SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ गणिनी आर्यिकारत्न श्रीज्ञानमती मातुः पवित्र गुर्वावलिः - आर्यिका चन्दनामतिः निजकेवलज्ञानज्योतिषा त्रिलोकवर्तिचराचरसमस्तपदार्थानां हस्तामलकवत् जानन्ति वृषभादयः चतुर्विंशतितीर्थङ्कराः । तीर्थस्य अविच्छिन्नपरम्परायां सम्प्रति श्रीवर्धमानभगवतः सार्वभौमशासनं वर्धते । तस्यैव वीरजिनेन्द्रस्य शासनकाले श्रीकुन्दकुन्दाम्नाये नन्दिसंघ सरस्वतीगच्छे बलात्कारगणे चारित्रचक्रवर्तिश्रीशांतिसागराचार्यवर्यस्तत्प्रथमपट्टाधीशो आचार्यः श्रीवीरसागरमुनीन्द्रोऽस्य करकमलात् “वीराब्दे (२४८२) द्वयशीत्यधिकचतुर्विंशतितमे वर्षे वैशाखमासे कृष्णपक्षे द्वितीयातिथौ राजस्थानप्रान्तस्य माधोराजपुरा पत्तने" सुदीक्षिता महासाध्वी आर्यिका श्रीज्ञानमती माता इह जगति चिरकालपर्यन्तं भव्यप्राणिनां कल्याणं कुर्यात् सम्यग्ज्ञानप्रकाशं च कुर्यात्। अधुनावीराब्दे अष्टादशोत्तरपञ्चविंशतिशततमे वर्षे आश्विनशुक्लापूर्णिमायां तिथौ रविवासरे मातुः गुणानुरागवशात् भाक्तिकजनाः एकस्याभिवन्दनग्रन्थस्य प्रकाशनं कृत्वा अस्याः करकमलयोः समर्पयन्ति । निजख्यातिलाभपूजाभ्यः दूरीभूत्वा गणिनी आर्यिका श्रीज्ञानमती माता ज्ञानध्यानतपोरक्ता विराजिता। मातुः ज्ञानप्रकाशिका दृष्टिः युगानुयुगपर्यन्तं वसुन्धरां विकासयेत्। इति वर्धतां गुरुशासनम्। Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.012075
Book TitleAryikaratna Gyanmati Abhivandan Granth
Original Sutra AuthorN/A
AuthorRavindra Jain
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages822
LanguageHindi
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy