________________
३३०
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ
'आनन्दमयोऽभ्यासा'दिति ब्रह्मसूत्रस्य द्विधा व्याख्यानं श्रीशङ्करभगवत्पादैः कृतम् । भगवतः परमेश्वरस्य समष्टिरूपस्य तु अन्नमयकोशः ब्रह्माण्डरूपः, ब्रह्मा तु सूक्ष्मशरीरोपाधिको मनोमयः प्राणमयश्च समष्टिरूपः । विज्ञानमयोऽपि स एव । स एव चानन्दमयोऽपि । प्रपञ्चस्य सदसवैलक्षण्ये शून्यवादाद्वैतवादयोः साम्यम् । विज्ञानवादत्वेन च क्षणिकविज्ञानवादनित्यविज्ञानवादयोः साम्यम् । सांख्ययोगयोः न्यायवैशेषिकयोः सिद्धान्तसाम्यञ्च सुप्रसिद्धमेवेति नोपपाद्यते नवोदाह्रियते । 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम्' इति पञ्चभिर्लक्षणैः सर्वेषां पुराणानां साम्यं सुप्रसिद्धमेव । ज्ञानेऽधिकारिभेदेऽपि योगे सर्वेषामधिकारसाम्यमस्त्येव । वृत्तिसाम्यन्तु समाजे कलहोद्भावकत्वान्नास्ति शास्त्रेषु । दृश्यते हि साम्प्रतं वृत्तिसाङ्कर्येण कलहः समाजे । धर्मसाम्यम्, धर्मवैषम्यञ्चाधिकारिभेदेन, दृश्यतेऽधुनापि समाजे । गीतायामपि वृत्तिभेदः स्पष्टमुक्तः-स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः' इति । वस्तुतस्तु वैषम्यं जीवनं साम्यं तुप्रलय इति सांख्यसिद्धान्तः । यदा हि सत्त्वरजस्तमसां साम्यं तदा प्रलयस्तैः स्वीक्रियते । यदा तु उद्रेकानुद्रेकाभ्यां तेषां वैषम्यं तदा सर्ग इति ।
पुराणश्रवणे सामाजिकसमता दृश्यते-'श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रहः' इति। धर्मशास्त्रेषु विविधा धर्मा वर्णिताः, तेषु ये वर्णानामाश्रमाणां च विशेषधर्मास्ते प्रतिस्वं यथायथं भिन्नाः । ये तु सामान्यधर्माः ते मानवमात्रस्य अभिन्नाः यथा सत्यम्, अहिंसा, ब्रह्मचर्यम्, सन्तोषः, सद्वृत्तम्, बाह्यमाभ्यन्तरञ्च शौचम्, अद्रोहः, नातिमानिता, भूतेषु अनुग्रहः, दानम्, आर्जवम्, ह्रीः, अचापलम्, निष्कामानि कर्माणि, अस्तेयम्, अपैशुन्यम्, परापवादपरिहारः, प्राज्ञपूजनम्, अतिथिसेवा, कायवाङ्मनसां संयमः, अलोकविद्विष्टा वृत्तिः, भूतेषु दया, अपारुष्यम्, अनुढे गकरं वाक्यम्, अक्रोधः, अलोभः, धर्माविरुद्धः कामः, शमो मनोनिग्रहरूपः, दमो बाह्येन्द्रियनिग्रहरूपः। धर्मार्थकामानां साम्येन सेवनम् । यथाह-कामन्दकः-'धर्मार्थकामाः सममेव सेव्या यस्त्वेकसक्तः स नरो जघन्यः' इति । अनापदि स्वस्वकर्मपरिग्रहः । शिक्षा, देशोचितः सदाचारः । सात्त्विका आहाराः, दधिदुग्धफलादीनाम्, मद्यमांसादिपरिहारः, सात्त्विका विहाराः-दिवाकर्माणिरात्रौ शयनम्, रात्रिशेषे प्रजागरः, शरीरसहो व्यायामः, मितव्ययिता । सहजकर्मसेवनम् –'सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्' इति । भृत्यभरणम् (मातापित्रोः शिशूनां पत्न्याश्च येन केनाप्युपायेन पालनम्) यदाह मनुः----'वृद्धी च मातापितरौ भार्या साध्वी सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्' इति । एतानि कर्माणि चित्तशुद्धिद्वारा आत्मदर्शनोपयोगीनि इह लोके च सुखसमृद्धिकराणि। दर्शनेष च सर्वेषु योग आत्मदर्शनसाधनतया समाद्रियते। योगे च तथ्यमेवात्मस्वरूपं प्रकाशते
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org