________________
३
नो नित्यं जगतीतले किमपि हा हा विद्यते कुत्रचित् सर्व कालकालकण्ठकलितं सर्वत्र संदृश्यते । इत्थं भोगशरीरशून्यहृदयो यः काननेष्वात पत् स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभु ||
२
प्रोत ङ्ग सुरशैलशस्य शिखरे क्षीरोदधेराहृतेश्वश्वच्चन्द्रकलाकलापतुलितैरम्भोभिरानन्दिताः । जातं यं परिसंगताः सुरवराः संसिक्तवन्तः स्वयं स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ॥
१. समन्ताद्व्याप्तं २. निरन्तरं
५
ध्यानासि प्रहता खिलारिनिश्चयः स्वाधीनतां प्राप्नुवन् स्वच्छाकाशनिकाशचेतनगुणश्वासाद्य यः स्वात्मना । लेभेनन्तमनश्वरं सुखवरं स्वात्मोद्भवं स्वात्मनि स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ॥
Jain Education International
यस्य ज्ञानदिवाकरेण दलितं संतामसं सन्ततं ' नो लेभे वसुधातले क्वचिदपि स्थानं भ्रमत्सन्ततम् । लोकालोकपदार्थबोधनकरः सद्दशनातत्परः स श्री वीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ॥
For Private & Personal Use Only
| डा० पन्नालाल : साहित्याचार्यः
www.jainelibrary.org