________________
श्रीवल्लभगुरुसहितचरित्रस्तुतिः । बाल्यभावात्तदीक्षाय आबाल्यब्रह्मचारिणे । ब्रह्मतेजोऽलकृताय नमो बल्लभसूरये ॥१॥ विजयानन्दसूरीन्द्रपादसेवाप्रभावतः । प्राप्तज्ञानादिकौशल्यः जयतात्सूरिवल्लभः ॥२॥ शान्तो धीरः स्थितप्रज्ञो दिर्घदर्शी जितेन्द्रियः । प्रतिभावानुदारश्च जयताद् गुरुवल्लभः ॥ ३॥ शातं श्रीवीरधर्मस्य रहस्यं येन वास्तवम् । धारितं पालितं चापि जयतात्सूरिवल्लभः ॥४॥ श्रीवीरोक्तद्रव्यक्षेत्रकालभावशशेखरः । अतज्ज्ञतन्मार्गदर्शी जयताद् गुरुवल्लभः ॥५॥ जागरूकः सदा जैनशासनस्योन्नतिकृते । सर्वात्मना प्रयतिता जयतात्सूरिवल्लभः ॥ ६॥ जैनविद्यार्थिसज्ज्ञानवृद्धथै विद्यालयादिकाः । संस्थाः संस्थापिता येन जयताद् गुरुवल्लभः ॥ ७ ॥ पाञ्चालजैनजनताधारस्तद्धितचिन्तकः । तद्रक्षाकारी प्राणान्ते जयतात्सूरिवल्लभः ॥ ८॥ साधर्मिकोद्धारकृते पञ्चलक्षीमसूत्रयत् । रूप्याणां मुम्बईसाद् जयताद् गुरुवल्लभः ॥९॥ विजयानन्दसूरीशहृद्गता विश्वकामनाः । प्रोद्भाविता यथाशक्ति जयतात्सूरिवल्लभः ॥१०॥ जीवनं जीवितं चारु चारित्र चार पालितम् । कार्य चारु कृतं येन जयताद् गुरुवल्लभः ॥ ११ ॥
[ आचार्य श्रीविजयवल्लभसूरि स्मारकनथ'
मुंबई ई. स. १६५६]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org