SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ નન્દીસૂત્રકે વૃત્તિકાર તથા ટિપ્પનકાર अन्तिम प्रशस्ति शिष्याम्भोज दिवाकरस्य पुरतः श्रीधर्मघोषप्रभोः, सिद्धान्तं विमलाख्यसूरिगणभृच्छिष्येण संशृण्वता । स्मृत्यर्थं गणिचन्द्रकीर्त्तिकृतिना केचिद् विचारा वराः, सन्त्येते परिपिण्डिताः परिलसत्सिद्वान्तरत्नाकरात् ॥ (३) प्रतिष्ठाविधि पत्र २१-२२ (४) प्रायश्चित्तविचार पत्र २३ व (५) निःशेषसिद्धान्तपर्याय पत्र २४ - १११ दृढगालिधोयपोत्ती सदसवत्थं ति भणियं होइ ५ | रालग कंगू ||छ। संवत् १२१२ आषाढ वदि १२ गुरौ लिखितेयं सिद्धान्तोद्धारपुस्तिका लेखक देवप्रसादेनेति || || प्रन्थाप्रम् १६७० ॥ द्वितीयखण्डम् ॥छ|| शिष्याम्भोजवनप्रबोधनरवेः श्रीधर्मघोषप्रभोः वक्त्राम्भोजविनिर्गताः कतिपयाः सिद्धान्तसत्का अमी । पर्याया गणिचन्द्रकी र्त्तिकृतिना सञ्चिन्त्य सम्पिण्डिताः स्वस्य श्रीचिमलाख्यसूरिगणभृच्छिष्येण चिन्ताकृते॥छ आस्ते श्रीमदखर्वपर्वततिभिः सर्वोदयः क्ष्मातले छायाछन्नदिगन्तरः परिलसत्पत्रावली सङ्कुलः । सेवाकारिनृणां नवीनफलदोऽप्यश्रान्तसान्द्रयुतिः निश्चिद्रः सरलत्व कौतुक करः प्राग्वाटवंशः सताम् ॥ मौक्तिकहारसङ्काशः समासीत् तत्र वीहिलः । श्रावको गुणसंयोगान्नराणां हृदये स्थितः || समजनि धनदेवः श्रावकस्तस्य सूनुः, प्रथितगुणसमुद्रो मनुवाणीविलासः । गगनबलयरङ्गत्कीर्त्तिचन्द्रोदयेऽस्मिन्, लगति न च कलङ्काः खञ्जनं यस्य सत्काः ॥ [ ८५ तस्य च भार्या यशोमति, तयोश्च पुत्रो गुणरत्नैकरोहणाचलो धर्मचन्दनद्रुममलयः कीर्त्तिसुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठी । तस्य च आंबीति नाम्ना जनवत्सलाऽभूद् भार्या यशोदेवगृहाधिपस्य । यस्याः सतीनां गुणवर्णनायामाद्यैव रेखा क्रियते मुनीन्द्रैः ॥ तयोश्च पुत्रा उद्धरण - आम्बिग- वीरदेवाख्या बभूवुः सोली- लोली- सोखीनामानश्च पुत्रिकाः सञ्जज्ञिरे । अन्यदा च सिद्धान्तलेखनबद्धादरेण जिनशासनानुरञ्जितचित्तेन यशोदेव श्रावकेण सिद्धान्तविचार - पर्यायपुस्तिका लेखयामास । पूज्य श्री विमलाख्यरिगणभृच्छिष्यस्य चारित्रिणो योग्याऽसौ गणिचन्द्र कीर्त्तिविदुषो विद्वज्जनानन्दिनी । शास्त्रार्थस्मृतिहेतवे परिलसज्ज्ञानप्रपा पुस्तिका भक्तिप्राश्चितयत्युपासकयशोदेवेन निर्मापिता ॥ याबच्चन्द्र-रवी नभस्तलजुषौ यावच्च देवाचलो यावत् सप्तसमुद्रमुद्रितमही यावन्नभोमण्डलम् । यावत् स्वर्गविमानसन्ततिरियं यावच्च दिग्दन्तिनस्तावत् पुस्तकमेतदस्तु सुघियां व्याख्यायमानं मुदे || ॥ इति प्रशस्तिः समाप्ता ॥ छ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy