________________
भारतीयदर्शनेषु समता आरोहावरोहक्रमश्च
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥३॥ एतैविमुक्तः कौन्तेय तमोद्वारैत्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ ४ ॥ त्यज दुर्जनसंसर्ग भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥ ५ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः । संयोगा विप्रयोगान्ता मरणान्तञ्च जीवितम् ॥६॥ मरणं विन्दुपातेन जीवनं बिन्दुधारणात् । इति संचिन्त्य मनसा ब्रह्मचर्यं विधीयताम् ॥७॥ ध्मायन्ते ध्मायमानानां धातूनां हि यथामलाः । तथेन्द्रियाणां दद्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ८॥ सङ्गः सर्वात्मना हेयः स चेद् हातुं न शक्यते । स सद्धिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥९॥ न हि ज्ञानेन सदशं पवित्रमिह विद्यते । अतः प्रसिद्धये तस्य सद्गुरुः संनिधाप्यताम् ॥ १० ॥ गुरुर्ब्रह्मा गुरुविष्णुर्गुरुः साक्षान्महेश्वरः। गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ११॥
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org