________________
॥ ऐं नम : ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥ श्री न्यायसिद्धान्तप्रवेशकन्थिका ॥
॥ ६० ॥ श्री गणेशाय नमः || श्री सरस्वत्यै नमः ॥ कामिन्यां वीतरागोऽपि, विद्यायां सततं रतः । बोधपुत्र जनयतु, श्रीमानर्हज्जिनेश्वरः ॥ १ ॥ दुर्बोध किल जैनशा मस्विलं पूर्वैः कृतं विस्तृतं तर्कव्याकृति साङ्ख्ययोगपरशु (शुः) श्रौतद्वयस्याऽपि यत् । सिद्धान्तस्य विखण्डनेऽशनिरिति प्रावेशिका कन्थिका सिद्धान्तैर्ग्रथिता परं विजयते विद्वन्मनोरञ्जनी ॥ २ ॥ अथ कार्यकारणभावविचारः
घटं प्रति दण्डः कारणमित्युक्ते दण्डे घटनिरूपिता कारणता प्रतीयते । तत्रेदं' व्युत्पित्सुभिर्विचारणीयम्, घटपदार्थः कः ? दण्डपदार्थश्च कः ? । घटः पृथिवोद्रव्यं दण्डश्च तथा इति निर्णीते ( तथेति निर्णीयते । ) तदनन्तरं यत्र घट उत्पद्यते तत्र चक्रादौ दण्डोऽस्ति चेत् (द), भविष्यति कारणम् ; नास्ति चेन्न भविष्यति कारण इ ( णमि ) ति । घटोत्पत्त्यधिकरणे चक्रे यद्यपि कुलाळेन श्रमिमुत्पाद्य दण्डो भूमौ निःक्षिप्त इति न घटोत्पत्तिप्राक्क्षणे दण्डोऽस्तीति कार्यनियतपूर्ववृत्तित्वरूपं कारणत्वं न घटते । तथापि चक्रे दण्डस्य संयोगसम्बन्धाभावेऽपि दण्डजन्यभ्रमेश्चक्रे सत्त्वेन स्वजन्यभ्रमिवत्तासम्बन्धेन दण्डस्तत्र वर्तत एवेति
सुष्टुभ्यते घटं प्रति दण्डः कारणमिति ।
इत्थं च चक्रे संयोगेन घट उत्पद्यते, तत्रैव स्वजन्यभ्रमिवत्तासम्बन्धो( न्धेन दण्डोऽपि वर्तत इति संयोगः कार्यतावच्छेदकः सम्बन्धः, स्वजन्यभ्रमिवत्ता च कारणतावच्छेदकः सन्बन्ध इति मनसि निश्चिते, संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्न कार्यतानिरूपिता स्वजन्यभ्रमिवत्ता सम्बन्धावच्छिन्न-दण्डत्वावच्छिन्ना कारणतेति कार्यकारणभावः कर्तव्यः । एवं घटं प्रति चक्रं कपाल-इयं तत्संयोगः [च] कारणमित्युक्ते सर्व स्वयमभ्युह्यम् ।
अत्रेदं बोध्यम् -- यदिदं कारणत्वं तच्चाऽन्वयव्यतिरेकाभ्यां सिध्यति । न च तौ केवलदण्डे चक्रादौ वा न सम्भवतः, केवलदण्डसत्वे केवळचक्रसत्वे वा घटसरवाऽभावादिति वाच्यम् । यतः केवलदण्डसरखे घटसत्वं केवलदण्डाभाषे (च ) घटाभाव इत्यन्वयव्यतिरेकौ कदापि न प्राह्मो, त्वदुक्काऽसम्भवा
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org