________________
सपा मुनि शीलचन्द्रविजय निर्णयो भवति । अतो घटाऽभावोयाधनिष्ठा प्रितयोगिता संयोगसम्बन्धावच्छिन्ना भवति । एवं घटत्वावच्छिन्नाऽपि भवति ।
भो(भोः!) किञ्चित् प्रष्टुमिच्छामि । पृच्छ पृच्छ ।
तहिं पृच्छयते । या हि प्रभावीया प्रतियोगिता सा केनचित् सम्बन्धेनावच्छिन्ना भवतीति भवदुपदेशेनाऽवगतं, तत्रैव संशयः - किमर्थ प्रतियोगिता सम्बन्धावच्छिन्ना स्वीकार्या ! ।
उच्यते । यदि प्रतियोगिता किञ्चित्सम्बन्धावच्छिन्ना न स्वीक्रियते, तदा प्रतिबध्यप्रतिबन्धकभावो न स्यात् ।
कथं न स्यात् । स्याच्चेत् कुरु ।
शृणुन, क्रियते । 'घटवभूतलम्' इति ज्ञानं 'घटाऽभाववद्भूतलम्' इति ज्ञानं प्रति प्रतिबन्धकमिति प्रतिबध्यप्रतिबन्धकमावस्वीकारे को दोषः ।।
अरे ! कथं विचारमूढोऽसि ? । पश्य, 'संयोगेन घटवभूतलम्' इति ज्ञाने सत्यपि 'समवायेन घटाऽभावबद्भुतलम्' इति ज्ञानं भवत्येवेति कथं वदसि 'घटवदभूतलम्' इति ज्ञानं घटाऽभाववद्भुतलम्' इति ज्ञानं प्रति प्रतिबन्धकमिति" ? ।
आयुष्मन्नेवमवतर मार्गेण । वद तर्हि प्रतिबन्धक[कोटौ] प्रतिबध्यकोटौ वा 'संयोगेनेति प्रवेशितं त्वया, तस्य क्वाऽन्वयः ? ।
विचार्य वच्मि । आगतं । घटवदिति मतुबा भूतले घटाधिकरणत्वे ज्ञाते घटे भूतलाऽऽधेयताऽपि प्रतीयते इति तस्यामेवाऽऽधेयतायां 'संयोगेनेति तृतोयान्तार्य(2)स्य संयोगावच्छिन्नत्वस्याऽन्वयः । एवं च 'संयोगेन घटवभूतल' मिति ज्ञानमित्यस्य 'संयोगसम्बन्धावच्छिन्नघटत्वनिष्टा(ठा)ऽऽधेयतानिरूपिताऽधिकरणतावद्भूतल'मिति ज्ञानमित्यर्थः सम्पद्यते ।
स्वानुरूपं प्रयतितं त्वया ! भवतु, अग्रे वद । किं मदुक्तसमोचीनमेव सम्पन्नम् ? ।
स्पष्टमग्रे भविष्यति । इदानी प्रतिबध्यकोटौ प्रविष्टं त्य 'संयोगेने ति, तस्याऽन्वयं वद ।
पूर्ववदेवाऽस्त्यन्वयस्तत्र किं वक्तर्व्यः (व्यम्) । अथापि वद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org