________________
श्रीवल्लभगुरुसक्षिप्तचरित्रस्तुतिः
बाल्यभावात्तदीक्षाय आबाल्यब्रह्मचारिणे। ब्रह्मतेजोऽलङ्कृताय नमो वल्लभसूरये।। 1 ।। विजयानन्द सूरीन्द्रपादसेवाप्रभावतः। प्राप्तज्ञानादिकौशल्यः जयतात् सूरिवल्लभः।। 2 ।। शान्तो धीरः स्थितप्रज्ञो दीर्घदर्शी जितेन्द्रियः। प्रतिभावानुदारश्च जयताद् गुरुवल्लभः।। 3 ।। ज्ञातं श्रीवीरधर्मस्य रहस्यं येन वास्तवम्। धारितं पालितं चापि जयतात् सूरिवल्लभः।। 4।। श्रीवीरोक्तद्रव्यक्षेत्रकालभावज्ञशेखरः। अतज्ज्ञतन्मार्गदर्शी जयताद् गुरुवल्लभः।। 5 ।। जागरूकः सदा जैनशासनस्योन्नतिकृते। सर्वात्मना प्रयतिता जयतात् सूरिवल्लभः।। 6।। जैनविद्यार्थिसज्ज्ञानवृद्धयै विद्यालयादिकाः। संस्थाः संस्थापिता येन जयताद् गुरुवल्लभः।। 7।। पांचालजैनजनताधारस्तद्धितचिन्तकः । तद्रक्षाकारी प्राणान्ते जयतात् सूरिवल्लभः।। 8।। साधर्मिकोद्धारकृते पंचलक्षीमसूत्रयत्। रूप्याणां मुम्बईसयाद् जयताद् गुरुवल्लभः।। 9।। विजयानन्दसूरीशहृद्गता विश्वकामनाः। प्रोद्राविता यथाशक्ति जयतात् सूरिवल्लभः।। 10।। जीवनं जीवितं चारु चारित्रं चारु पालितम्। कार्यं चारु कृतं येन जयताद् गुरुवल्लभः।। 11।।
आगम प्रभाकर मुनि श्री पुण्य विजय जी
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org