________________
५८
श्रीन्यायसिद्धान्तप्रवेशकन्थिका यत्त्वया घटाऽभावीयप्रतियोगितावच्छेदकपर्याप्त्यवच्छेदक किमिति पृच्छन्तं मां प्रति पर्याप्त्यवच्छेदकं पर्याप्तित्वमेवेति महता समारम्भेणोत्तरितम् ! ।
नहि नहि । गन्धवत्वलक्षणस्य लक्ष्यतावच्छेदकं पृथिवीत्वं भवति ।
एवं नु किल तर्हि प्रकृते घटाऽभावीयप्रतियोगितावच्छेदकतापर्याप्त्यवच्छेदकं पर्याप्तित्वं भवेदन्यद्वा ? । .
इदानी प्रबुद्धोऽस्मि । नहि पर्याप्तित्वं, पर्याप्त्यवच्छेदकं, किन्तु यत्र घटत्वे पर्याप्तिस्तवृत्तिधर्म(मों) घटत्वत्वं एकत्वं वा अवच्छेदकं भवेत् । परन्तु.... ... निःशङ्कं पृच्छ । मा भैषीः ।।
पृच्छयेत (पृछचते) । घटसामान्याऽभावप्रस्तावे कोऽयमप्रकृत इवावच्छेदकपरम्पराप्रस्तावो वर्धमानहनुमल्लाङ्गुलमिव ? ।
अस्त्वेतत् किमपि । परं त्वयाऽवगतं न वा १ ।
श्रीमदनुग्रहादवगतम् । परं किमनेन घटाऽभावीयप्रतियोगिताऽवच्छेदकतापर्याप्त्यवच्छेदकेन ज्ञातेन घटसामान्याऽभावे भविष्यतीति न जानामि । । उच्यते । येयं घटाऽभावीया घटनिष्ठा प्रतियोगिता दृश्यते, सेदानी घटत्वगतेकरवे नेया । पश्यामि तु किल तव कौतुकम् ।
एवं वा, ज्ञातं तर्हि शनैः शनैरेतावता प्रबन्धेन बुद्धिवर्धनं दयालुभिः कृतम् । उच्यते । या हि घटाऽभावीया प्रतियोगिता स्वरूपसम्बन्धेन घट(टे) वर्तते, सैवाऽनेनाऽखण्डदण्डायमानेन घटत्वगतैकत्वे विराजमाना परिदृश्यते । 'अनेनाऽखण्डदण्डायमानेन' इति किम् ? । नाऽयमाल स्याऽवसरः । स्पष्ट वद ।
उच्यते । स्वावच्छेदकतापर्याप्त्यवच्छेदकत्वसम्बन्धेऽपि घटाऽभावीया प्रतियोगिता घटत्वगतैकत्वे गतेति स्पष्टं निरीक्ष्यते ।
साधु साधु । फलितो मे श्रमद्रुमः । एवं तर्हि घटसामान्याऽभाव इत्यस्य न 'घटनिष्ट (ष्ठ)प्रतियोगिताकाऽभाव'(इत्यर्थः) । किन्तु घटत्वगतैकत्वनिष्ट(ष्ठ)प्रतियोगिताकाऽभाव' इत्येवार्थः । प्रतियोगितायां घटत्वनिष्टै(ष्ठै)कत्वनिष्ट(ष्ठ)त्वं च पूर्वोक्तसम्बन्धेनेति ।
अहों ! कोऽयं चमत्कार इन्द्रजाल इव ।
न चमत्कारः । इममनुगमप्रकारमाहुर्जरन्नैयायिकाः । एवमेव सर्वत्र बोध्यम् । एवं क्रमेण घटाऽभाव इत्युक्तौ प्रागिव घटपटोभयाऽभाव उक्तो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org