धि सन्निधाने पूर्वोक्तबाह्यनिमित्तालम्वने च सति मनः परिणामाभिमुख्यस्यात्मनः प्रदेशपरिस्पन्दो मनोयोगः । वीर्यान्तरायक्षयोपशमसद्भावे औदारिका दिसप्तविधकायवर्गणान्यतमालम्बनापेक्षात्मप्रदेशपरिस्पन्दः काययोगः । यदि क्षयोपशमलब्धिरभ्यन्तरहेतुः क्षये कथम् ? क्षयेऽपि हि सयोगकेवलिनः त्रिविधो योग इष्यते । अथ क्षयनिमित्तोऽपि योगः कल्प्यते, अयोगकेवलिनां सिद्धानां च योगः प्राप्नोति नैष दोषः ; क्रियापरिणामिन
;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org